Posts

"शाब्दिकदृष्ट्या समासशक्तिविमर्श:"

                    "शाब्दिकदृष्ट्या समासशक्तिविमर्श:"          "वादिप्रतिवादिभ्यां निर्णीतोऽर्थः सिद्धान्तः" इति वचनं ध्यायं ध्यायं समासादिवृत्तिविषये कः सिद्धान्त आश्रयणीय इति निर्णेतुं सकलोऽपि प्रमुखदार्शनिकसमाज उपस्थितो भवति।तथा च "मुण्डे मुण्डे मतिर्भिन्ना" इति न्यायेन तत्र विविधाः सिद्धान्ता वादाश्च भाष्यादिषु दार्शनिग्रन्थेषु प्रपञ्चिताः।तत्र "शाब्दिकदृष्ट्या समासशक्तिविमर्श:" इति तावदत्र प्रस्तूयते।              “ वादे वादे जायते तत्त्वबोधः ” इति विचार्यमाणा दर्शनान्तरीयं मतं दूषयन्तस्तत्राहुर्वैयाकरणाः- यथा वाक्ये पृथक्पदानाम् आकाङ्क्षादिसहकारेण विशिष्टार्थप्रत्ययो नैवं वृत्तौ,किन्तु अवयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदार्थोपस्थितिरेव विशेष्यविशेषणभावापन्नविशिष्टार्थमवगाहते "संस्पृष्टार्थः समर्थम्" इति भाष्यात्।          अत्र वृत्तिपदेन समासादीनां पञ्चानां वृत्ती...

अन्तर्भावितण्यर्था:"-

"अन्तर्भावितण्यर्था:"-अन्तः(मध्ये) भावितः अनुप्रविष्टः (कृतः,कल्पितो,निर्धारितः सम्पादितो वा) ण्यर्थः (णिचोऽर्थः)।यस्मिन् धातौ सोऽन्तर्भावितन्यर्थः। "हेतुमति च"(अष्टाध्यायी-३.१.२६) इति पाणिनिसूत्रेण प्रवर्तितप्रयोजकणिचोऽभिधेयार्थश्च। अयमाशयो यद् यत्र णिच्प्रत्ययो न वर्तते पुनरपि तत्र तदर्थो गृह्यते,अर्थात्  णिच्प्रययं  विनापि णिचोऽर्थो यत्र समापतति तत्र अन्तर्भावितण्यर्थत्वम् अङ्गीक्रियते।एतेनाकर्मकधातोरपि सकर्मकत्वं कल्प्यते। "राजनि युधि कृञः"  (अष्टाध्यायी-३.२.९५) इति सूत्रे काशिकायामुच्यते- "ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति" इति (काशिका)। युध सम्प्रहारे" इति दिवादिगण आत्मनेपदी अकर्मकोऽनिट् धातुर्वर्तते। युधधातोरकर्मकत्वात् "राजन्शब्दे कर्मण्युपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति" इति वृत्तौ कर्मोल्लेखो न सङ्गच्छत इति तदाशयः। अन्यद्धि-  "ननु च युधिरकर्मक इति।तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः।अन्तर्भावितण्यर्थ इति।अनेकार्थत्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तद...

“प्रयोगानुसारिणो धात्वर्थाः”

          “प्रयोगानुसारिणो धात्वर्थाः”          “प्रयोगशरणाः वैयाकरणाः”इति आभणकं बहुधा विद्वत्सभासु श्रूयते।अस्यायं भावो यद् व्याकरणशास्त्रवेदिनो विद्वांसः प्रयोगम् आधृत्य  शास्त्रप्रक्रियाम् आश्रित्य पदार्थनिर्णयं कुर्वन्ति।महाभाष्यस्य पस्पशाह्निके शेषावतारेण भगवता पतञ्जलिना प्रयोगस्य महत्वं आख्यापितम्।तत्र “शब्दज्ञाने धर्मः” आहोस्वित् “शब्दप्रयोगे धर्मः”  प्रसङ्गेऽस्मिन् बहुविधं पक्षम् उपस्थाय निजकुशाग्रबुद्ध्या न केवलं शब्दज्ञाने धर्मो न च केवलं शब्दप्रयोगे धर्मः, अपितु शब्दज्ञानपूर्वके प्रयोगे धर्मः इति  सिद्धान्तितम्।             प्रयोगस्तु लोकाश्रितः।किं तर्हि व्याकरणशास्त्रेण क्रियते ? इति पूर्वपक्षस्य समाधानमित्थं प्रतिपादयति यल्लोके अर्थं दृष्ट्वा शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते।तदुच्यते- “लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेणधर्मनियमः” (महाभाष्यम्,पस्पशाह्निकम्)।          ...