"शाब्दिकदृष्ट्या समासशक्तिविमर्श:"
"शाब्दिकदृष्ट्या समासशक्तिविमर्श:" "वादिप्रतिवादिभ्यां निर्णीतोऽर्थः सिद्धान्तः" इति वचनं ध्यायं ध्यायं समासादिवृत्तिविषये कः सिद्धान्त आश्रयणीय इति निर्णेतुं सकलोऽपि प्रमुखदार्शनिकसमाज उपस्थितो भवति।तथा च "मुण्डे मुण्डे मतिर्भिन्ना" इति न्यायेन तत्र विविधाः सिद्धान्ता वादाश्च भाष्यादिषु दार्शनिग्रन्थेषु प्रपञ्चिताः।तत्र "शाब्दिकदृष्ट्या समासशक्तिविमर्श:" इति तावदत्र प्रस्तूयते। “ वादे वादे जायते तत्त्वबोधः ” इति विचार्यमाणा दर्शनान्तरीयं मतं दूषयन्तस्तत्राहुर्वैयाकरणाः- यथा वाक्ये पृथक्पदानाम् आकाङ्क्षादिसहकारेण विशिष्टार्थप्रत्ययो नैवं वृत्तौ,किन्तु अवयवशक्त्या समुदायशक्तिसहकृतया जायमाना पदार्थोपस्थितिरेव विशेष्यविशेषणभावापन्नविशिष्टार्थमवगाहते "संस्पृष्टार्थः समर्थम्" इति भाष्यात्। अत्र वृत्तिपदेन समासादीनां पञ्चानां वृत्ती...