“प्रयोगानुसारिणो धात्वर्थाः”
“प्रयोगानुसारिणो धात्वर्थाः”
“प्रयोगशरणाः वैयाकरणाः”इति आभणकं बहुधा विद्वत्सभासु श्रूयते।अस्यायं भावो यद् व्याकरणशास्त्रवेदिनो विद्वांसः प्रयोगम् आधृत्य शास्त्रप्रक्रियाम् आश्रित्य पदार्थनिर्णयं कुर्वन्ति।महाभाष्यस्य पस्पशाह्निके शेषावतारेण भगवता पतञ्जलिना प्रयोगस्य महत्वं आख्यापितम्।तत्र “शब्दज्ञाने धर्मः” आहोस्वित् “शब्दप्रयोगे धर्मः” प्रसङ्गेऽस्मिन् बहुविधं पक्षम् उपस्थाय निजकुशाग्रबुद्ध्या न केवलं शब्दज्ञाने धर्मो न च केवलं शब्दप्रयोगे धर्मः, अपितु शब्दज्ञानपूर्वके प्रयोगे धर्मः इति सिद्धान्तितम्।
प्रयोगस्तु लोकाश्रितः।किं तर्हि व्याकरणशास्त्रेण क्रियते ? इति पूर्वपक्षस्य समाधानमित्थं प्रतिपादयति यल्लोके अर्थं दृष्ट्वा शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते।तदुच्यते-
“लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेणधर्मनियमः”
(महाभाष्यम्,पस्पशाह्निकम्)।
संस्कृतभाषायाः शब्दभण्डारोऽतीव विशालोऽपरिमितश्च वर्तते।अस्याः विपुलं वाङ्मयं तेषां समेषां शब्दानां प्रयोगविषयो विद्यते। महाभाष्यस्य प्रस्तावनाभूते पस्पशाह्निकेऽअस्मिन् सन्दर्भे एको रोचकः प्रसङ्गो वर्तते यो हि प्रयोगक्षेत्रस्य विपुलतां सूचयति।यत्र पूर्वपक्षिणा उच्यते भाषायाम् एतादृशा अपि शब्दाः सन्ति।येषां शास्त्रं प्रयोगविषयो नास्ति। अथ च “सन्ति वा शब्दा अप्रयुक्ताः” इति।अस्य समाधानम् उत्तरति महाभाष्यकृदाचार्यो भगवान् पतञ्जलिः –
“यो महान् हि शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्व्र्च्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः । एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम्।एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः द्र्श्यन्ते । तत् यथा । शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति । विकारे एनम् आर्याः भाषन्ते शवः इति । हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते । दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु । ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः द्र्श्यते । क्व । वेदे । यत् वः रेवतीः रेवत्यम् तत् ऊष । यत् मे नरः श्रुत्यम् ब्रह्म चक्र । यत्र नः चक्र जरसम् तनुनाम् इति । किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।
एवमेव तत्रैव महान् शब्दस्य प्रयोगविषयः प्रतिपादितस्तेनाचार्येण।
संस्कृतभाषायाम् एतावती विपुलशब्दराशिरस्ति।यत्र धातुप्रतिपाद्या अनेके तादृशाः शब्दाः सन्ति येषाम् अनेकेऽर्था भवन्ति,ते चार्थाः संयोगादिशक्तिनियामकैर्नियन्त्रिताः भवन्ति।अथापि लक्षणावृत्तिगम्यास्तथा व्यञ्जनावृत्तिगम्याश्च भवन्ति।मञ्जूषादिग्रन्थेषु वैयाकरणा लक्षणावृत्तिं नाङ्गीकुर्वन्ति।“ननु सति तात्पर्ये सर्वे सर्वार्थवाचकाः” इति इत्यनेन महाभाष्यवचनेन वैयाकरणा वृत्तिद्वयकल्पनेगौरवभयाद् यद्यपि लक्षणावृत्तिं नाङ्गीकुर्वन्ति पुनरपि अप्रसिद्धाशक्तिरूपेण कुत्रचित् मन्यन्त एव।
पुनश्च धातुप्रतिपाद्यानां नानार्थकशब्दानाम् अर्थो विज्ञातुं तन्मूलभूतो धात्वर्थो विज्ञातव्यः।यतोहि लोके शास्त्रेषु च एकस्य शब्दस्य बहुधा अनेकार्थेषु प्रयोगः समुपलभ्यते।अतएव शक्तिग्राहकशिरोमणित्वेन व्यवहारः कीर्त्यते।अतः प्रस्तुतशोधप्रबन्धस्य अध्यायेऽस्मिन् लोके शास्त्रेषु च तत्तन्नानार्थकशब्दानां व्यवहारं प्रयोगञ्चावलोक्य तत्तदर्थं ज्ञातुं कश्चन यत्नो विधेय इति कृत्वा प्रयोगानुसारिणो धात्वर्थाः विविच्यन्ते।
पदम्-“पद स्थैर्ये”
(भ्वादिः,परस्मैपदी,अकर्मकः,
सेट् धातुः), “पद गतौ”(दिवादिः,आत्मनेपदी,सकर्मकः ,अनिट् धातुः) तथा “पद गतौ”(चुरादिः,आत्मनेपदी,सकर्मकः ,सेट् धातुः “ इत्येतेभ्यो धातुभ्यो निष्पन्नः पदशब्दो लोकव्यवहारे शास्त्रव्यवहारे च नानार्थत्वेन प्रयोगेषु समुपलभ्यते।तद्यथा- पद्यते गम्यते बोध्यते अर्थोऽनेनेति,अथ च अर्थं पदयते अर्थात् अर्थं बोधयति यत् तत्पदम्।एवं निष्पन्नः पदम् शब्दबोधकम् इति। शास्त्रेषु क्वचित् पदशब्दः पारिभाषिकोऽपि वर्तते।
तद्यथा- व्याकरणशास्त्रे “सुप्तिङन्तं पदम्”(अष्टाध्यायी -१.४.१४), “नः क्ये”(अष्टाध्यायी -१.४.१५),
“सिति च”(अष्टाध्यायी -१.४.१६), “स्वादिष्वसर्वनामस्थाने”(अष्टाध्यायी -१.४.१७) इत्येतैः चतुर्भिः सूत्रैर्विधीयमानं पदं परिभाषिकं वर्तते।
गौतमविरचिते न्यायसूत्रेऽपि पाणिनिसम्मतं सुबन्तं तिङन्तञ्च पदमित्येव प्रकारान्तरेण प्रतिपाद्यते।तत्र चोक्तम् –“ते विभक्त्यन्ताः पदम्”(गौतमन्यायसूत्रम्-०२/०२/५५)
महाभाष्येऽति तन्मतं समर्थ्यते “विभक्त्यन्तं च पदम्” इति वचनेन।
न्यायशास्त्रेऽर्थबोधकं शक्तिविशिष्टं पदं भवति।तदुच्यते- वृत्तिमत्पदं शक्तिमत् पदम् शक्त्याश्रयं वा पदम्।
काव्यशास्त्रे वाक्यैकदसम्बद्धा वर्णाः पदम्। तदुक्तं साहित्यदर्पणे-
“वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः”
(साहित्यदर्पण:-०२/०४)
, तैत्तिरीयप्रातिशाख्ये वर्णविशेषः पदम्।तदुक्तम् “एकः वर्णः पदम्”इति।शौनककृतायां बृहद्देवतायां “वर्णसङ्घातजं पदम्” इति, न्यायमञ्जर्यां जयन्तभट्टः”वर्णसमूहः पदम्”
यजुर्वेदप्रातिशाख्ये”अर्थः पदम्”।
ऋक्संहितायाम् वाक्यबोधकं पदम्। तदुक्तं-
“चत्वारि वाक्परिमितानि पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति।।“
(ऋक्संहिता-०१/१६४/४५)
महाकविदण्डिविरचिते काव्यादर्शनामके काव्यप्रबन्धे शब्देऽपि पदप्रयोगो दृश्यते।तद्यथा- “अपादः पदसन्तानो गद्यम्”
अन्यच्च –
“शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली”
(काव्यादर्शः प्रथमः परिच्छेदः-१०)
छन्दश्शास्त्रे छन्दसां पङ्क्तिविशिष्टं श्लोकचरणं पदम्।तदुच्यते-“त्रिपदा गायत्री”, “अष्टापदलेख्यैः” च।
लौकव्यवहारे पदं पादचरणाङ्घ्रिबोधकं स्थानवस्तुबोधकञ्च उच्यते।चरणबोधके पदप्रयोगो मेघदूते मेघमार्गवर्णनप्रसङ्गे यथा-
“मार्गं तावत् शृणु कथयतः तवत्प्रयाणानुरूपं,
सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयंम्।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥“
(मेघदूतम्-१३)
अन्यच्च,
“भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यति पदं पुनराश्रमेऽस्मिन्।।“
(अभिज्ञानशाकुन्तलम् -४/२०)
शक्तिग्राहकशिरोमणिलोकव्यवहारे स्थानार्थे वस्त्वर्थे चापि पदप्रयोगः समुपलभ्यते।तद्यथा-
“पदं हि सर्वत्र गुणैर्निधीयते”
अन्यच्च,
“सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः”
(अभिज्ञानशाकुन्तलम्),
तत्रैव पुनः,
“यान्त्येव गृहिणीपदं युवतयो वामाः कुलस्याधयः”
(अभिज्ञानशाकुन्तलम्)
अन्यत्रापि,
स्थानार्थे पदप्रयोगो यथा-
“एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना।
सः सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्।।“
(मनुः-०२/१९५)
एवमेव अन्यत्रापि बहुषु स्थलेषु पदप्रयोगो स्थानवस्तुविषयादिष्वर्थे समुपलभ्यते।पदशब्दस्य नानार्थकतां विविधग्रन्थेषु प्रतिपाद्यते।तच्च-
“पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु”
(अग्निपुराणम् -०३/०३/९३)
अन्यच्च,
“पदम् शब्दे च वाक्ये च व्यवसायापदेशयोः।पादतचिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः।।“
(विश्वप्रकाशः)
“श्लोकपादेऽपि च क्लीबं पुल्लिङ्गे किरणे पुन:”
(मेदिनीकोशः)
वेदान्ते शाङ्करभाष्ये तु “पदं गवादिखुराङ्कितो देशः” इत्युच्यते।
पदप्रयोगोऽध्ययनार्थेऽपि भवति। तद्यथा वैदिकसाहित्ये त्रिधा वेदमन्त्राणां पाठोऽवलोक्यते।
संहितापाठः,पदपाठः,क्रमपाठश्च।
अत्र पदपाठो नाम एकोऽध्ययनविधिः इति स्वीक्रियते।
तदित्थं स्पष्टं भवति पदप्रयोगो नानार्थेषु भवति।
अतस्तन्मूलभूतस्य पदधातोरपि नानार्थकत्वं स्वयमेव सिद्धम्।यतोहि तन्मूलभूतत्वान्नानार्थकाद्धातोरेव नानार्थकबोधकं पदं सिध्यति।
“व्युत्पत्तिः,व्युत्पन्नः”-‘विशिष्टा उत्पत्तिरिति व्युत्पत्तिः’ इति विग्रहे
‘वि’+’उद्’ इत्युपसर्गद्वयपूर्वकः पदधातोः क्तिन् प्रत्यये सति व्युत्पत्तिशब्दः सिध्यति।यो हि ज्ञानं निर्वचनम् उत्पत्तिं संस्कारं नियमं व्यवहारञ्चानेकान् अर्थान् बोधयति।
ज्ञानार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुर्लभ्यते-
“शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते” (काव्यमीमांसा, पदवाक्यविवेकः) अत्र व्युत्पद्यते अर्थात् जानाति।
वि-उद् इति उपसर्गद्वययोगेन पदधातुः उत्पत्त्यर्थमपि प्रकाशयति।तद्यथा-प्रयोगदृष्ट्या
“रमन्ते योगिनो यस्मिन्” इत्यर्थे रामशब्दो व्युत्पाद्यते।अत्र व्युत्पाद्यते अर्थात् उत्पाद्यते सम्भाव्यत इति भावः।
पुनश्च-
“उणादयोऽव्युत्पन्नानि प्रातिपदिकानि भवन्ति” इति वचने अव्युत्पन्नानि अर्थात् धातुतो नोत्पद्यन्त इति।
“व्युत्पन्नः”- ‘वि-उद् इति उपसर्गद्वययोगेन पदधातुः संस्कारार्थे लभ्यते।तद्यथा-“व्युत्पन्नोऽयं जनः” अत्र व्युत्पन्नः अर्थात् संस्कारसम्पन्नः संस्कारितश्च।
नियमार्थेऽपि ‘वि-उद् इति उपसर्गद्वययोगेन पदधातुः” दृश्यते।
शास्त्रतो लोकतो वा सिद्धा युक्तिरिति व्युत्पत्तिः।अस्य शब्दस्य पर्यायपदान्येव न्यायः,सिद्धान्तो नियमश्चेति शब्दाः। परमलघुमञ्जूषायां समासनिरूपणे तदाह –
“न च चित्रगुरित्यादौ लक्षणा। बहुव्युत्पत्तिभञ्जनापत्तेः”
(परमलघुमञ्जूषा)।अत्र
व्युत्पत्तिरित्युक्ते नियमः।
पुनश्च-
“चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः।।“
(वैयाकरणभूषणसारः)।
एतदर्थमेव व्यत्पत्तिवादग्रन्थस्य नामान्वर्थतां भजते।
व्यवहारार्थे व्युत्पत्तिशब्दो यथा-
लोकव्युत्पत्तिः अर्थात् लोकव्यवहारः तथा शास्त्रव्युत्पत्तिः अर्थात् शास्त्रव्यवहारः।
निर्वचनार्थेऽपि वि-उद् इति उपसर्गद्वययोगेन पदधातुः” दृश्यते।तदाह- व्युत्पत्तिर्व्युतपादनं निर्वचनं वेत्यर्थः।
“गिरति अज्ञानान्धकारम् यः स गुरुः” इति गुरुशब्दस्य ‘व्युत्पत्तिः’ वर्तते।
“पङ्के पङ्काद्वा जायते यत् तत् पङ्कजम्” इति पङ्कजशब्दस्य व्युत्पत्तिः वर्तते।
पुनश्च-“कारके”(अष्टाध्यायी-१.४.२६)
इति सूत्रव्याख्यायां सिद्धान्तकौमुद्यां तदित्थम् उच्यते-
“ क्रियाजनकं कारकम्। करोति क्रियान्निर्वर्तयतीति भाष्ये व्युत्पत्तिदर्शनात्।“
तथाहि
“सति सम्भवे व्युत्पत्तिरन्यथा कर्तव्या रूढेरनियमात्”इति।
"वर्णः"
"वर्ण प्रेरणे" इति (चुरादिगणीयः, परस्मैपदी, सकर्मकः सेट् धातुः),
"वर्णक्रियाविस्तारगुणवचनेषु" इति (चुरादिगणीयः,उभयपदी, सकर्मकः,सेट् धातु) तथा केषाञ्चन मते "वर्ण वर्णने" इति (चुरादिगणीयः, उभयपदी सकर्मकः सेट् धातुः ) इत्येतेभ्यो धातुभ्यः निष्पन्नो वर्णशब्दो बहुलार्थबोधको वर्तते।वर्णशब्दो व्याकरणनयेऽक्षरप्रकृतिप्रत्ययादि- ब्राह्मणादिजाति-
शुक्लादिरङ्गवाचको भवति।
अक्षरार्थे वर्णशब्दो यथा- "अकः सवर्णे दीर्घः" (अष्टाध्यायी-०६/०१/१०१), "तुल्यास्यप्रयत्नं सवर्णम्"(अष्टाध्यायी-०१/०१/०९)
"न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु" (अष्टाध्यायी-०१/०१/५८)
इत्यादिषु पाणिनिकृत्सु सूत्रेषु एवम् "ऋलृवर्णयोः सावर्ण्यं वाच्यम्" ,"वर्णात्कारः" इत्यादिषु वार्तिकेषु तथा "उपदिष्टा इमे वर्णाः" इति महाभाष्यवचने समुपलभ्यते।सोऽयं वर्णशब्दो द्विविधो ध्वन्यात्मात्मकोऽक्षरात्मकश्च।
अन्यच्च,
"प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किम्पुनरियता सूत्रेण"(महाभाष्यम् )
तथाहि,
"त्रिषष्टिश्चतुषष्टिर्वा वर्णा शम्भुमते मताः"
(पाणिनिशिक्षा)
अपरस्मिन् पक्षे वर्णशब्देन
व्याकरणशास्त्रीयप्रक्रियानिर्वाहकः प्रकृतप्रत्ययादिरूपो गृह्यते।तदुच्यते परमलघुमञ्जूषायां शक्तिनिरूपणे-
"तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा" इति।एतन्मञ्जूषावचनस्य सङ्गीताव्याख्यायामुच्यते -
"अत्र वर्णपदेन प्रकृतिप्रत्ययादीनां ग्रहणम्,आदिपदेन निपातो ग्राह्यः" इति।एवं स्पष्टो भवति यद्वर्णस्तावद्द्विविधः अकाराद्यक्षररूपः प्रकृतिप्रत्ययादिरूपश्च।
जात्यर्थे वर्णशब्दो यथा- "धर्मशीलवर्णान्ताच्च"
(अष्टाध्यायी-०५/०२/१३२),
तथा "वर्णदृढादिभ्यः ष्यञ्च" (अष्टाध्यायी-०५/०२/१३४) इत्यत्र वर्णशब्दो ब्राह्मणादिचतुष्टयजातिवाचकः।तदुक्तं गीतायाम्-
"चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः"
(श्रीमद्भगवद्गीता-०४/१३)
अन्यत्रापि -
"वर्णाः स्युर्ब्राह्मणादयः"
(अमरकोशः-०२.०७.०१) इति।
वर्णशब्दप्रयोगो लोहितादिरङ्गवाचकेऽपि भवति।तद्यथा-
"वर्णादनुदात्तात्तोपधात्तो नः"
(अष्टाध्यायी-०४/०१/३९), "वर्णो वर्णेन"
(अष्टाध्यायी-०२/०१/६९) तथा "वर्णे चानित्ये"
(अष्टाध्यायी-०५/०४/३१) इत्यादिषु सूत्रेषु वर्णो नाम शुक्लादिरङ्गवाचकः।
अन्यत्र चोक्तम् -
"अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः"
(मेघदूतम्-०१/५३)
लोकव्यवहारे तु एतदतिरिक्तार्थेषु स्तुतिरूपवर्णनविलेपनादिष्वपि वर्णप्रयोगो लभ्यते।तदुक्तं-
"वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे "
(अमरकोशः-०३/०३/४४०)।
सर्वेषां प्रयोगस्तदत्र विस्तरभयान्नोल्लिख्यते।
वर्णस्य अनेकार्थकतां दृष्ट्वा वर्णधातोरपि अनेकार्थत्वं स्वतः प्रस्फुटति।
“अर्थः”-
“अर्थ उपयाच्ञायाम्” इत्यस्माच्चुरादिगणस्थाद्धातोर्घञा प्रत्ययेन सिध्यति अर्थपदम्।यद्धि शब्दप्रतिप्रतिपाद्येऽभिधेये तथा धनसम्पद्वस्तु-विषय-हेतुकारणनिमित्त-निवृत्ति-याचना-प्रयोजनादिषु विविधेषु अर्थेषु प्रयुज्यते।शब्दप्रतिपाद्ये अर्थो नाम शब्दशक्त्या बोध्यः पदार्थविशेषः। तद्यथा- “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्”(अष्टाध्यायी-१/२/४५) , “प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्” (अष्टाध्यायी—१/२/५६) इति प्रभृतिषु महर्षिपाणिनिकृत्सु सूत्रेषु तथा “सिद्धे शब्दार्थसम्बन्धे”(वार्तिकम्-१) एवम् “अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्” इत्यादिषु कात्यायनमुनिप्रोक्तेषु वार्तिकेषु शब्दानां प्रतिपाद्योऽभिधेयो विषयविशेषश्चार्थः।यास्कप्रणीते निरुक्तेऽपि तदुच्यते –
“स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा।।“
(निरुक्तम्-०१/१८)
साहित्यदर्पणेऽपि कविराजो विश्वनाथोऽपि ब्रूते “अर्थोऽपि त्रिविधो वाच्यो लक्ष्यो व्यङ्ग्यश्च” इति। महाकविकालिदासविरचिते
रघुवंशमहाकाव्यस्य मङ्गलाचरणभूते प्रथमे पद्ये तदित्थम् उच्यते-“वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये”
(रघुवंशम् -०१/०१)
तथाहि- “भारवेरर्थगौरवम्” इति सूक्तेऽपि अर्थपदेन शब्दप्रतिपाद्योऽभिधेयविषयविशेष एव।
धनादिषु चार्थेषु अर्थशब्दप्रयोगः-“तृतीया तत्कृतार्थेन गुणवचनेन”(अष्टाध्यायी-२/१/३०) इति पाणिनिसूत्रे “अर्थाच्चासन्निहिते” इति वार्तिके समुपलभ्यते।
धनसम्पदो महत्त्वं ध्वनयन् हितोपदेशेऽपि अर्थेन बलवान् सर्वः अर्थाद्भवति पण्डितम् इति भावपरकं पद्यम् उदाहरति श्रीनारायणपण्डितः। तद्यथा-
“यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः॥“
(हितोपदेशः-१२०)
पुनस्तत्रैव,
“अर्थनाशं मनस्तापं गृहे दुश्चरितानि च। वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्।।“
(हितोपदेश:-१२७)
अन्यत्रापि,
“अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्जीवलोकस्य सुखानि राजन्॥“
(विदूरनीतिः)
तथाहि,
“अर्थस्योपार्जने क्लेशस्ततोऽपि परिरक्षणे”
शाकुन्तलेऽपि चतुर्थाङ्के
“अर्थो हि कन्या परकीय एव “
(अभिज्ञानशाकुन्तलम् -४/२४)
इति प्रभृतिषु उदाहरणेषु धनसम्पद्वस्तुबोधकेऽर्थशब्दप्रयोगो वर्तते।
पुरुषार्थेऽपि अर्थप्रयोगो दृश्यते।
“धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्।।“
(चाणक्यनीति:-१३/१०)
अन्यत्र चोक्तम्
“धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्”
(चरकसंहिता)
तथाहि-
“धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च।
प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम्।।“
(भामहकाव्यालङ्कारः-१.२)
पुनश्च,
“धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्।
पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते।।“
पुनरन्यत्र,
“इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः।“
(वेदान्तपरिभाषा)
इन्द्रियविषयभेदेऽपि अर्थशब्दप्रयोगस्तद्यथा-
इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्
(तर्कसङ्ग्रहः)
तथाहि –
“इन्द्रियार्थेषु सर्व्वेषु न प्रसज्जेत कामतः।
अपि स्वदेहात् किमुतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः।।“
( रघुवंशम्-१४/३५)
अन्यत्र चोक्तम् –
“इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते”
(वाक्यपदीयम्-०३/०१/३०)
पुनस्त्रैव
“इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं
क्वचित्।
यद्यदा यदनुग्राहि तत्तदा तत्र साधनम्।।“
(वाक्यपदीयम्-०३/०७/१२)
शास्त्रविधिबोधकेऽर्थप्रयोगः- अर्थशास्त्रम् (Economic), अर्थविज्ञानम्(Semasiology) अर्थवादः(Monetarism)
हेतुनिमित्तबोधके प्रयोजनार्थे चार्थशब्दप्रयोगो बहुधा समुपलभ्यते।तद्यथा-
“तसौ मत्वर्थे”
(अष्टाध्यायी-१/४/१९)
चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः
(२/१/३६)
इत्यनयोः सूत्रयोस्तथा “अर्थेन नित्यसमासो विशेष्यनिघ्नता चेति वक्तव्यम्”इति वार्तिके समुपलभ्यते। अन्यत्र- “द्विजार्थः सूपः, द्विजार्था यवागूःद्विजार्थं पयः” इत्यादिषु उदाहरणेषु तथान्यत्रापि
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।
(श्रीमद्भगवद्गीता-०१/०९)
पुनस्तत्रैव,
“यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।“
(श्रीमद्भगवद्गीता-०३/०९)
तथाहि संयोगादिष्वपि पठितो योऽर्थशब्दस्तस्यापि प्रयोजनबोधकत्वमेव वाक्यपदीयमञ्जूषादिग्रन्थेषु सूचितम्।तच्च-
“संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य सन्निधिः।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।।“
(वाक्यपदीयम्-३१७-३१८)
इति।
तदित्थं स्पष्टं भवति यदर्थपदं विविधपदार्थबोधकम्।तदुक्तम्- अमरकोशेऽपि-
“अर्थोऽभिधेयैरेववस्तुप्रयोजननिवृत्तषु”
(अमरकोशः-३/३/९३)
अन्यत्रापि चोक्तम् –
“अर्थः प्रकारे विषये व्यवहारे प्रयोजने।
अभिधेये धने शास्त्रे वस्तुहेतुनिवृत्तिषु।।“
तदेवमर्थपदस्य नानार्थकता प्रदर्शिता।तस्मात्तन्मूलभूतस्यार्थधातोरपि चानेकार्थस्वीकारे न काचिद्विप्रतिपत्तिः स्यादिति।
अन्वयः-“अनु” उपसर्गपूर्वकाद् “इण् गतौ” (अदादिगणीयः, परस्मैपदी,सकर्मकः,अनिट् धातुः) इत्यस्माद्धातोर्भावे कर्तरि च अच्प्रत्यये सति निष्पद्यते अन्वयशब्दः।यश्च संस्कृतवाङ्मये वंशवंशपरम्परासन्तति-
प्रत्यक्षानुगत-पदद्वयपारस्परिकसम्बन्ध-अर्थबोधविधि-न्यायशास्त्रीयविधिप्रभृतिषु
विविधेषु अर्थेषु प्रयुज्यते।
वंशकुलार्थेऽन्वयशब्दप्रयोगो कविकुलगुरुकालिदासविरचिते रघुवंशमहाकाव्ये समुपलभ्यते।तदाह-
“तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव।।“
(रघुवंशमहाकाव्यम् -०१/११)
पुनस्तत्रैव वंशपरम्परार्थेऽपि प्रयोगः समुपलभ्यते।तद्यथा-
“रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्”
(रघुवंशमहाकाव्यम् -०१/०९)
वंशजातपुत्रपौत्रादिषु अर्थेषु मनुस्मृतौ- “योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय:।।
(मनुस्मृतिः-०२/१६८)
इन्द्रियम् अन्वेति इति व्युत्पत्त्या निष्पन्नोऽन्वयशब्दः प्रत्यक्षार्थबोधको भवति।तदाह-
“निरन्वयं भवेत्स्तेयम्”
(मनुस्मृतिः-०८/३३२)
अनुगतमात्रे च भागवतपुराणेऽन्वयशब्दो दृश्यते। तत्रोच्यते-
“जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट्,
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा,
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि।।“
(श्रीमद्भागवतमहापुराणम्-०१/०१/०१)
शब्दानां परस्परम् अर्थानुगमनम् अन्वयः।तद्यथा-“अयं घृतघटः” इत्यादिषु।अत्र पदानां परस्पराकाङ्क्षा योग्यता च अन्वयो भवति।तत्रान्वयो नाम पदानां नाम स्वोपस्थाप्यपदार्थानां वा परस्परसम्बन्धो भवति।काव्यशास्त्रे शिक्षाशास्त्रे च दण्डान्वयः खण्डान्वयश्च पद्यपाठविधिर्वर्तते।
तदुच्यते-
“विशेषणं पुरस्कृत्य विशेष्यं तदनन्तरम्।
कर्तृकर्मक्रियायुक्तमेतदन्वयलक्षणम्।।“
न्यायशास्त्रे च “तत्सत्त्वे तत्सत्ता अन्वयः” इति न्यायशास्त्रीयविधिविशेषः।।
इत्थम् अन्वयशब्दो विविधार्थकः।तस्मात्तन्मूलत्वात् “इण्” धातुरपि विविधार्थको भवतीति स्पष्टं भवति।
प्रत्ययः-“प्रति” इत्युपसर्गपूर्वकात् “इण् गतौ ( अदादिगणीयः परस्मैपदी सकर्मकोऽनिट्) इति धातोः भावकरणादावर्थे यथायथम् “अचि प्रत्यये कृते सति निष्पन्नतामेति प्रत्ययशब्दो विभिन्नेषु शास्त्रेषु अनेकार्थको वर्तते।क्वचित् प्रत्ययशब्दो प्रकृत्युत्तरजायमानपदार्थविशेषे क्वचिद् बोधज्ञानप्रतीत्यर्थे, क्वचिद् बुद्ध्यर्थे,क्वचित् विश्वासार्थे,क्वचित् निश्चयार्थके च।
प्रत्येति पश्चादागच्छतीति प्रत्ययः ,अथ च प्रत्याय्यते अर्थो बुध्यते अनेनेति प्रत्ययः,अथ च प्रत्यायति अर्थं बोधयति यः सः प्रत्यय इति व्युत्पत्तिबलाद् व्याकरणशास्त्रे प्रत्ययशब्दः प्रकृतेरुत्तरविधीयमाने स्वार्थबोधके पदार्थविशेषे सुब्तिङ्कृत्तद्धितलक्षणे च वर्तते। तदुक्तं महाभाष्ये स्वीयमर्थं प्रत्यायतीति प्रत्ययः।भगवता पाणिनिनापि अनेकेषु सूत्रेषु एवंविधोऽर्थ एव प्रतिपादितः।तदाह- “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” (अष्टाध्यायी-१/२/४५), “प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्” (अष्टाध्यायी-१/२/५६) , “अणुदित्सवर्णस्य चाऽप्रत्ययः” (अष्टाध्यायी-१/१/६९) इति।तद्व्याख्याग्रन्थेषु “प्रतीयते विधीयते इति प्रत्ययः” सिद्धान्तकौमुद्याम्, “विधीयमानः प्रत्ययः”इति न्यासे, क्वचित् “स्वार्थिकाः प्रत्ययाः प्रकृत्यर्थानुवादिनः” इति वाक्यपदीये ,”प्रत्ययस्तु प्रकतिमवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेषः” इति शब्दार्थरत्ने,
“प्रत्याययन्ति सुप्तिङ्कृत्तद्धिताः प्रत्ययाः”इति बोपदेवाचार्यकृते संक्षिप्तसारव्याकरणे तथा
“स्वस्वप्रकृत्यर्थान्तरप्रत्ययायकत्वं प्रत्ययानाम् “ इति लघुशब्देन्देशेखरादौ च विस्तरेणालोचितम्।क्वचित् प्रत्ययलक्षणमेवमुक्तम्-
“इतरार्थानवच्छिन्ने स्वार्थे यो बोधनाक्षमः।
तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते।।
अन्यत्र च प्रत्ययशब्दो ज्ञानार्थको वर्तते।
“सर्वे गत्यर्था धातवो ज्ञानार्थाः प्राप्त्यार्थश्च भवन्तीति महाभाष्यराद्धान्तस्वीकारात् प्रत्ययो नाम ज्ञानम्।अन्यत्र
“उच्चरितो हि सञ्ज्ञाशब्दः सञ्ज्ञिनं प्रत्याययति” इत्यत्रापि प्रत्याययति नाम ज्ञानं कारयति बोधयतीत्यर्थः।तस्मादेव प्रतीयतेऽर्थो बुध्यतेऽनेनेति प्रत्ययशब्दव्युत्पत्तिः प्रदर्शिता वर्तते।तथाहि-
“नायं लोकोSस्ति न परो न सुखं संशयात्मनः।
ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम्।।
प्रस्तुते पद्येऽस्मिन् “प्रत्ययो मोक्षलक्षणम्”
(महाभारतम्)
इति पादांशे प्रत्ययपदं ज्ञानार्थकमेव।
वैयाकरणानां मूर्धन्ये दार्शनिकग्रन्थे वाक्यपदीयेऽपि तदित्थं प्रत्ययशब्दो ज्ञानार्थकत्वेन प्रतिपादितः-
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।
(वाक्यपदीयम्-ब्रह्मकाण्डम्-१२३)
अन्यत्रापि –
“प्रत्ययः सर्वदर्शनः”
(विष्णुसहस्रनामस्तोत्रम्-२३)
बुद्ध्यर्थे प्रत्ययशब्दो यथा-“महत्तत्वधर्मः प्रत्ययः”साङ्ख्ये।तदुक्तं साङ्ख्यकारिकायाम्-
“एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥
“प्रत्ययश्च बुद्धिरात्मगुणः” न्याये
इति।
निश्चयार्थे प्रत्ययशब्दो यथाह मनुः –
“यदि संशय एव स्यात् लिङ्गानामपि दर्शने।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः।।“
(मनुस्मृति:-८/२५३)
अन्यच्च –
“साक्षिप्रत्ययसिद्धानि कार्याणि
यदि न प्रत्ययोऽस्मासु विद्यते “इति।
विश्वासार्थेऽपि प्रत्ययशब्दो विद्यते। कविकुलगुरुणा कालिदासेन स्वविश्वविश्रुतस्य नाटकस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्के सूत्रधारोक्तौ तदुक्तम् –
“आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥“
(अभिज्ञानशाकुन्तलम् -१/२)
पुनश्च कालिदासविरचिते मालविकाग्निमित्रे सूत्रधारोक्तौ चोक्तम् –
“पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः।।“
(मालविकाग्निमित्रम्-१/२)
हेतुरन्ध्राधीनशपथाचारेषु अन्येष्वपि अनेकार्थेषु प्रत्ययशब्दो विद्यते। तदुक्तम् –
“प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु”
(अमरकोशः-३.३.१५६)
अन्यत्र चोक्तम्-
“प्रत्ययो ज्ञानरन्ध्रयोः”
अन्यच्च –
“विश्वासे शपथे हेतावाचारप्रथितत्वयोः”
(हेमचन्द्रः)
अन्यद्धि-
“प्रत्ययाः सहकारिणः”
(त्रिकाण्डशेषकोशः)
उपर्युक्तविवेचनेन स्पष्टो भवति यल्लोके प्रत्ययशब्दोऽनेकार्थको विद्यते। अतस्तन्मूलभूतस्य “इण् गतौ”इति धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति मन्मतिः।
वृत्तिः-“वृतु वर्तने”(भ्वादिगणीयाद् आत्मनेपदिनोऽकर्मकात्), “वृतु वरणे”(दिवादिगणस्थाद् आत्मनेपदिनोऽकर्मकात्), “वृतु भाषार्थे”(चुरादिगणस्थात्परस्मैपदिनः सकर्मकात्) केषाञ्चन मते “वृतु भासार्थे”(भासार्थो नाम भासा दीप्तिरर्थो यस्य सः, तस्मात् कविकल्पद्रुमे “वृतु दीप्तौ” इति पठ्यते) इत्येभ्यो धातुभ्यो भावकर्मादौ यथायथं क्तिन् प्रत्यये कृते सति निष्पन्नतामेति वृत्तिशब्दो विविधेषु शास्त्रेषु विविधार्थबोधको दृश्यते। क्वचित् जीविकाजीविकाजीवनोपायार्थे, क्वचित् सत्तास्थितिप्रवर्तनार्थे, क्वचिद् व्यापाराधेयव्यवहारेषु, क्वचित् पदपदार्थसम्बन्धशक्तिनिरन्तरता न्तःकरणावस्थाज्ञानार्थेषु क्वचित् व्याख्याटीकाविवरणवाक्यार्थेषु च वृत्तिशब्दप्रयोगः समुपलभ्यते।
जीविकाजीविकाजीवनोपायार्थेषु वृत्तिशब्दो यथा –
“जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशे”ु"
(अष्टाध्यायी-४/१/४२) इति सूत्रे।एतत्सूत्रव्याख्याने न्यासे “जीवनोपायो वृत्तिशब्देन इहोच्यते” पदमञ्जर्यां “वर्तते अनया सा वृत्तिरुपजीविका”, तत्वबोधिन्यां “वर्ततेऽनया वृत्तिर्जीविका “ तथा बालमनोरमायां “जीविका चेद्गम्या”इति निर्देशा लभ्यन्ते।तस्माद्वर्तते यया अनया वेति वृत्तिः जीविकाजीविकाजीवनोपायबोधिका। तदुक्तम् –
“एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शास्वती”
(मनुस्मृतिः-४/२५९)
अन्यत्र चोक्तम्-
“स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः”
(ब्रह्मवैवर्त्तपुराणम्-प्रकृतिखण्डः-४९अध्यायः)
“वर्तनं वृत्तिः” इति व्युत्पत्त्या सत्तास्थितिबोधके वृत्तिशब्दो यथा धातुपाठे “वृतु वर्तने” इत्यत्र “वर्तनं सत्ता” इति अर्थनिर्देशो व्याख्यानाल्लभ्यते।तत्रैव “वर्तनं स्थितिः”इति क्षीरतरङ्गिण्याम् उच्यते।
प्रवर्तनार्थे वृत्तिशब्दो यथा-
“उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति।।
(अभिज्ञानशाकुन्तलम् -४/१९)
अन्यत्र चोक्तम् –
महाभाष्यस्य प्रथमे प्रस्तावनाख्ये पश्पशाह्निके वर्णोपदेशप्रयोजननिरूपणावसरे किमर्थं वर्णानामुपदेशः कर्तव्यः इति प्रश्नस्योत्तरत्वेन भगवान् भाष्यकार आह “वृत्तिसममवायार्थं वर्णानामुपदेशः कर्तव्यः” पुनस्तत्रैव वृत्तिर्नाम शास्त्रप्रवृत्तिरिति स्वयम् अनिरूपयत्।तदुक्तम् “वृत्तिसमवायार्थ उपदेशः “(महाभाष्य-वार्तिकम्) इति शेखरादौ विस्तरेण प्रपञ्चितं वर्तते।
“वर्ततेऽअस्मिन्निति वृत्तिः”इति व्युत्पत्त्या निष्पन्नो वृत्तिशब्द आधेयवाचकः।तदुक्तम् –“व्याप्तिपञ्चकं वृत्तिः” ,”साध्याभाववद्वृत्तित्वम्”
अन्यत्र चोक्तम् –
“सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्।।“
(भाषापरिच्छेदः)
पुनश्च,
“वृत्त्याश्रयः स्फोटः” इति मञ्जूषा। वृत्तिः चित्तस्य अवस्थाविशेषो व्यापारविशेषश्च।तद्यथा-“योगश्चित्तवृत्तिनिरोधः”
(पातञ्जलयोगसूत्रम्-२)।
पुनस्तत्रैव चित्तवृत्तयः पञ्च।साङ्ख्यदर्शनेऽपि वृत्तिर्व्यापारः। तदुक्तम् –“अर्थनिकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमोऽभिभवे यः सत्वसमुद्रेकः”
(साङ्ख्यतत्वकौमुदी-५)
अन्यत्रापि-
“औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम्।
नातिश्रमापनयनाय न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥
(अभिज्ञानशाकुन्तलम् -५/६)
अर्थबोधं प्रति अनुकूलः कश्चन शब्दव्यापारविशेषो वृत्तिः।अभिधा लक्षणा व्यञ्जना चेति तिस्रो वृत्तयः।
तदुक्तम्-“अर्थनित्यः परीक्षेत केनचिद् वृत्तिसामान्येन”
पुनश्च
“तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने”
(साहित्यदर्पणः-२/२०)
वेदान्ते तु अन्तःकरणादेः परिणामभेदो वृत्तिः।तदुक्तम् –
“अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकम्”
इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्बन्धार्था।
पुनश्च,
“ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता”
क्वचित् वृत्तिशब्दस्य व्यवहारार्थेऽपि प्रयोगो लभ्यते।
“गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्”
(मनुस्मृतिः-२/२०५)
अन्यत्रापि,
“शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्॥“
(रघुवंशम् -१/८8)
अन्यच्च,
“शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी,
यान्त्येवं गृहणीपदं युवतयो वामाः कुलस्याधयः।।“
(अभिज्ञानशाकुन्तलम् -४/१८)
व्याकरणशास्त्रे तु विविधार्थको भवतीति क्वचित् शब्दोच्चारणव्यापारविशेषः।तद्यथा-
“अभ्यासार्थे द्रुता वृत्तिर्मध्या वै चिन्तने स्मृता।
शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता।।“
एतादृशो भाव एव प्रकारान्तरेण निगदितो वर्तते।तद्यथा-
“द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥”
पुनश्च क्वचित् पदपदार्थसम्बन्धरूपा वृत्तिः सा च शक्तिव्यञ्जनाऽन्यतमा रूपा।तल्लक्षणं-“शाब्दबोधनिष्ठपदार्थोपस्थितिजनकत्वं वृत्तित्वमाहुर्वैयाकरणाः”।अस्यायं भावः-शब्दो हि येन व्यापारेण स्वकीयम् अर्थं बोधयति सा वृत्तिः।
शाब्दबोधीयकार्यकारणभावनिरूपणप्रसङ्गे मञ्जूषायां तदित्थं निरूपितम् –
“तद्धर्मावच्छिन्नशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः।“
पुनस्तत्रैव महाभाष्यवचनम् उदाहृतम्
“अत एव नागृहीतवृत्तिकस्य शाब्दबोधः”।
तच्च मञ्जूषादौ विस्तरेण प्रपञ्चितं वर्तते।
पुनश्च क्वचित् “कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्चवृत्तयः” “समर्थः पदविधिः”
अष्टाध्यायी -२/१/१) इति महाभाष्यादिषु ग्रन्थेषु व्याख्यातम्।
क्वचित् जहत्स्वार्थाजहत्स्वार्थत्वेन वृत्तेस्द्वैविध्यं व्याख्यातम्।तदपि “अनेकमन्यपदार्थे” (अष्टाध्यायी -२/२/२४) इति सूत्रस्य व्याख्याने समुपलभ्यते।तदुक्तम् –
“सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः वक्तव्यः”
(महाभाष्यवार्तिकम्)
पुनस्तत्रैव चोक्तम् –
“सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो न”इति।
एवम्प्रकारिकाया वृत्तेर्लक्षणमित्थं वर्तते –“परार्थाभिधानं वृत्तिः”इति।
अत एव भूषणसारादौ प्रतिपादितं सङ्गच्छते –
“बहूनां वृत्तिधर्माणां वचनैरेव साधने”
क्वचित् व्याख्याग्रन्थार्थे वृत्तिशब्दप्रयोगो लभ्यते।तद्यथा-
“सूत्रार्थविवरणं वृत्तिः”
(यशोवर्मकृतं कातन्त्रव्याकरणम्)
अत एव वृत्तित्वेन काशिकान्यासपदमञ्जरीप्रदीपादयो ग्रन्थाः वृत्तिग्रन्थत्वेन विद्वत्समाजे बहुधाद्रियन्ते।माघकाव्ये तदुक्तम्-
“अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा॥“
(शिशुपालवधम्-२/११२)
वृत्तिकारत्वेन कात्यायनो वररुचिस्तु “त्रिमुनि व्याकरणम्”इत्यत्र महत्वपूर्णं स्थानम् आधत्ते।
पाणिनिमते “वृत्तिसर्गतायनेषु क्रमः” इति सूत्रेऽस्मिन् वृत्तिशब्दार्थो निरन्तरता वर्तते।तदुक्तं काशिकावृत्तौ- “वृत्तिरप्रतिबन्धः:” इति।महाभाष्ये तु वृत्तिर्नाम शास्त्रप्रवृत्तिरिति पूर्वमेव स्पष्टीकृतम्।
नाट्यशास्त्रेऽलङ्कारशास्त्रे च नायकादिव्यापारमादाय वृत्तिपदेन चतस्रो नाट्यवृत्तयो गृह्यन्ते।तदुक्तम् –
“श्रृङ्गारे कैशिीकी वीरे सात्वत्यारभटी पुन:।
रसे रौद्रे च वीभत्से च वृत्ति: सर्वत्र भारती।।
चतस्रो वृत्तयो ह्येता: सर्वनाट्यस्य मातृका:।
स्युर्नायकादिव्यापारविशेषा नाटकादिषु।।“
(साहित्यदर्पण:-६/१२२-१२३)
एतत्सर्वम् आदाय कोशग्रन्थेषु वृत्तिपदस्य नानार्थकता प्रदर्शिता।
तदुक्तम् –
“आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने”
(अमरकोश:-२/९)
अन्यत्र चोक्तम् –
“वृत्तौ भाष्ये तथा नामधातुपारायणादिषु”
(वामनजयादित्यकृता काशिका)
पुनश्च
“वृत्तिर्ग्रन्थजीवनयोः”
(मेदिनीकोशः)
एतैः प्रमाणैः सुसिद्धं भवति वृत्तिपदम् अनेकार्थबोधकम्।अतस्तन्मूलभूतस्य वृत् धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति मन्मतिः।
योगः –“युज समाधौ”(दिवादिगणीयः आत्मनेपदी अकर्मकः अनिट्), “युजिर् योगे”(रुधादिगणीयः उभयपदी सकर्मकः अनिट्), “युज संयमने”(चुरादिगणीयः उभयपदी सकर्मकः सेट्) इति धातूनां भावादौ यथायथं घञि प्रत्यये सति निष्पन्नो योगशब्दो ध्यानसमाध्यर्थे योगसंयोगार्थे ऐक्यमेलनार्थे अलब्धलाभार्थे युक्त्युपायसाधनार्थे सम्बन्धार्थे अवयवार्थनिरूपितशब्दार्थशक्तिभेदे सूत्रशास्त्रभेदे च शास्त्रान्तरेषु विविधार्थबोधको दृश्यते।
युज्यतेऽनेनेति व्युत्पत्त्या निष्पन्नो योगशब्दो ध्यानसमाधियुक्त्युपायसाधनार्थं बोधयति।तत्रादौ ध्यानसमाध्यर्थे चित्तैकाग्र्यं योगपदेन व्यपदिश्यते। तदुक्तं पातञ्जलयोगदर्शनस्य समाधिपादे-“योगश्चित्तवृत्तिनिरोधः”
(पातञ्जलयोगसूत्रम्-१.१.२) इति।तत्रैव व्यासभाष्ये “योगः समाधिः” इत्युक्तम्।एतन्मतमेव कविकल्पद्रुमेऽपि समुपलभ्यते। तत्रोच्यते “युज समाधौ” इति तत्र “समाधिश्चित्तवृत्तिनिरोधः”इति।पुनश्च कविकल्पद्रुमे “युज युतौ”इति धातूल्लेखः कृतः।युतिर्नाम योगः संयोगो मेलनम् ऐक्यमेव।तदित्थं योगपदेन संयोगो मेलनम् ऐक्यञ्चेति फलितार्थो भवति।
तस्मात् जीवपरमात्मनोः संयोगो मेलनमैक्यभावश्च योगः।तदुक्तं योगयाज्ञवल्क्ये-
“संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः”
(योगयाज्ञवल्क्यम्-१/४३)
एतदेव प्रकारान्तरेण क्वचिदुक्तम्-
“संयोगं योगमित्याहुर्जीवात्मपरमात्मनोः”इति ।
श्रीमद्भगवद्गीतायान्तु योगेश्वरश्रीकृष्णेन सिद्धासिद्ध्योः सुखदुःखयोर्भावाभावयोर्वा साम्यावस्था योगलक्षणमुक्तम्। तदुच्यते-
“योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।“
(श्रीमद्भगवद्गीता-२/४८)
पुनश्च-
“तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा।।“
(श्रीमद्भगवद्गीता-६/२३)
पुनश्च तत्रैव कार्यकुशलता योगपदेन निर्दिष्टा।तदुक्तम्-
“बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।“
(श्रीमद्भगवद्गीता-२/५०)
व्याकरणशास्त्रीयसूत्रेषु बाहुल्येन
योगशब्दः सम्बन्धार्थे प्रयुक्तो दृश्यते। तद्यथा-
“अन्तरं बहिर्योगोपसंव्यानयोः”
(अष्टाध्यायी-१/१/३६), “षष्ठी स्थाने योगा”(अष्टाध्यायी-१/१/४९) ,
“उपसर्गाः क्रियायोगे”(अष्टाध्यायी-१/४/५९),
“तेन सहेति तुल्ययोगे”(अष्टाध्यायी-२/२/२८),
“लुब्योगाप्रख्यानात्”
(अष्टाध्यायी-१/२/५४),
“नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च”(अष्टाध्यायी-२/३/१६),
“पुंयोगादाख्यायाम्”
(अष्टाध्यायी-४/१/४८) इत्यादीनां पाणिनिसूत्राणां न्यासबालमनोरमातत्वबोधिनीव्याख्यासु व्याख्याकृद्भिराचार्यैः योगशब्दस्य सम्बन्धोऽर्थः प्रदर्शितः।
“अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि”इति वार्तिकेऽपि स एवार्थो निर्दिष्टो वर्तते।
क्वचिद्व्याकरणनिकाये अवयवशक्तिर्योगः
नागेशभट्टेन परमलघुमञ्जूषायां शक्तिनिरूपणे “सा च शक्तिस्त्रिधा।रूढिर्योगो योगरूढिश्च”इति प्रतिपादितम्।पुनस्तत्रैव “शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः,यथा पाचकादौ” इति प्रतिपादितम्।अतस्तन्मते योगशब्देन योगशक्तिर्योगशब्दो योगार्थश्च गृह्यते।
“लुब्योगाप्रख्यानात्”(अष्टाध्यायी-१/२/५४)
“योगप्रमाणे च तदभावेऽदर्शनं स्यात्”
(अष्टाध्यायी-१/२/५५) इत्यनयोः सूत्रयोर्बालमनोरमायां योगशब्दस्य अवयवार्थोऽर्थः प्रदर्शितः।येन वाक्यं युज्यते स योगः इति कृत्वा
भाष्ये कुत्रचिद् योगशब्दार्थः सूत्रं शास्त्रञ्च स्वीक्रियते।तन्मते “ न तर्हि अयं योगो वक्तव्यः” , “योगविभागः क्रियते” “योगविभागादिष्टसिद्धिः”
(“विभाषा जसि”-अष्टाध्यायी-१/१/३२) इत्यादिषु भाष्यप्रमाणवचनेषु योगशब्देन सूत्रं शास्त्रञ्चार्थो स्वीकृतः।अन्यथा चेत् तत्र काल्पनिकापत्तिरुत्पद्येत अनादित्वञ्च न सिध्येत।
ज्योतिश्शास्त्रेऽपि चन्द्रसूर्ययोः युतिर्योगः,वारतिथिसंयोगो योगः।तिथिनक्षत्रयोः सङ्गमो योगश्च कथ्यते।
ग्रहराशिभावेषु तिथिनक्षत्रमुहूर्तेषु च कश्चन विशिष्टः सम्बन्धो योगः।
अलब्धस्यलाभो योगः।
येन आत्मा परमात्मनि युज्यते स योगः।येन दर्शनेन चित्तविकारानपहृत्य चिदानन्दात्मदर्शन विधीयते।अत्र योगशब्दो योगदर्शनबोधको भवति।यद्धि आत्मदर्शनसाधनं वर्तते।तदुक्तं-
“इज्याध्ययनदानानि तपः स्वाध्यायकर्मणी।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम्।।“
अन्यच्च,
“योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।“
तथाहि,
“हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः”
पुनश्च,
“भक्तियोगः क्रियायोगः चर्यायोगस्तथैव च।
कर्मयोगो हठो मन्त्रो ज्ञानयोगो लयस्तथा।।
अद्वैतो लक्ष्ययोगश्च सिद्धिर्ब्रह्म तथा शिवः।
वासनाध्यानयोगौ च सर्वे सूत्रेषु दर्शिताः।।“
(योगसूत्रसारः-४६-४७)
अतएव श्रीमद्भगवद्गीतायाः प्रत्येकम् अध्यायानां नामसु योगशब्दप्रयोगः सार्थकत्वं भजते।एतेन ज्ञायते यत् योगशब्दो युक्त्युपायसाधनेष्वपि वर्तते।
तदुक्तं रघुवंशे-
“वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्”
(रघुवंशम् -१/६)
तदित्थं विवचनेन स्पष्टं भवति यल्लोके शास्त्रे च योगशब्दो विविधार्थबोधको वर्तते।तदुक्तम् अमरकोशकारोऽपि-
“योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु”
(अमरकोशः -३/३/२८)
अतस्तन्मूलभूतस्य युज् धातोरपि अनेकार्थकतास्वीकारे न काचिद् विभाति विप्रतिपत्तिः।
सर्गः -सर्गशब्दः "सृज विसर्गे" (तुदादिगणीयः,परस्मैपदी, सकर्मकोऽनिट् धातुः) तथा "सृज विसर्गे" (दिवादिगणीयः,आत्मनेपदी,
सकर्मकोऽनिट् धातुः) इत्येताभ्यां धातुभ्यां घञा प्रत्ययेन निष्पन्नो भूत्वा उत्साहार्थे,निश्चयार्थे,
सृष्ट्युत्पत्तिसम्भवार्थे,त्यागनिर्मोक्षार्थे,
महाकाव्यपरिच्छेदकेऽध्यायविशेषार्थे
प्रकृतिनिसर्गस्वभावार्थे चानेकार्थेषु शास्त्रान्तरेषु प्रयुज्यते।
तत्रादौ शब्दशास्त्रे "वृत्तिसर्गतायनेषु क्रमः"(अष्टाध्यायी-०१/०३/३८) इत्यस्मिन् सूत्रे सर्गशब्द उत्साहार्थबोधको वर्तते।तदुक्तं तद्व्याख्याग्रन्थेषु काशिकासिद्धान्तकौमुदीपदमञ्जर्यादिषु "सर्ग उत्साहः"इति।निश्चयार्थे रघुवंशे यथोक्तं- गृहाण शस्त्रं यदि सर्ग एष ते,
न खल्वनिर्जित्य रघुं कृती भवान्"
(रघुवंशमहाकाव्यम्-०३/५१)
सृष्ट्युत्पत्त्यर्थे सर्गशब्दः पुराणेषु बहुधा प्रपञ्चितो विद्यते।पुराणलक्षणे यथोक्तम्-
"सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्॥"
(मत्स्यपुराणम्-४३/६४)
अन्यत्रापि चोक्तम् -
"सर्गश्चाथ विसर्गश्च वृत्ती रक्षान्तराणि च।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः।।"
(श्रीमद्भागवतमहापुराणम्-१२/७/९)
पुनश्च,
"अत्र सर्गो विसर्गश्च स्थानं पोषणमुत्तयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः।।"
श्रीमद्भागवतमहापुराणम्-०२/१०/१)
पुनस्तत्रैव-
"अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः।
भूतमात्रेन्द्रियाणां सम्भवः सर्ग उच्यते।।"
(श्रीमद्भागवतमहापुराणम्-१२/७/११)
साङ्ख्यदर्शनेऽपि सर्गपदेन सृष्ट्युत्पत्त्यर्थ एव गृह्यते।
"पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥"
(साङ्ख्यकारिका-२१)
पुनश्च-
"अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः।
ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव॥"
(साङ्ख्यकारिका-२४ )
पुनस्तत्रैव
"न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्माद्विविधः प्रवर्त्तते सर्गः॥"
(साङ्ख्यकारिका-५२)
त्यागार्थे सर्गशब्दो यथा-
"राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः।
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयो:।।"
(महाभारतम्-१३/१६२/३५)
प्रकृतिनिसर्गस्वभावार्थे सर्गशब्दो मनुस्मृतौ दृश्यते।तद्यथा-
"हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मवृतानृते।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत्।।"
(मनुस्मृति:-०१/२९)
महाकाव्यपरिच्छेदकोऽध्यायविशेषोऽपि सर्गशब्देनोच्यते। तदुक्तं भामहकृतकाव्यालङ्कारग्रन्थे
"सर्गबन्धो महाकाव्यं महताञ्च महच्च यत्"
(भामहकृतः काव्यालङ्कारः-१/१६)
पुनश्च काव्यदर्पणनामके ग्रन्थे तदित्थं निर्दिष्टम् -
"सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥
इतिहासकथोद्भूतमितरद्वा सदाश्रयम् ।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्।।"
(काव्यदर्पण:-१/१४-१५)
पुनश्च साहित्यदर्पणेऽपि महाकाव्यलक्षणे तदेवमुच्यते-
"सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः"
(साहित्यदर्पणः षष्ठः परिच्छेदः)
पुनस्तत्रैव-
"नातिस्वल्पा नातिदीर्घा सर्गा अष्टाधिका इह"
(साहित्यदर्पणः-६/५५९)
तस्मादेव नैषधीयचरितमहाकाव्यस्य अन्तिमे श्लोके महाकविश्रीहर्षो निर्दिशति-
"सर्गोऽयमादिर्गतः"इति।
तदित्थम् उपर्युक्तविवेचनेन स्पष्टं भवति सर्गशब्दः शास्त्रान्तरेषु अनेकार्थको विद्यते।तदेव अमरकोशस्य तृतीयकाण्डान्तार्गतो नानार्थवर्गोऽपि प्रमाणयति।तत्रोक्तं-
"सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु"
(अमरकोशः-३/३/२७)
पुनश्च कलिकालसर्वज्ञेन हेमचन्द्रेणापि स्वकोशग्रन्थे तदित्थं निरूपयति-
"सर्गस्त्यागस्वभावयोः।
उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु।।"
(हैमशब्दकोशः)
एतद्विवरणेन सर्गशब्दस्यानेकार्थता स्पष्टैव। अतस्तन्मूलभूतस्य सृजधातोरपि अनेकार्थस्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति दिक्।
विसर्गः -विसर्गशब्दो "वि" इति उपसर्गपूर्वकात् "सृज विसर्गे" (तुदादिगणीयः,परस्मैपदी, सकर्मकोऽनिट् )धातोरथ च "सृज विसर्गे" (दिवादिगणीयः,आत्मनेपदी,
सकर्मकोऽनिट् ) धातोः घञा प्रत्ययेन निष्पन्नो भवति।संस्कृतवाङ्मयाकाशे विसर्गशब्दोऽपि अनेकार्थेषु दृश्यते। क्वचिद्दानत्यागार्थे, क्वचिन्मलविसर्जनार्थे,
क्वचिद्विविधसृष्ट्यर्थे विशिष्टसृष्ट्यर्थे च,क्वचित् प्रलयविनाशार्थे, क्वचित् स्वरोत्तवर्त्तिबिन्दूद्वयात्मके विसर्जनीयार्थे वर्णभेदे च विसर्गशब्दस्य प्रयोगो लभ्यते।
विसर्गशब्दो दानत्यागार्थे रघुवंशमहाकाव्ये लभ्यते।तत्रोक्तम्-
"स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणं।
आदानं हि विसर्गाय सतां वारिमुचामिव॥"
(रघुवंशमहाकाव्यम्-४/८६)
तत्र टीकासु "आदानं नाम स्वीकरण, विसर्गो नाम विमोचनम्" तथा "आदानमर्जनं विसर्गाय त्यागाय" इति उक्तम्।लोकव्यवहारेऽपि विसर्गशब्दो त्यागबोधको दृश्यते।देवपूजान्ते देवविसर्गं देवविसर्जनं वा करोतु , सभाविसर्गम् उद्घोषयामि, कार्यविसर्गं करोमि इत्यादिषु स्थलेषु विसर्गशब्दो त्यागबोधक एव।एवमेव बालो मलविसर्गं करोति इति विसर्गशब्दो मलत्यागार्थे प्रयुज्यते।"विविधः (विभिन्नः) सर्गः(सृष्टिः) नाम विसर्गः"इति व्युत्पत्त्या पुराणादिषु विसर्गशब्दो विविधसृष्ट्यर्थे वर्तते।श्रीमद्भागवतमहापुराणे पुराणलक्षणनिरूपणावसरे तदुक्तं-
"सर्गश्चाथ विसर्गश्च वृत्ती रक्षान्तराणि च।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः।।"
(श्रीमद्भागवतमहापुराणम्-१२/७/९)
पुनश्च -
"अत्र सर्गो विसर्गश्च स्थानं पोषणमुत्तयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः।।"
श्रीमद्भागवतमहापुराणम्-०२/१०/१)
तथाहि-
"भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः।।"
(श्रीमद्भागवतमहापुराणम्-२/१०/१२)
अन्यत्रापि चोक्तम् -
"भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः"
(श्रीमद्भगवद्गीता-८/३)
क्वचिद्"विगतः सर्गो विसर्गः"इति अनया व्युत्पत्त्या विसर्गशब्दो प्रलयार्थऽपि दृश्यते।"सृष्टिविसर्गो भविष्यति" इत्येतादृशे वाक्ये विसर्गशब्दो प्रलयार्थे विनाशार्थे च वर्तते।तदुक्तं-
"पुरुषानुगृहीतानाम् एतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम्।।"
(श्रीमद्भागवतम्-१२/७/१२)
व्याकरणशास्त्रे भाषाविज्ञाने च विसर्गशब्दो विसर्जनीयार्थे स्वरोत्तरवर्तिबिन्दूद्वयात्मके वर्णभेदे प्रयुज्यते।
पाणिनिशिक्षायां वर्णनिरूपणप्रसङ्गे तदित्थमुच्यते-
"त्रिषष्टिश्चतुष्षष्टिर्वा वर्णाः शम्भुमते मताः।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः॥
अनुस्वारॊ विसर्गश्च कपौ चापि परिश्रितौ।
दुस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च ।।"
(पाणिनिशिक्षा-कारिका-३,४,५)
अन्यत्रापि-
"खर्परे शरि वा विसर्गलोपो वक्तव्यः"
इत्यस्मिन् वार्तिकेऽपि विसर्गशब्देन स्वरोत्तरवर्ती बिन्दुद्वयात्मको वर्णो गृह्यते।तदुक्तं-
"विसर्गश्च द्विबिन्दुकः" इति।
पाणिनिसूत्रेषु तु विसर्गः विसर्जनीयशब्देन उच्यते।
तदुक्तम्-
"खरवसानयोर्विसर्जनीयः"
(अष्टाध्यायी-८/३/१५),
"विसर्जनीयस्य सः"
(अष्टाध्यायी-८/३/३४)
"शर्परे विसर्जनीयः"
(अष्टाध्यायी-८/३/३५) तथा
"नुम्विसर्जनीयशर्व्यवायेऽपि"
(अष्टाध्यायी-८/३/५८)
तदत्र कोशवचनमपि प्रमाणस्वरूपं प्रस्तूयते-
"विसर्गो विसर्जनीये वर्चसि त्यागदानयोः"
(हेमचन्द्रः)
अन्यदपि-
"विसर्गस्तु पुमान् दाने त्यागे च मलनिर्गमे।
विसर्जनीयेऽप्ययनभेदेऽपि च विभावसोः।।"
विसर्गशब्दानेकार्थत्वं तन्मूलभूतस्य सृजीधातोरपि अनेकार्थत्वं ध्वनयति। यतोहि वैयाकरणानां निकाये फलं व्यापारश्च धातोरेवार्थो गृह्यते।
निपातः-"नि"इत्युपसर्गपूर्वकात् "पत्लृ गतौ"(भ्वादिगणीयः,परस्मैपदी, अकर्मकः,सेट्) इति धातोः अथवा "पत गतौ"(चुरादिगणीयः, उभयपदी अकर्मकः,सेट्) इति धातोः घञा प्रत्ययेन निष्पन्नो निपातशब्दः पतनम् ,अधःपतनं, मृत्युः,शब्दशास्त्रीयसञ्ज्ञाविशेषः,
चतुर्विधशब्देषु अन्यतमः शब्दभेदः,प्रयोगश्चेति बह्वर्थबोधको भवति।
गत्यर्थबोधको निपातशब्दः पतनार्थे वर्तते।तस्मादेव वृत्तिकारेण दुर्गादासेन धात्वर्थव्याख्याने "पत्लृ गतौ"इत्यत्र "गतिरिह पतनम्" तथा "वृक्षात्पत्रं पतति" इत्युक्तम्।
अन्यत्रापि चोक्तम् -
"शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति।।"
(महाकविभासकृतः-कर्णभारः-२२)
तथाहि-
"वने वा हर्म्ये वा समकरनिपातो हिमकरः"
(आनन्दलहरी/सौन्दर्यलहरी-१७)
क्वचित् पतनं नामाधोगमनम् इत्युच्यते।तस्मादेव अधःपतनार्थेऽपि निपातशब्दो वर्तते।तदुक्तं-
"क्व बत हरिणकानां जीवितं चातिलोलम्।
क्व च निशितनिपाता वज्रसाराः शरास्ते॥"
(अभिज्ञानशाकुन्तलम् -१.१०)
अन्यत्रापि-
"स्थिताः क्षणं पक्ष्मसु ताडिताधराः।
पयोधरोत्सेधनिपातचूर्णिताः।।"
(कुमारसम्भवम् -५/२४)
नितरां पतनं निपात इति विग्रहे निष्पन्नोऽयं शब्दो मृत्युदेहावसानर्थबोधको भवति। तदुक्तं-
"सङ्गरेषु निपातेषु तथापद्व्यसनेषु च "
(महाभारतम्-५/१२२)
निपातो वैयाकरणानां निकाये शब्दशास्त्रीयसञ्ज्ञाविशेषः।यश्च आचार्यपाणिनिना स्वसूत्रेषु बोधितः।तन्मते "प्राग्रीश्वरान्निपाताः" (अष्टाध्यायी -१/४/५६) इत्यतः "अधिरीश्वरे" (अष्टाध्यायी -१/४/९७) इति पर्यन्तं निपातसञ्ज्ञाधिकारः प्रदर्शितः।अर्थात् तन्मध्ये विद्यमानैः सूत्रैर्निपातसञ्ज्ञासम्बद्धानि कार्याणि भवन्ति।तद्यथा-
"चादयोऽसत्वे" (अष्टाध्यायी -१/४/५७) इति सूत्रेण अद्रव्यवाचिनश्चादयो निपातसञ्ज्ञया व्यवह्रियन्ते।सिद्धान्तकौमुद्यां तदुक्तम्-
"अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः"
पुनश्च "प्रादयः" (अष्टाध्यायी -१/४/५८) इति सूत्रेण प्रादयः असत्त्ववाचका प्रादयो निपातसंज्ञकाः कथ्यन्ते।तदुक्तं काशिकायां-
"प्रादयोऽसत्त्वे निपातसंज्ञा भवन्ति"।
केचन निपाता उपसर्गप्रतिरूपकाः, केचन विभक्तिप्रतिरूपकास्तथा केचन स्वरप्रतिरूपकाश्च भवन्ति। तदुक्तं सिद्धान्तकौमुद्याम्-
"उपसर्गविभक्तिस्वरप्रतिरूपकाश्च"
(गणसूत्रम्)।क्वचिन्निपातलक्षणमेवमुक्तम्-
"स्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयाक्षमः।
सुबाद्यन्यो निपातोऽसौ विविधश्चादिभेदतः।।"
"उच्चावच्चेष्वर्थेषु निपतन्तीति निपाताः"इति निरूक्तवचनमादाय केचन चतुर्विधशब्देषु अन्यतमः शब्दभेदो निपात इत्यामनन्ति। तदुच्यते-"नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशीलश्चादिशब्दभेदो निपातः"। अन्यच्च-
"तद्यान्येतानि चत्वारि पदजातानि नामाख्याते उपसर्गनिपाताश्च "
(निरुक्तम्)
पुनश्च-
"अथ निपाता उच्चावच्चेष्वर्थेषु निपतन्तीति उपमार्थे वा कर्मोपसङ्ग्रहार्थे पादपूरणार्थे वा"
(निरुक्तम्)
तथाहि-
"चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः"
(निरुक्तम्)
प्रयोगार्थेऽपि निपातशब्दः समुपलभ्यते।तद्यथा-"एकविभक्ति चापूर्वनिपाते"(अष्टाध्यायी-१/२/४४) इति।अत्र निपातशब्दः प्रयोगार्थे वर्तते इति अस्य सूत्रस्य व्याख्यानेन गम्यते।एतत्सूत्रव्याख्याने सिद्धान्तकौमुद्यां तदित्थं निर्दिश्यते "विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपात" अर्थात् विग्रहे यत्पदं नियतविभक्तिकं वर्तते तस्य उपसर्जनसञ्ज्ञा भवतु परं तस्य पूर्वप्रयोगो मास्तु।
उपर्युक्तप्रमाणैर्निपातशब्दस्यानेकार्थता स्पष्टैव। अतस्तन्मूलभूतस्य पततेः धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति भावः। यतोहि धातुपाठेऽर्थनिर्देशस्तु उपलक्षणमात्रमेव इति महाभाष्यादिषु ग्रन्थेषु स्थितम्।
विग्रह:-"वि"इति उपसर्गपूर्वकात् "ग्रह उपादाने"(क्र्यादिगणीयः,सेट्, उभयपदी,सकर्मकः) इति धातोः भावकर्मादौ यथायथं घञर्थे "ग्रहवृदुनिश्चिगमश्च"
(अष्टाध्यायी-३/३/५८) इति अप्प्रत्ययेण सिद्धो भवति।विशिष्टज्ञानम्,शरीरम्,देवादिप्रतिमा, युद्धम्,विभागः,पृथक्करणं,विस्तारः,
पक्षीणां ग्रहणम्, समासादिवृत्त्यर्थबोधकवाक्यम् इत्यादीन् विविधान् अर्थान् बोधयति।तस्माद् विग्रहशब्दो बहुलार्थबोधको वर्तते।
"ग्रह उपादाने" इत्यत्र "उप"इति प्रादयः समीपार्थबोधकः तथा आदानम् इति पदं ग्रहणार्थबोधकम्।तस्मात् समीपे उपविश्य यद् ग्रहणम् तदुपादानम् उच्यते।तदुक्तम्-"उपादानं स्वीकारः"इति क्षीरतरङ्गिणी।
उपादानं नाम ग्रहणम्।"वि"इति विशेषः, ग्रहो ग्रहणं ज्ञानं वा।तस्माद् विग्रहशब्दो विशिष्टज्ञानार्थको
विशेषग्रहणार्थबोधको वा।तदुक्तं-
"अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता॥"
(वैयाकरणसिद्धान्तकारिका-१९)
शरीरेणापि कस्यापि जनस्य विषये विशिष्टं ज्ञानं भवत्येव।तस्मादेव देहगात्रशरीरार्थेऽपि विग्रहशब्दप्रयोगो दृश्यते।"विविधं सुखदुःखादिकं गृह्णाति" अथ च "विविधैः दुःखादिभिः गृह्यते" इत्यनया व्युत्पत्त्या विग्रहशब्दः शरीरार्थं बोधयति।तदुक्तं-
"त्रयी विग्रहवत्येव सममध्यात्मविद्यया"
(मालविकाग्निमित्रम्-१/१४)
तथाहि-
"निर्वाणवैरदहनाः प्रशमादरीणां ।
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः।।"
(वेणीसंहारनाटके-१/७)
अमरसिंहोऽपि ब्रूते-
"अङ्गं प्रतीकोऽवयवोऽपघनोथ कलेवरम्।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः।।"
(अमरकोशः-२/६/७१)
क्वचित् विग्रहशब्दो देवप्रतिमा बोधकोऽपि वर्तते।देवप्रतिष्ठापद्धतिषु "देवविग्रहं,स्नापयेत्,देवविग्रहं संस्पृशेत्, देवविग्रहं संस्थापयेत्" इत्यादिषु स्थलेषु विग्रहपदेन प्रतिमा(मूर्तिः) इत्यर्थोऽवगम्यते।तत्र देवविग्रहो नाम देवप्रतिमा।
तदुक्तं वाल्मीकिरामायणस्य अरण्यकाण्डे-
रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः।
राजा सर्वस्य लोकस्य देवानाम् इव वासवः॥
(वाल्मीकिरामायणम्-३/३७/१३)
विगृह्यन्ते शत्रवो यस्मिन्निति विग्रहे विग्रहशब्दो युद्धार्थबोधको भवति। तदुक्तं मनुस्मृतौ-
"यदा प्रहृष्टा मन्येत सर्वास्ताः प्रकृतीर्भृशम्।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्।।"
(मनुस्मृतिः-७/१७०)
पुनस्तत्रैव,
"सन्धिञ्च विग्रहञ्चैव यानमासनमेव च।
द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा।।"
(मनुस्मृतिः-७/१६०)
अमरसिंहोऽपि-
"राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च।
सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः।।"
(अमरकोशः-२/८/१८)
पुनश्च -
"अस्त्रियां समरानीकरणाः कलहविग्रहौ"
(अमरकोशः-२/८/१०४)
पृथक्करणार्थे विभागार्थेऽपि विग्रहशब्दो दृश्यते।तद्यथा-समासविग्रहो नाम समस्तपदस्य पृथक्करणम् उच्यते।समस्तपदस्य अर्थनिर्देशपुरस्सरम् अवयवविभागप्रदर्शनमेव समासविग्रहे क्रियते।हितोपदेशकारस्य पं.नारायणभट्टस्यापि अयमेवाभिप्रायो वर्तते।तत्र "मित्रलाभः,सुहृद्भेद,सन्धिः, विग्रहश्च इत्येवं
हितोपदेशग्रन्थस्तेन चतुर्धा
विभक्तः।
तदुक्तं-
"मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च"
(हितोपदेशः-प्रस्ताविका-९)
वैयाकरणानां निकाये समासादिवृत्त्यर्थविवरणं विग्रहपदेनोच्यते।तदुक्तं-
"वृत्त्यर्थावबोधकं वाक्यं विग्रहः"
(सिद्धान्तकौमुदी)
पुनश्च विग्रहो द्विविधो "लौकिकोऽलौकिकश्च"
प्रकारान्तरेणापि विग्रहो द्विधा विभज्यते -स्वपदविग्रहोऽस्वपदविग्रहश्च।विग्रहेण वस्तुतः अर्थविस्तारः क्रियते।अतः विग्रहस्य पर्यायत्वेन विस्तरो,विस्तारो व्यासो वा प्रयुज्यते।अतः शब्दकोशे विस्तारार्थेऽपि विग्रहशब्दो दृश्यते।
तदुक्तं हैमकोशे-
"विग्रहो युधि विस्तारे प्रविभागशरीरयोः"
(हेमचन्द्रः-हैमकोशः-३/८१३)
अमरकोशेऽपि-
"विस्तारो विग्रहो व्यासः सः च शब्दस्य विस्तरः"
(अमरकोशः-३/२/२२)
क्वचित् वीनां (पक्षिणाम्) ग्रहो(ग्रहणम्) इत्यपि विग्रहपदेन निर्दिश्यते।तदेवं विवरणैः स्पष्टं भवति यद्विग्रहशब्दो बहुलार्थकः। अतः तन्मूलभूतस्य ग्रहधातोरपि बहुलार्थकत्वं स्वतः सिध्यति।यतोहि वैयाकरणानां निकाये फलं व्यापारश्च धातोरेवार्थ इति वैयाकरणाभूषणसारादौ विस्तरेण प्रपञ्चितम्।
"वि"इत्युपसर्गपूर्वस्य "कृपू सामर्थ्ये" (भ्वादिगणीयः,आत्मनेपदी,
अकर्मकः,सेट् धातुः) घञि प्रत्यये सति विकल्पशब्दो निष्पन्नो भवति। कविकल्पद्रुमे तु "कृपु कल्पने"इति धातुर्निदिष्टो विद्यते।पुनश्च तत्र कल्पनं सामर्थ्यम् इत्यर्थनिर्देशः कृतो वर्तते।
भ्रान्तिसन्देहसंशयार्थे,विविधकल्पने,
देवतार्थे अवान्तरकल्पार्थे ज्ञानार्थे पक्षतः प्राप्त्यर्थे विभाषार्थे च
विकल्पशब्दोऽनेकार्थेषु शास्त्रेषु प्रयुक्तो वर्तते।
"विरुद्धं कल्पनम्"इति विकल्पः।तस्माद्भ्रान्तिज्ञानं विकल्पः।भ्रान्त्यर्थे देवीभागवते तदुक्तं-
"विकल्पोपहतस्त्वं वै दूरदेशमुपागतः।
न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा।।"
(देवीभागवतम्-१/१९/३२)
"विविधं कल्पनम्"इति विकल्पो नानाविधकल्पनायां प्रयुज्यते।मनुना तदुक्तं-
"प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः।
तस्य दण्डविकल्पः स्यात्तथेष्टं नृपतेस्तथा।।"
(मनुस्मृतिः-९/२२८)
विविधं कल्प्यत इति विकल्पो विविधकल्पार्थेऽवान्तरकल्पार्थे च प्राप्यते। श्रीमद्भागवतमहापुराणे तदुक्तं-
"यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते"
(श्रीमद्भागवतमहापुराणम्-१०/८५)
तस्यैव श्रीधरीटीकायां पुनस्तत्र देवतार्थे विकल्पशब्दो व्याख्यातः।श्रीधरस्वामिना तदुच्यते-
"विविधानि आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते इति विकल्पा देवास्तेषां कारणं वैकारिकसात्विकोऽहङ्कारश्च त्वम्"
क्वचित् शास्त्रे विविधा कल्पनेति विकल्पशब्दो ज्ञाने प्रकारतारूपविषयता भेदे वर्तते। सविकल्पकं ज्ञानं निर्विकल्पकं ज्ञानम्।
सविकल्पकं सप्रकारताकं ज्ञानं तथा निर्विकल्पकं निष्प्रकारताकं ज्ञानम् इति न्याये।एवमेव सविकल्पकसमाधिर्निर्विकल्पसमाधिभेदे
वेदान्ते।योगदर्शने तु चित्तवृत्तिभेदे विकल्पशब्दः प्रयुज्यते।तदुच्यते-
"प्रमाणविपर्ययविकल्पनिद्रास्मृतयः"
(पातञ्जलयोगदर्शनम्-१/६)
पुनस्तत्र विकल्पलक्षणं तदित्थं प्रतिपादितम्-
"शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः"
(पातञ्जलयोगदर्शनम्-१/९)
।व्याकरणशास्त्रे तु पक्षतः प्राप्तौ विकल्पो विभाषार्थे प्रयुज्यते।"न वेति विभाषा"(अष्टाध्यायी-१/१/४४) इति सूत्रव्याख्याने काशिकायां तदुच्यते-"नेति प्रतिषेधो वेति विकल्पः।तयोः प्रतिषेधविकल्पयोर्विभाषासञ्ज्ञा भवति"।विभाषाप्रकरणे प्रतिषेधविकल्पौ उपतिष्ठेते।सिद्धान्तकौमुदीवृत्तौ तदेवमुक्तम्-
"निषेधविकल्पयोर्विभाषासञ्ज्ञा स्यात्"।तत्त्वबोधिनीव्याख्यायां "विभाषाशब्दार्थो विकल्पसञ्ज्ञा" इति निर्दिश्यते।एतद्विवेचनाधारेण वक्तुं शक्नुमो वयं यद्विकल्पशब्दो नैकार्थेषु प्रयुज्यते।मेदिनीकोशेऽपि तदुक्तम्-
"विकल्पः पुंसि भ्रान्तौ च कल्पने"।
तस्माद्विकल्पशब्दस्यानेकार्थता सिध्यति।अतस्तन्मूलभूतस्य कृपेर्धातोरपि चानेकार्थता स्पष्टा एवेति दिक्।
"व्यपदेशः"-वि+अप इति उपसर्गद्वयपूर्वकात् "दिश अतिसर्जने"
(तुदादिस्थोऽनिट् उभयपदी सकर्मको धातुः) घञा प्रत्ययेन सिध्यति तथानेकार्थं बोधयति।
तत्र "अतिसर्जनं त्यागः" इति क्षीरतरङ्गिणीकारः।त्यागो नाम दानम्।व्यपदेशशब्दोऽनेकार्थेषु वर्तते।क्वचिदभिधानार्थे,क्वचित्
कुलकीर्तिव्याजोपदेशार्थे,क्वचिदमुख्ये मुख्यव्यवहार्थे च व्यपदेशशब्दो दृश्यते।
व्यपदिश्यतेऽनेनेति विग्रहे व्यपदेशशब्दोऽभिधानार्थे कुलार्थे च वर्तते।"व्यपदेशो नामाभिधानम्"।अभिधानार्थे व्यपदेशो यथा-
तद्यथा-
"अथ कोऽस्य व्यपदेशः?"
(अभिज्ञानशाकुन्तलम्-सप्तमाङ्के राजा)
"व्यपदेशः कुलम्"(उपसर्गार्थचन्द्रिका)।कुलार्थे
तद्यथा-
"व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम्।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च।।"
(अभिज्ञानशाकुन्तलम्-५.२१)
"व्यपदिश्य विशेष्य कीर्तनीया" (उपसर्गार्थचन्द्रिका)।
कीर्त्यर्थे व्यपदेशो यथा-
"नारी सौजन्यचर्चासु व्यपदेश्या भविष्यसि" (यो० वा० ६ .१.१०९.३१) व्यपदेश्या विशिष्य कीर्तनीया इति भावः।
"व्यपदेशो व्याजः"।कपटार्थे व्यपदेशशब्दो यथा-
"अलं ते व्यपदेशेन प्रमाणा यदि ते वयम्"
(भा० आश्व०-५७.१४)
पुनश्च-
"क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम्।।"
(साहित्यदर्पणः-३.११५)
अमुख्यार्थे मुख्यवद्व्यवहारो व्यपदेशः। तद्धि "आद्यन्तवदेकस्मिन्" (अष्टाध्यायी-१/१/२१) इति सूत्रेण ज्ञापिता व्याकरणपरिभाषा परिभाषेन्दुशेखरे च पठिता-
"व्यपदेशिवदेकस्मिन्"।अयमाशयः-कार्यं प्रति एकस्मिन्नसहायेऽपि तत् कार्यं कर्त्तव्यम्।
उपदेशार्थे व्यपदेशो यथा-
"निमित्तसद्भावाद्विशिष्टोपदेशो व्यपदेशः।तस्माद्व्यपदेशो नाम मुख्यव्यवहारः।तदुक्तं-
"चत्वारः किल भवन्त्येवं व्यपदेशभागिनस्तत्र भवन्तो रामायणकथापुरुषाः"
(उत्तररामचरितम् षष्ठेऽङ्के)
अन्यद्धि-
"व्यपदेशः कीर्तिरुपदेशो वेति"- (गोविन्दराजः)
क्वचिद्वाक्यविशेषेऽपि।
"व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्य्यते"
(उज्ज्वलनीलमणिः-रूपगोस्वामी)
एतत्सर्वं विवेच्य वक्तुं शक्यते यत् दिशधातुरनेकार्थको विद्यते।अत्र प्रमाणं शब्दकल्पद्रुमः।तत्रोक्तं-
"कविकल्पद्रुमे तु "दिश ओचे"इति धातुत्वेन दृश्यते।
ओच इति उचिर्य्य समवायने इत्यस्य अलि रूपम्।"धातूनामनेकार्थत्वादोच इह दानमाज्ञापनं वा" इति।
"दिदेश कौत्साय समस्तमेवेति"
(रघुवंशम्-५.३०)
कथनेऽप्ययम्।"धर्म्मं दिशति देशिकः" इति दुर्गादासः॥"
"-उपदेशः"-दिश अतिसर्जने'
(तुदादिस्थोऽनिट् उभयपदी सकर्मको धातुः)।तत्र अतिशयेन सर्जनम् अर्थात् त्यागः इति अतिसर्जनम्।तदुक्तम्- "अतिसर्जनं त्यागः"(क्षीरतरङ्गिणी)।त्यागो नाम दानम्।कविकल्पद्रुमे तु "दिश ओचे"इति धातुत्वेन पठितः।तत्र ओच इति उचिर्य्य समवायने इत्यस्य अचि रूपम्।धातूनामनेकार्थत्वादोच इह दानमाज्ञापनं वा।
"दिदेश कौत्साय समस्तमेवेति रघुः"
(रघुवंशमहाकाव्यम् )
कथनेऽप्ययं धातुः। तद्धि-"धर्म्मं दिशति देशिकः"इति दुर्गादासः।
एतेन ज्ञायते यद्दिशधातुरनेकार्थको दृश्यते।पुनश्च लघुशब्देन्दुशेखरादौ तु "दिशि उच्चारणक्रियायाम्" इति धातुस्वरूपं प्रपञ्चितम्।ततः घञा प्रत्ययेन सिध्यते उपदेशशब्दः।प्रयोगो यस्यानेकार्थेषु दीक्षामन्त्रकथने हितकथने प्रवर्तकवाक्येऽनुशासने आद्युच्चारणे च।
तत्रादौ दीक्षामन्त्रकथनेऽयमुपदेशशब्दो यथा-
“चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये। मन्त्रमात्रप्रकथनमुपदेशः स उच्यते॥"
तद्धि-"उपनयनसंस्कारे गुरुर्माणवकाय सप्रणवं गायत्र्युपदेशं करोति।"
उपदेशो नाम हितकथनम्।तदुक्तं पञ्चतन्त्रे-
"उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्।।"
(पञ्चतन्त्रम्-४२०)
पुनश्च -
"उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः।श्यामायते न विद्वत्सु यः काञ्चनमिवाग्निषु॥"
एतस्मादेव हितोपदेशग्रन्थोऽन्वर्थतां भजते।
प्रवर्तकवाक्येऽनुशासने चोपदेशशब्दो यथा-
"उपदिश्यतेऽनेनेत्युपदेशः शास्त्रवाक्यानि,सूत्रपाठः खिलपाठश्च।
(काशिका-१.३.२)
"आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना"
(मनुस्मृति:-१२.१०६)
अन्यत्रापि-
"परोपदेशे पाण्डित्यम्"इति।तस्मादेव आदिशङ्कररचितस्य "उपदेशसाहस्री" इति ग्रन्थस्य नामकरणं सार्थकं भवति।
"उपदेशनमुपदेशः"इति विग्रहे
उपदेशशब्दश्चाद्युच्चारणेऽपि वर्तते।तत्र मानम्-
उपदेशेऽजनुनासिक इत्"(अष्टाध्यायी-१.३.२)
तथाहि -
"अथ किमर्थो वर्णानामुपदेशः?
वृत्तिसमवायार्थ उपदेशः कर्त्तव्यः।
वृत्तिसमवायार्थो वर्णानामुपदेशः।
किमिदं वृत्तिसमवायार्थ इति?
वृत्तये समवायो वृत्तिसमवायः। वृत्त्यर्थो वा समवायो वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायो वृत्तिसमवायः।
का पुनर्वृत्तिः?
शास्त्रप्रवृत्तिः।
अथ कः समवायः?
वर्णानामानुपूर्व्येण सन्निवेशः।
अथ क उपदेशः?
उच्चारणम्।
कुत एतत्?
दिशिरुच्चारणक्रियः। उच्चार्य हि वर्णानाह- उपदिष्टा इमे वर्णा इति।"
(महाभाष्यम्-पस्पशाह्निकम्)
अन्यत्रापि-"उपदेश आद्योच्चारणम्"(सिद्धान्तकौमुदी)
अन्यद्धि-
धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्।
आगमप्रत्ययादेशा उपदेशा: प्रकीर्तिताः।।"
उपर्युक्तप्रमाणैरिदं स्पष्टं भवति यद् उपदेशशब्दस्तन्मूलभूतो दिशधातुश्चानेकार्थो वर्तते नात्र संशयः।
"मानं प्रमाणञ्च"
"माङ् माने"इति दिवादिगणस्थः सकर्मकोऽनिट् आत्मनेपदी धातुस्तथा
"माङ् माने शब्दे च"इति जुहोत्यादिगणस्थः सकर्मकोऽनिट् आत्मनेपदी धातुः।अयं धातुः स्वयम् अनेकार्थको वर्तते।यतोहि एतद्धातुद्वयेन व्युत्यन्नं मानशब्दो येषु अर्थेषु प्रयुज्यते तथैव प्रोपसर्गपूर्वः प्रमाणशब्दोऽपि तेषु अर्थेषु एव प्रयुज्यते।
तत्र मीयतेऽनेनेति व्युत्पत्त्या
मानं नाम परिच्छेदकम्।तद्धि परिमाणार्थं बोधयति।अर्थात् मानं मापनसाधनं मापकं परिच्छेदकमित्यर्थः।
तद्यथा-
“बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” (ऋग्वेद:-७.८८.५)
तत्र “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य परिच्छेदकमित्यर्थः" इति तद्भाष्ये सायनाचार्यः।
तथाहि-
"मानेन विना युक्तिर्द्रव्याणां जायते क्वचित्।
अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया॥"
भगवता पाणिनिनाऽपि सूत्रेऽस्मिन्नर्थे मानशब्दस्य प्रयोगो विहितः।तद्यथा-
"माने वयः"(अष्टाध्यायी-४.३.१६२) अत्र मानं परिमाणार्थे वर्तते।तदुक्तम्-
"मीयते येन तन्मानं प्रस्थादि" (पदमञ्जरी)।
तथाहि
"मानपश्वङ्गयोः कन्लुकौ च"
(अष्टाध्यायी-५.३.५१)
अत्रापि मानं परिमाणार्थ एवास्ति।तद्व्याख्यातम्-"मानं व्रीहिपरिमितं सुवर्णम्"(पदमञ्जरी)।
अन्यच्च-
"पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः"
(कुमारसम्भवम्-१.१)
मीयतेऽनेनेति मानं परिच्छेदकमित्यर्थः।
मानं नाम प्रमाणम्।प्रमाणं दर्शनशास्त्रे साक्ष्यरूपे ज्ञानसाधने च कीर्त्यते।
ज्ञानसाधने साक्ष्यरूपे च मानशब्दो दृश्यते।तद्यथा-
"मानाधीना मेयसिद्धिः"
तथाहि-
"माधुर्यौजःप्रसादानां रसधर्मत्वे किं मानम्"-(रसगङ्गाधरः)।
पुनश्च-
"मानं प्रमाणे प्रस्थादौ"
(नानार्थार्णवकोशः)
"प्रमीयतेऽनेनेति प्रमाणम्" इति व्युत्पत्त्या
मानच्छब्दवत्प्रमाणशब्दोऽपि परिमाणार्थे(परिच्छेदकार्थे) साक्ष्यार्थे ज्ञानसाधनार्थे च प्रयुज्यते।
तत्रादौ परिमाणार्थे परिच्छेदकार्थे च प्रमाणशब्दप्रयोगः-
"प्रमाणे च" (अष्टाध्यायी-३/४/५१)
अत्र प्रमाणं परिमाणार्थेऽस्ति। काशिकायां तदुक्तं-
"प्रमाणमायामः, दैर्घ्यम् इति (काशिका)।
"आयामस्तु प्रमाणं स्यात्" इति वचनात् 'प्रमाणम् दैर्घ्यम्' इति (न्यासकारः)
पुनश्च-
"प्रमाणे द्वयसज्दघ्नञ्मात्रचः"
(अष्टाध्यायी-५.२.३७)
अत्रापि प्रमाणशब्दः परिमाणार्थ एव।
अत्रैव वार्तिककारः
"प्रमाणे लः वक्तव्यः" इति वार्तिकं विवृणोति।
अन्यच्च-
"गोष्पदं सेवितासेवितप्रमाणेषु"-
(अष्टाध्यायी-६.१.१४५)
परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्। कुत एतत्? निपातनसामर्थ्यात्।निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते-(न्यासः)।
"प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव"(सिद्धान्तकौमुदी)।
ज्ञानसाधने च प्रमाणशब्दो यथा-
"तदशिष्यं सञ्ज्ञाप्रमाणत्वात्"- (अष्टाध्यायी-१.२.५३)
एतत्सूत्रव्याख्यायां न्यासकारः-
"प्रमाणं प्रत्यायका वाचका इत्यर्थः" (न्यासः)।
तथाहि-
"योगप्रमाणे च तदभावेऽदर्शनं स्यात् "
(अष्टाध्यायी-१.२.५५)
अत्र व्याख्यायां न्यासे प्रमाणं प्रत्यायको वाचक इत्यर्थो निरूपितः।
पुनश्च-
"प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" (अष्टाध्यायी-१.२.५६)
अत्र व्याख्यायां "प्रमाणमवगतिहेतु:"(न्यासः)।
साक्ष्यार्थेऽपि प्रमाणशब्दो बहुत्र लभ्यते।तद्यथा-
"प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम् तत्त्वज्ञानात् निःश्रेयसाधिगमः"(न्यायसूत्रम्-१.१.१)
पुनश्च-
"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि"
(न्यायसूत्रम्-१.१.३)।
तथाहि-
"प्रमाणैरर्थपरीक्षणं न्यायः”
(न्यायभाष्यम्-१.१.१)।
अन्यत्रापि
"त्रिविधं प्रमाणमिष्टं सर्वप्रमाणसिद्धत्वात्"
(साङ्ख्यकारिका)
अन्यद्धि-
वेदान्तसारे चोक्तम्-“वेदान्तो नाम उपतिषत्प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च।"
उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः। सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः करणभूता इति (विद्वन्मनोरञ्जनीटीका)
अन्यच्च-
"वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥"
तथाहि-
"अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः॥"
(मनुस्मृतिः-२.१३)।
दर्शनशास्त्रे प्रमाणं पारिभाषिकं वर्तते।तदुक्तं तर्कभाषायां केशवमिश्रः-
"प्रमाकरणं प्रमाणम्"(तर्कभाषा)
अन्यद्धि-
"कारणदोषबाधकज्ञानरहितम् अगृहीतग्राहि ज्ञानं प्रमाणम्" (शास्त्रदीपिका)
अन्यच्च-
"प्रमाणविसंवादि ज्ञानमर्थ क्रियास्थितिः।
अविसंवादनं शाब्देऽप्याभिप्रायनिवेदनात्॥"
(बौद्धाचार्यो धर्मकीर्तिः)
तदित्थं स्पष्टं भवति यत्प्रयोगानुसारेण 'माङ्'धातोरनेकार्थत्वं स्वतः सिध्यति।
"गतिः"-
"गम्लृ गतौ" इति भ्वादिगणीयस्थात् परस्मैपदिनः सकर्मकादनिटो धातोर्भावेकरणादौ क्तिनि प्रत्यये निष्पन्नो गतिरिति शब्दः
ज्ञानप्राप्तियात्रासरणीगमनेषु अवस्थोपायस्वरूपर्थेषु शब्दशास्त्रीयपारिभाषिकसञ्ज्ञाविशेषे
चानेकार्थेषु प्रयुज्यते।तत्रादौ गमनार्थे
गतिशब्दो यथा-
"गमनं गतिः" इति व्युत्पत्त्या गमिधातोर्भावे क्तिनि प्रत्यये गमनार्थं बोधयति।तदाह-
"मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः"
(रघुवंशम्-१.४)
"गम्यतेऽस्याम्" इति व्युत्पत्त्या अधिकरणे क्तिन्प्रत्यये मार्गार्थं वेदयति।तद्यथा-
“शुक्लकृष्ण गती ह्येते जगतः शाश्वते मते"
(श्रीमद्भगवद्गीता -८ .२६)
गमने देशान्तरप्रापणे चार्थेऽपि गतिशब्दोल्लेखो भगवता पाणिनिना स्वकीयेऽष्टाध्यायीग्रन्थे विहितः।तद्यथा-
"न गतिहिंसार्थेभ्यः"
(अष्टाध्यायी-१.३.१५)
पुनस्तत्रैव-
"गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ"
(अष्टाध्यायी-१.४.५२)
तथाहि-
"क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः"
(अष्टाध्यायी-३.४.७६)
उपर्युक्तेषु एतेषु सूत्रेषु गतिर्नाम देशान्तरप्रापणम् उत्तरदेशसंयोगो गमनम् (Motion इति बोधकः) चार्थो ध्वन्यते।
शब्दशास्त्रीयसञ्ज्ञार्थे गतिशब्दः पुनर्यथा-
अष्टाध्याय्याम् "गतिश्च"(१.४.६०) इत्यस्मात् सूत्रादारभ्य "जीविकोपनिषदावौपम्ये"(१.४.७९) इति यावत्सु सूत्रेषु पाठितानाम् शब्दानां गतिरिति व्याकरणशास्त्रीया पारिभाषिकी सञ्ज्ञा कथ्यते।
पुनश्च-
"कुगतिप्रादय:"(अष्टाध्यायी-२.२.१८),
"गतिरनन्तरः"(अष्टाध्यायी-६.२.४९) ,
"गतिकारकोपपदात् कृत्" (अष्टाध्यायी-६.२.१३९),
"सगतिरपि तिङ्"(अष्टाध्यायी-८.१.६८),
"गतिर्गतौ"(अष्टाध्यायी-८.१.७०) च
इति सूत्रेषु गतिः पारिभाषिकसञ्ज्ञार्थ एव व्यवहृता।
वार्तिककृतापि पारिभाषिकसञ्ज्ञाविशेषे गतिशब्दो निर्दिष्टः।तद्यथा-
"द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः"(वार्तिकम्),
"गतिकारकेतरपूर्वपदस्य यण् नेष्यते" (वार्तिकम्),
"गतिग्रहणे उपसर्गग्रहणमिष्यते"(वार्तिकम्)।
भगवान् पाणिनिर्निजसूत्रेषु गमनार्थकस्य पारिभाषिकसञ्ज्ञाविशिष्टस्य चोभयोः प्रकारयोः गतिशब्दयोः प्रयोगं चकार।
अत्र मानम्-
"उभयगतिरिह भवति" इति।
अत्र परिभाषायां गतिशब्दः प्राप्त्यर्थे ज्ञानार्थे च लभ्यते।अस्या परिभाषाया
अयमाशयो यदिह व्याकरणशास्त्रे लोकशास्त्रप्रसिद्धयोर्द्वयोरपि अर्थयोः प्राप्तिर्ज्ञानं वा भवति।अर्थात् लोकप्रसिद्धसङ्ख्यात्वेन व्यवहृतानाम् एकं द्वे त्रीणि......इति प्रभृतीनां तथा "बहुगणवतुडति सङ्ख्या"
(अष्टाध्यायी-१.१.२३) इति सूत्रेणविहितायाः
शास्त्रप्रसिद्धसङ्ख्यासञ्ज्ञायाश्च
पुनश्च गतिशब्देनापि गमनार्थकस्य पारिभाषिकसञ्ज्ञाविशिष्टस्य चोभयोः प्राप्तिर्ग्रहणं ज्ञानं बोधश्च भवति।
अत्र मानं "सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्च"इति
महाभाष्यवचनमपि वर्तते।
पुनश्च-
"गत्यर्थस्त्रिधा गमनार्थो ज्ञानार्थो मोक्षार्थश्च" इति विद्वत्समाजे प्रसिद्धम् आभणकं श्रूतपूर्वं वर्तते।
”गम्यते ज्ञायतेऽनयेति गतिः" तथा "गम्यते प्राप्यतेऽनयेति गतिः"
इति व्युत्पत्त्या करणेऽर्थे पुनः क्तिन्प्रत्यये क्रमशो ज्ञानार्थं यात्रार्थञ्च प्रकाशयति।
उपायार्थे गतिशब्दो यथा-
"हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा।।"
अन्यत्रापि-
"स्थितस्य गतिश्चिन्तनीया , न गतस्य न वा आगामिनः" (शब्दकौस्तुभः)।
अवस्थार्थको विषयार्थकश्च गतिशब्दः पुनर्यथा-
"मनोरथानामगतिर्न विद्यते"
(कुमारसम्भवम्-५.६४) अत्र व्याख्यायां मल्लिनाथः पुनराह-
"मनोरथानां कामानामगतिरविषयो न विद्यते।
तथाहि-
"दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य"
(भर्तृहरिनीतिशतकम्)
पुनस्तत्रैव-
"कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम्"
(भर्तृहरिनीतिशतकम्)
अन्यद्धि-
"दैवगतिर्हि चित्रा" इति
गमिधातोः पुनराधारार्थे क्तिन्प्रत्यये सति पथिमार्गसरण्याद्यर्थो बुध्यते।
तद्यथा-
"भिन्नगतिर्हि लोकः" (रघुवंशम्)।
अन्यत्रापि-
"आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः"इति ।
भगवता पाणिनिनापि एकस्मिन् सूत्रे आधाराष्थे क्तिन्प्रत्ययान्तः गतिशब्दोल्लेखो विहितः।तद्यथा-
"क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः"
(अष्टाध्यायी-३.४.७६)
एतद्व्याख्यायां बालमनोरमायां वासुदेवदीक्षितेन पुनरिदमुच्यते-
"गत्यर्थस्योदाहरणम्।यायते गम्यते अस्मिन्निति यातं मार्ग इत्यर्थः।
तत्रैव तत्वबोधिन्यां ज्ञानेन्द्रभिक्षुकेन पुनरित्थमाभण्यते-
"यायतेऽस्मिन्निति यानं मार्गः।"
कर्मफलार्थे गतिर्यथा-
“गतिर्भर्त्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥”
(श्रीमद्भगवद्गीता-९ .१८)
“गतिः कर्म्मफलम्” इति शाङ्करभाष्यमत्र प्रमाणम्।
उपर्युक्ततथ्यानामालोचनेनेदं ज्ञायते यद्गतिशब्दोऽनेकार्थको विद्यते।तन्मूलभूतो गमिधातुरपि बह्वर्थको नास्त्यत्र संशयः।
"आगमः"- आङुपसर्गपूर्वको "गम्लृ गतौ" इति धातोरचि प्रत्यये निष्पन्नः आगमशब्दोऽनेकार्थेषु प्रयुज्यते।
"आ समन्तात् गमयति बोधयति वेदयतीति" व्युत्पत्त्या
आगमो नाम वेदः।तदुच्यते-
"आसमन्तात् गमयति धर्माधर्मौ परम्पदम्।आगमस्तेन कथित इति वेदविदो विदुः॥"
व्याकरणस्य मुख्यप्रयोजननिरूपणावसरे शेषावतारो भगवान् पतञ्जलिस्तदाह-
"रक्षोहागमलघ्वसन्देहाः प्रयोजनम्”
(महाभाष्यम्,पस्पशाह्निकम्)
पुनस्तत्रैव-
“आगमः खल्वपि ब्राह्मणेन निष्फारणो-धर्मः षडङ्गोवेदोऽध्येयः ज्ञेयश्चेति" (व्याकरणमहाभाष्यम्)
तद्व्याख्यायामिदमुच्यते-
“आगमः प्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्यदर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति (महाभाष्यप्रदीपकारः कैयटः)।
प्रदीपटीकायां महावैयाकरणो नागेशः पुनरिदमाह-
“आगमपदेन श्रुतिरिति”
(प्रदीप-उद्द्योतः)।
क्वचिदागमशब्द
शास्त्रमात्रविषयेऽपि लभ्यते।तदुच्यते-
सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र च।
आगमं शास्त्रमाप्तानाम्...।।
अन्यत्रापि-
"आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः।।"
(रघुवंशम्-१.१५)
अद्यत्वे जनसमुदायैर्बाहुल्येन क्लीबलिङ्गश्चागमशब्दस्तन्त्रशास्त्रर्थे प्रयुज्यते।आगमं तन्त्रशास्त्रम्।तदाह-
“आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने।
मतञ्च वासुदेवस्य तस्मादागममुच्यते।।”
तल्लक्षणे पुनरिदमुच्यते-
“सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनम्।
साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च॥
षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः।
सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः॥"
अन्यत्रापि चोक्तम्-
“आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः।
न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः।। पञ्चवर्ण्णैर्भवेद्दीक्षाह्यागमोक्तैः शृणुप्रिये!।
यां कृत्वा कलिकाले च सर्वाभीष्टं लभेन्नरः।।"
(तन्त्रसारे यामलम्)
अन्यद्धि-
"कलावागमास्स्मृताः"
तथाहि-
"बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः।"
(रघुवंशम्-१०.२६)
तस्मादेव आगमशास्स्त्रीयग्रन्थस्य "पाञ्चरात्रागम" इति व्यपदेशः सार्थकतां भजते।
मन्त्रार्थे चागमशब्दो यथा-
"सर्ववेदः क्रियामूलं ऋषिभिर्बहुधोदितः।
कालोदेशः क्रिया कर्त्ताकारणं कार्य्यमागमः।।"
(मनुस्मृतिः)
क्वचिद् आगमो नाम प्रमाणविशेषः।आगमो "वेदादिशास्त्रम् आप्तश्रुतिराप्तवचनम्" इति वचनात्।तस्मादागमपदेन शब्दप्रमाणं बुध्यते।योगसूत्रस्य समाधिपादे तदाह-
"प्रत्यक्षानुमानागमाः प्रमाणानि"
(पातञ्जलयोगसूत्रम्-१.७)
अन्यत्रापि चोक्तम्-
“तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्”
(साङ्ख्यकारिका-६)
क्वचिदागमशब्दो ज्ञानार्थेऽपि लभ्यते।
"यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति"
(मालविकाग्निमित्रम्-१.१७)।अत्रागमः शास्त्रज्ञानं व्युत्पत्तिञ्च बोधयति।
अन्यद्धि-
"शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा:"
(भर्तृहरिनीतिशतकम्-१६)
क्वचिच्च पुनरागमशब्दः पन्थानमपि बोधयति।तदुक्तम्-
"आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः "
(रामायणम्,अयोध्याकाण्डम्-२१)
उद्भवस्थानविषयेऽपि आगमशब्दो विद्यते।तदाह कादम्बर्यां शूद्रकवर्णनप्रसङ्गे गद्यकविशिरोमणिर्बाणभट्टः-
"आगमः काव्यामृतरसानाम्" इति।
आगमनार्थे प्राप्त्यर्थे चागमशब्दो यथा-
"नित्यव्यया प्रचुरनित्यधनागमा च”
(नीतिशतकम्-७३)
तथाहि-
"नाधर्म्मेणागमः कश्चिन्मनुष्यान् प्रति वर्त्तते”
(मनुस्मृतिः)
पुनश्च-
"सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च॥"
(मनु-१०।११)
आगमनोद्भवार्थे चागमशब्दो यथा-
"आगमापायिनो$नित्यास्तांस्तितिक्षस्व भारत"
(श्रीमद्भगवद्गीता-२.१४)
अन्यद्धि-
"लतायां पूर्वलूनायां प्रसूनस्यागमः कुतः
अन्यच्च-
"अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।रात्र्यागमे प्रलीयन्ते" इति।
व्याकरणे शास्त्रीयप्रक्रियासम्पादकः प्रकृतिप्रत्ययानुपघातकः "अट्,आट्,इट्,नुट्,नुम्,कुक्,टुक्,पुक्,
युक्,षुक्"इत्यादिरूपो विकारविशेषश्चागमो वर्तते।व्याकरणपरिभाषासु
तदुच्यते-
“आगमादेशयोर्मध्येबलीयान् आगमो विधिः”।
“यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”।
“आगमशास्त्रमनित्यम्”
केषुचित् वार्तिकेष्वपि तदुच्यते-
“आगमा आद्युदात्ताः”(वार्तिकम्)
“आगमा अविद्यमानवद्भवन्ति (कात्यायनः वार्तिककारः)
महाभाष्यवचनेष्वपि लभ्यते-
"अनागमकानां सागमका:"।
"मित्रवदागमा भवन्ति"।
"आगमावित्याह।युक्तं पुनर्यन्नित्येषु नाम शब्देषु आगमशासनं स्यात्।"
"आगमश्च नामापूर्वः शब्दोपजनः"।
पुनश्च-
"भवेद्वर्णागमाद्धंसः" इति।
एषु प्रसङ्गेष्वपि आगमशब्दः आगमनोद्भवार्थमेव विज्ञापयति। तदुक्तमागमलक्षणे-
"अन्यत्र विद्यमानस्तु यो वर्णः श्रुयतेधिकः।
आगम्यमानतुल्यत्वात्स आगम इति स्मृतः।।
तदित्थमेभिः प्रमाणैरिदं स्पष्टं भवति यदागमशब्दोऽनेकार्थेषु प्रयुज्यते।तेन तन्मूलभूतस्य "गम्लृ गतौ"इति धातोरपि बह्वर्थकत्वं सुस्पष्टमेव
अत्रैकं महाभाष्यवचनमपि प्रामाण्यं वर्तते।तद्यथा-"सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेति।
“अपवादः”-अपपूर्वको वदधातोर्भावादिष्वर्थेषु घञा प्रत्ययेन निष्पन्नोपवादशब्दो निन्दा(जुगुप्सा,गर्हा),
वेदान्तविधिः,शब्दशास्त्रीयं बाधकशास्त्रञ्चादिषु अनेकेषु अर्थेषु प्रयुज्यते।
निन्दार्थे-
“न लोकापवादाद्भयं न लज्जा”-(भर्तृहरिशतकम्)
अन्यत्रापि-
“लोकापवादो बलवान्मतो मे”
पुनश्च-
“चिरकालान्मया श्रुतस्तवापवादः”
अन्यद्धि-
“देव्यामपि हि वैदेह्यां सापवादो यतो जनः”
तथाहि-
“अपवादस्तु निन्दने”
निन्दार्थेऽपवादशब्दो यथा-
“कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः”-
(किरातार्जुनीयम्-११.२५)
मिथ्याकथनार्थे अपवादशब्दो दृश्यते। तद्यथा-“गुणापवादेन तदन्यरोपणात्”
(किरातार्जुनीयम्-१४.१२)
आज्ञार्थेऽपवादशब्दप्रयोगो हि- “ततोऽपवादेन पताकिनीपतेः”(किरातार्जुनीयम्-१४.२७)
विश्रम्भार्थेऽर्थात् विश्वासार्थे चापवादो यथा-
“अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि”
(मेदिनीकोशः)
अपोद्यते अपवाह्यते मिथ्याभूतम् अनेनेति विग्रहे अपपूर्वात् वदधातोः करणे घञा निष्पन्नोऽपवादशब्दो वेदान्ते मिथ्याभूतपदार्थनिवारणार्थम् अपदेशभेदः।
“अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चयः”
(वेदान्तपरिभाषा)
अपवादो नाम बाधकशास्त्रम्।
“अपवादमिवोत्सर्गं व्यावर्तयितुमीश्वरः” (रघुवंशम्-१५.७)
पुनश्च-
“परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः”
(व्याकरणपरिभाषा)
कश्चिदुत्सर्गः कर्त्तव्यः कश्चन तदपवादः।तद्धि-
“मा हिंस्यात्सर्वभूतानि इति उत्सर्गः” तथा
“वायव्यं श्वेतमालभेत इत्यपवादः”
तदित्थं सिध्यति यदपवादशब्दस्यानेकार्थेषु प्रयोगो लभ्यते। तस्मात् तन्मूलभूतस्य वदधातोरपि अनेकार्थत्वं स्वयं सिध्यति।
"सूत्रम्"-"सूत्र वेष्टने" इति चुरादिगणीय: सकर्मकः सेट् उभयपदी धातुरस्ति।केचनात्र
सूत्र विमोचन इति पठन्तो विमोचनं मोचनाभावो ग्रन्थनमित्यर्थं निर्दिशन्तीति।तदाह क्षीरतरङ्गिणीकारः-
"सूत्र विमोचने-
विमोचनं मोचनाभावः,ग्रन्थनम्"इति।
सूत्र्यतेऽनेनेति विग्रहे
एतस्माद्धातोः कप्रत्यये सति सूत्रशब्दो निष्पद्यते।यो हि कारणनिमित्तभूतं तन्तुं यज्ञोपवीतं शास्त्रादिसूचकग्रन्थं नाट्यानुष्ठानं साहित्यिकार्थबोधविधिविशेषं शास्त्रवाक्यभेदविशेषञ्चानेकार्थेषु प्रयुज्यते।
कारणनिमित्तभूते सूत्रशब्दो यथा-
"त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम्"
(श्रीमद्भागवतमहापुराणम्-४.६.४३)।
तन्तुरपि वस्त्रस्यनिर्माणस्य कारणभूतं निमित्तसाधनमेव वर्तते।तदर्थं सूत्रशब्दप्रयोगो यथा-
"मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे मतिः"
(रघुवंशम्-१.४)
अन्यद्धि-
"मन्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्"
(कुमारसम्भवम्-१.४०)
तथाहि-
"सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्"
(शिशुपालवधम्-१.६)
अन्यत्रापि-
"पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते"इति।
अत्र मानं कोशवचनमपि-
"पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः"(अमरकोशः-२.१०.२८)
यज्ञोपवीतार्थे सूत्रशब्दो महानिर्वाणतन्त्रे पुनर्यथा-
"ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम्" (महानिर्वाणः-१.४८)
पुनश्च-
"शिखासूत्रवान् ब्राह्मणः" इति।
एतस्मादेव यज्ञोपवीतस्य कृते यज्ञसूत्रमपि प्रयुज्यते।
शास्त्रव्यवस्थासूचकग्रन्थेऽपि सूत्रशब्दो लभ्यते।तद्यथा-कल्प्यते यज्ञप्रयोगो यत्र तत् कल्पसूत्रम्।तदाह-
"कल्पस्य वैदिककर्मानुष्ठानस्य प्रतिपादकं सूत्रम् कल्पसूत्रम्"इति।
कल्पसूत्रम् आचार्यभद्रबाहुविरचितं वर्तते।पुनश्च-श्रौतगृह्यधर्मशूल्वभेदैः कल्पसूत्रं चतुर्धा विभज्यते।
नाट्यप्रयोगानुष्ठानमपि सूत्रशब्देन कीर्त्यते।तदाह-
"नाट्यस्य यदनुष्ठानं तत्सूत्रं स्यात्सबीजकम्।
रङ्गदैवतपूजाकृत्सूत्रधार इति स्मृतः॥"
आधुनिके शिक्षाशास्त्रे साहित्यिकार्थबोधनशैली संक्षेपेण कथनविधिश्च सूत्रपदेनोच्यते।
"अल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वम्" इति तल्लक्षणं प्रस्तूयते।
यथा-
चाणक्यार्थशास्त्रनीतिशास्त्रप्रभृतयो ग्रन्थाः सूत्रशैल्या सूत्रविधिना वा निर्माताः सन्ति।
पाणिन्यादिमहर्षिभी रचितो ग्रन्थविशेषः
शास्त्रवाक्यभेदश्चापि सूत्रशब्देन कीर्त्यते।तदाह-
"सूत्राच्च कोपधात्"
(अष्टाध्यायी-४.२.६५)
इति सूत्रस्य व्याख्यायां काशिकायां
"पाणिनीयमष्टकं सूत्रम्" इत्युच्यते।
पुनश्च
"अष्टकं सूत्रम्" इति(न्यासः)
तदिदं सूत्रपदेन कापिलं साङ्ख्यसूत्रं, पातञ्जलं योगसूत्रं,गौतमीयं न्यायसूत्रं,काणादं वैशेषिकसूत्रं,जैमिनीयं मीमांसासूत्रम्,बादरायणीयं वेदान्तसूत्रञ्चेति प्रभृतीनां शास्त्रीयसूत्रात्मकग्रन्थानां बोधो भवति।
सूत्रलक्षणे तदित्थमुच्यते-
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।।”
एतद्वचनस्यायमाशयो यत्-
अल्पाक्षरान्वितं सन्देहरहितं सारभूतं स्तोभरहितम् अनवद्यञ्च शास्त्रवाक्यं सूत्रं व्यपदिश्यते।शास्त्रवाक्यात्मकानां सूत्राणां षाड्विध्यं पुनर्निदिश्यते। तदुच्यते-
"सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
प्रतिषेधोधिकारश्च षड्विधम् सूत्रलक्षणम्।।"
उपर्युक्ततथ्यानामाधारेणेदं सिध्यति यत्सूत्रशब्दो
वस्त्रसाधने तन्तौ शास्त्रीयव्यवस्थायां बोधविधौ नाटकोपकरणे प्रस्तावे शास्त्रवाक्यभेदे चानेकार्थेषु सूत्रशब्दप्रयोगो लभ्यते।तस्मात्तन्मूलभूतस्य सूत्रिधातोरपि अनेकार्थत्वं सुसङ्गतमेवेति मन्मतिः।
"अधिकारः,अधिकरणम्"-अधिपूर्वको "डुकृञ् करणे"इति तनादिगणस्थः सकर्मकः सेट् उभयपदी धातुरनेकार्थको विद्यते।
अधिपूर्वकः कृधातुः कर्त्तव्यं स्वाम्यं प्रस्तावं विषयं व्याकरणशास्त्रीयसूत्र-विधि-विशिष्टं
व्यापृतिं विनियोगं प्रकरणं
शास्त्रीयसञ्ज्ञाविशेषञ्चानेकार्थान् वेदयति।
अधिपूर्वकः कृधातुः कर्त्तव्यार्थे मेघदूतस्य प्रथमे पद्ये लभ्यते।तद्यथा-
"कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः"
(मेघदूतम्-१.१)
पुनश्च-
"यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः"
(शाकुन्तलम् प्रथमाङ्कः)
तथाहि-
"अविश्रमोऽयं लोकतन्त्राधिकारः"
अधिपूर्वकः कृधातुः स्वाम्यार्थेऽपि विद्यते।तदाह-
"अधिकारः फले स्वाम्यमधिकारी प्रभुर्भवेत्"(मीमांसादर्शनम्)।
अन्यत्रापि चोक्तम्-
"अधिकारः फले स्वाम्यमधिकारी च तत्प्रभुः"
(साहित्यदर्पणः-६.४३)
तथाहि-
"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन"
(श्रीमद्भगवद्गीता-२.४७)
विनियोगार्थेऽप्यधिकारशब्दो लभ्यते। तदुच्यते-
"स्वरितेनाधिकारः"
(अष्टाध्यायी-१.३.११) इति सूत्रव्याख्यायां काशिकायां-
"अधिकारो विनियोगः।स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते" इति निर्दिश्यते।
पुनस्तत्रैव न्यासे-
"अधिकारो विनियोगः इति। व्यापारकरणम्। अधिकृतत्वादुत्तरत्रोपतिष्ठत इति।यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते,तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते।"
पदमञ्जर्यां तु -
"अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुतरत्रोपतिष्ठत इति।"
बालमनोरमायां पुनरिदं व्याख्यायते-
"अधिकारो व्यापृतिः।यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते।शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः। स्वरितेन स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति।"
अतः एतद्वक्तुं शक्यते यद् अधिकारो नाम विनियोगो नियोगो वा।
तथाहि-
"अधि अधिकः कारोऽधिकारः। अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः।"
(तत्त्वबोधिनी)
प्रकरणार्थेऽधिकारशब्दो यथा-
प्रकरणम्(नैमित्तिकोऽयं प्रायश्चित्ताधिकार इति मिताक्षरा)
सर्वम् अधिकरोतीति विग्रहेऽधिकारशब्दः
स्वामित्वेऽपि वर्तते।तदुच्यते
"सर्वे स्युरधिकारिणः” इति स्मृतिः।अधिकारो नामाधिकृतदेशादिः।यथा-शास्त्राधिकारो निजाधिकारो भिन्नाधिकारः इत्यादि बहवः शिष्टप्रयोगाः।तदाह मनुः-
“तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्”
(मनुस्मृतिः)
प्रस्तावार्थेऽपि चाधिकारशब्दो दृश्यते।
"अधिकारश्चाधिक्येन प्राधान्येनारम्भणम्"(साङ्ख्यसूत्रम्-१.३) इति सूत्रभाष्ये विज्ञानभिक्षुणा निगद्यते "अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते"(भाष्यम्)।तत्राधिकारो नाम प्रस्तावो विषयश्च।तदाह-
"अधिकृत्य कृते ग्रन्थे"
(अष्टाध्यायी-४.३.८७) इति सूत्रे 'अधिकृत्य' नाम विषयीकृत्य इति भावः।
अन्यद्धि-
"तदिदमेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम्" इति अभिज्ञानशाकुन्तलस्य प्रथमाङ्के सूत्रधारोक्तौ "अधिकृत्य"इति पदस्य अर्थः"विषयीकृत्य" इति भावः।
पुनस्तत्रैव-
'अभिज्ञानशाकुन्तलं नाम नाटकं प्रयोगेणाधिक्रियताम्" इति शाकुन्तलनाटकस्य प्रथमाङ्के नट्योक्तौ "अधिक्रियताम्" इत्यस्य प्रयोगविषयतां नीयतामित्यर्थः।
व्याकरणशास्त्रेऽधिकारो नाम सूत्रविशेषो विधिविशेषो वा।
स्वदेशे वाक्यार्थशून्यत्वे सति परदेशे वाक्यार्थबोधकत्वम् अधिकारसूत्रलक्षणमुच्यते।।तदाह-
"एकत्रोपात्तस्यान्यत्र व्यापारोऽधिकारः"-(शब्दकौस्तुभः)
सूत्राणां भेदवर्णने तदुक्तं-
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्।।
अन्यद्धि-
"सिंहावलोकितं चैव मण्डूकप्लुतमेव च।
गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मतः॥
अधिपूर्वकात् कृधातोर्निष्पन्नोऽधिकरणशब्दः शब्दशास्त्रीयं कारकभेदविशेषम् आधारसञ्ज्ञाविशेषं वा
तथा मीमांसाशास्त्रीयं ग्रन्थावयवविशेषञ्च वेदयति।तदाह-
"कर्ता कर्म च करणञ्च सम्प्रदानं तथैव च।
अपादानाधिकरणमित्याहुः कारकाणि षट्।।"
अधिक्रियतेऽस्मिन्निति व्युत्पत्त्या अधिकरणशब्द आधारार्थं बोधयति।तदुक्तम्-
"आधारोऽधिकरणम्"
(अष्टाध्यायी-१.४.४५)
यस्यायमाशय:-
"कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यादिति" (सिद्धान्तकौमुदी)
पुनश्च-
"तत्पुरुषसमानाधिकरणः कर्मधारयः"
(अष्टाध्यायी-१.२.४२) इत्यस्मिन् सूत्रे काशिकायाम्
"अधिकरणशब्दोऽभिधेयवाची"
इत्युच्यते।
तथाहि-
“कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिरणं स्मृतम्।।
(वाक्यपदीयम्)
द्रव्यार्थेऽपि अधिकरणशब्दो लभ्यते।
तदुच्यते-"अधिकरणविचाले च"
(अष्टाध्यायी-५.३.४३)
एतत्सूत्रस्य काशिकायापदमञ्जरीन्यास-
बालमनोरमा-
तत्वबोधिन्यादिव्याख्यासु ,"अधिकरणं द्रव्यम्"इति व्याख्यातं वर्तते।
"विषयो विशयश्चैव पूर्ब्बपक्षस्तथोत्तरम्।
निर्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्।।"
तदित्थं सिध्यति यत्कृधातुरनेकार्थेषु प्रयुज्यत इति मन्मतिः।
"जातिः"-जातशब्दो "जनी प्रादुर्भावे"इति दिवादिगणस्थाद् आत्मनेपदिनोऽकर्मकात् सेटो धातोर्भावकरणादौ यथायथं क्तिनि प्रत्यये सति निष्पद्यते।धातुपाठेऽयं धातुः प्रादुर्भावार्थे पठितो दृश्यते।तत्र प्रादुर्भावो नामोत्पत्तिर्थात् जन्मेत्याशयः।तदुक्तं क्षीरतरङ्गिण्याम्-
"प्रादुर्भाव उत्पत्तिः"इति क्षीरस्वामी।परं लोके विविधशास्त्रेषु चानेकार्थेषु जातिशब्दो लभ्यते।क्वचित्प्रादुर्भावार्थे,
क्वचिद्ब्राह्मणादिवर्णभेदे, क्वचिद्गोत्रार्थे, क्वचिदवयवव्यङ्ग्यार्थे स्वरूपार्थे,क्वचित् सकृदुपदेयव्यङ्ग्ये, क्वचिद् व्याकरणपारिभाषिके पुत्रपौत्रप्रभृतकेऽपत्ये ,क्वचिच्छब्दे स्फोटे च,क्वचित् पदार्थभेदे सामान्ये च,क्वचित् पुष्पभेदे,क्वचिच्छन्दोभेदे चानेकेषु अर्थेषु जातिशब्दो लभ्यते।
जन्मार्थे जातिशब्दो यथा-
तपः श्रुतञ्च योनिश्चेति ब्राह्मणकारणम्।
तपः श्रुताभ्यां यो हीनः जातिब्राह्मण एव सः।।
(शब्दार्थचिन्तामणिः)
अस्मिन् पद्ये "जातिब्राह्मणः"इति पदे "जात्या ब्राह्मणः"इति व्युत्पत्त्या तृतीयातत्पुरुषसमासो ज्ञेयः।यस्यार्थो जन्मना ब्राह्मण इति।
तदुक्तम्-
"जातिर्जातं च सामान्यम्"
(अमरकोशः-१.४.३१)
अत्रापि जातिशब्दो जातार्थे निर्दिष्टः।यस्य जन्म एवाशयो विद्यते।
पुनस्तत्रैव-
"जातिः सामान्यजन्मनोः"
(अमरकोशः-३.३.७५)
जातिर्बाह्मणादिवर्णविशिष्टार्थेऽपि दृश्यते।ब्रह्मणादिवर्गचतुष्टये वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णा च।तत्र शुद्धा जातयः ब्राह्मणादयः।सङ्कीर्णजातयश्च मूर्द्धावसिक्तादयोऽनेकप्रकारकाः।तदाह मनुः-
"ब्राह्मणः क्षत्त्रियोवैश्यस्त्रयो वर्णा द्विजातयः।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः।।"
(मनुस्मृतिः-१०.४)
अन्यत्रापि चोक्तम्-
“बभूवुर्ब्रह्मणो वक्त्रादन्याब्राह्मणजातयः।
ब्रह्मणो बाहुदेशाच्च जाताः क्षत्रियजातयः।।
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।तासां सङ्करजातेन बभूबुर्वर्णसङ्कराः।।
भगवता पाणिनिनाऽपि स्वकीये सूत्रग्रन्थे वर्णचतुष्टयबोधार्थे जातिशब्दप्रयोगो निर्दिष्टः।तच्च-
"जातेश्च"
(अष्टाध्यायी-६.३.४१)
पुनश्च
"जातेयस्त्रीविषयादयोपधात्"
(अष्टाध्यायी-४.१.६३) इति सूत्रव्याख्यासु महाभाष्ये काशिकान्यासादिषु जातिलक्षणे तदिदं निर्दिश्यते-
"आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्।
सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह॥"
अत्र जातेस्त्रिविधं लक्षणं निर्दिष्टम्।तत्रादौ प्रथमं लक्षणम्-
"आकृतिग्रहणा जातिरिति।" तत्र आकृतिर्नाम-
"आक्रियते व्यज्यतेऽनयेत्याकृतिः संस्थानमुच्यते तथा गृह्यतेऽनेनेति ग्रहणं व्यञ्जकमुच्यते।आकृतिर्ग्रहणं यस्याः सा जातिरर्थात् अवयवसंस्थानव्यङ्ग्यः पदार्थविशेषः।
अस्यायं भावो यद् आकृतिग्रहणेन अवयवसंस्थानव्यङ्ग्येन अर्थात् स्वरूपव्यञ्जकेन या स्मर्यते सा जातिरिति।तदुदाहरणानि-
कुक्कुटी,शूकरी,मयूरी इति प्रभृतीनि।
द्वितीयं जातिलक्षणम्-
"लिङ्गानाञ्च न सर्वभाक् सकृदाख्यातनिर्ग्राह्या जातिरिति।"
सर्वाणि लिङ्गानि न भजत इति सर्वभाक् तथा सकृद् एकवारम्, आख्याता उपदिष्टा, निर्ग्राह्या निश्चयेन ग्राह्या इति सकृदाख्यातनिर्ग्राह्या।
अर्थात् "असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति जातिलक्षणान्तरम्।तदुदाहरणानि- ब्राह्मणी,वृषली इति प्रभृतीनि।
अयमभिप्रायो यद् एकस्यां व्यक्तौ ब्राह्मण वृषल इत्युपदेशाद्व्यक्त्यन्तरे तदुपदेशं विनापि सुगमेति जातिः।
जातेस्तृतीयं लक्षणं-"गोत्रञ्च चरणैः सहेति।"
जातेरिदं लक्षणं पारिभाषिकम् वर्तते।यद्धि व्याकरणशास्त्रोपयक्तमेव नान्यत्र।अत्र गोत्रं नाम लौकिकम् अपत्यम् उत शास्त्रीयम्
"अपत्यं पौत्रप्रभृति गोत्रम्"
(अष्टाध्यायी-४.१.१६२)
इति सूत्रेण पौत्रभृतिकम् अपत्यं गोत्रं पारिभाषिकम्।अत्र तु "उभयगतिरिह भवति" इति परिभाषाबलेन उभयोरेव ग्रहणं भवति।तदुच्यते-
"इह तु लौकिकमपि गोत्रमपत्यमात्रं गृह्यते।"
चरणमध्ययनभेदेनानेकधा।चरणशब्दस्तु शाखाध्येतरि प्रसिद्धः।
तदित्थं गोत्रञ्च चरणैः सह जातिर्भवति।गोत्रलक्षणाया जातेरुदाहरणानि-औपगवी,नाडायनी,चारायणी इति प्रभृतीनि तथा चरणलक्षणाया जातेरुदाहरणानि-कठी ,कलापी,
बह्वृचीति प्रभृतीनि।
निष्कृष्टेन जातेर्लक्षणं पुनरिदमुच्यते-
“प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद् गुणैः।
असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः।।”
(महाभाष्यम् )
सेयं जातिर्नित्या अनेकसमवेतत्वरूपा ब्रह्मस्वरूपात्मिका च।
व्याकरणदर्शने तु जातिः शब्दत्वेन स्फोटत्वेन च कीर्त्यते।तदुच्यते-
“अनेकव्यक्त्यमिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः।।”
(वाक्यपदीयम्)
पुनश्च-
"अनेकव्यक्त्याधारा हि जातिः"
(न्यासकारः)
सा च जातिः सार्वकालिकी सत्ता नित्या अनेकव्यक्त्याश्रयीभूता ब्रह्मस्वरूपा च विद्यते।
तस्मादेव हरिकारिकायां जातिमहत्वं गीयते-
"सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः।।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः।"
(वाक्यपदीयम्)
अन्यत्रापि चोक्तम्-
"सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च”
(काव्यप्रकाशः-शक्तिनिरूपणम्)
न्याये तु षोडशपदार्थान्तर्गता पदार्थविशेषो जातिः।तल्लक्षणं यथा-
"साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः।"
(गौतमीयं न्यायसूत्रम्)
पुनस्तत्रैव-
समानः समानाकारकः प्रसवो बुद्धिजननमात्मा स्वरूपं यस्याः सा जातिः।
तदुच्यते-"समानप्रसवात्मिका जातिः"इति (गौतमः)
जातिर्नाम सामान्यम्।तच्च न्याये द्विविधं परापरभेदात्।तदाह-
"द्रव्यत्वादिकजातिस्तु परापरतयोच्यते"
(भाषापरिच्छेदः-८.९ )
जातिलक्षणं पुनरित्थं निर्दिश्यते-
“नित्यत्वे सत्यनेकसमवेतत्वं सामान्यं जातिर्वा” इति (सिद्धान्तमुक्तावली)
तस्मादेव सामान्यार्थऽपि जातिः प्रयुज्यते।तदाह-
"जातिर्जातञ्च सामान्यम्"
(अमरकोशः-१.४.३१)
पुनश्च-
"जातिः सामान्यजन्मनोः"
(अमरकोशः-३.३.७५)
छन्दश्शास्त्रे तु जातिर्नाम मात्राश्रयं छन्दः।छन्दो द्विविधं वर्णगणनाश्रयं मात्रागणनाश्रयञ्च।तत्र वर्णगणनाश्रयं छन्दो वृत्तं तथा मात्रागणनाश्रयं छन्दो जातिरुच्यते।तदुक्तम्-
"पद्यं चतुष्पदी ज्ञेयं वृत्तं जातिरिति द्विधा।
वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत्।।
(छन्दोमञ्जरी)
मालतीपुष्पार्थेऽपि जातिशब्दो लभ्यते।
जातिपुष्पं नाम चम्पा मालती वा।मेदिनीकारस्तदाह-
“जातिर्ज्जाती च सुमना मालती राजपुत्त्रिका।
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका॥”
अन्यत्रापि -
"पुष्पेषु जाती पुरुषेषु विष्णुर्
नारीषु रंभा नगरीषु काञ्ची।
नदीषु गङ्गा नृवरेषु रामः
काव्येषु माघः कविकालिदासः॥"
(नीतिसारः-२१)
अत्र मानम् अमरकोशवचनमपि-
"अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता।
सुमना मालती जातिः सप्तला नवमालिका।।
(अमरकोशः-२.४.७२)
जातिशब्दः एकप्रकारार्थे स्वरूपार्थे चोपलभ्यते।तदुक्तम्-
"जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्"
(अष्टाध्यायी-१.२.५८) इति सूत्रव्याख्यायां काशिकायां न्यासे चेदमुच्यते यत् "जातिर्नामायमेकोऽर्थः,तदभिधाने एकवचनमेव प्राप्तम्,अत इदमुच्यते।"
स्वरूपार्थे यथा-
"संस्कृतप्राकृतयोः समा जातिः" अर्थात् संस्कृतभाषायाः प्राकृतभाषायाश्च समानं स्वरूपं भवतीति भावः।
तदित्थम् उपर्युक्तप्रमाणैरिदं स्पष्टं भवति यज्जातिशब्दोऽनेकार्थकः। तस्मादेव तन्मूलभूतस्य जनीधातोरपि अनेकार्थत्वमनुमीयते।
"व्यक्तिः"-"वि" इत्युपसर्गपूर्वकाद्
"अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु"इति रुधादिगणीयः परस्मैपदी सकर्मको वेट् धातुः) क्तिनि प्रत्यये सति निष्पन्नो व्यक्तिशब्दो नानार्थेषु प्रयुज्यते।क्वचित् स्फोटेऽभिव्यक्तौ प्राकट्ये च, क्वचित् पुनर्लिङ्गार्थे,क्वचित् पदार्थे तथा क्वचिद्व्यञ्जनार्थे तथा क्वचित्पुनः जनार्थे च प्रयुज्यते।
व्यक्तिर्नाम प्राकट्यं प्रकटता अर्थात् स्फुटता स्फुटत्वं वार्थः।तदाह-
"अन्जू व्यक्तिम्रक्षणकान्तिगतिषु"इति धातुपाठस्य व्याख्यायां क्षीरस्वामिणा-
"व्यक्तिः प्रकटता" तथा
"म्रक्षणं घृतादिसेकः"इति क्षीरतरङ्गिणी।
अन्यत्रापि-
"सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः'
(शाकुन्तलम्-७.८)
तथाहि-
"न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः"
(श्रीमद्भगवद्गीता-१०.१४)
अत्र व्यक्तिर्नाम प्राकट्यं स्वरूपम् अभिव्यक्तिरवतारो वार्थो गृह्यते।
पुनस्तत्रैव-
"अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥"
(श्रीमद्भगवद्गीता-८.१८)
लिङ्गार्थेऽपि व्यक्तिशब्दो दृश्यते। तद्यथा-"लुपि युक्तवद्व्यक्तिवचने"
(अष्टाध्यायी-१.२.५१)
एतत्सूत्रव्याख्यायां काशिकायां तदित्थं निर्दिश्यते-
"व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशः,तदीयमेवेदं सूत्रम्(काशिका)।
"व्यक्तिः स्त्रीपुंनपुंसकानि,
वचनमेकत्वद्वित्वबहुत्वानि"(काशिका)।
तस्माद् व्यक्तिर्लिङ्गम् अर्थात् स्त्रीत्वपुंस्त्वादिः।
तदुक्तं हरिणा-
"'संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥"
(वाक्यपदीयम्-२.३१७-३१८)
व्यक्तिर्विवेचनं भेदज्ञानं पृथगात्मता च।तद्यथा-
"दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति"
(वाल्मीकिरामायणम्-२.२३.१८)।
अत्र व्यक्तिर्भेदः, प्रबलदुर्बलविवेक इत्यर्थः।
अन्यत्रापि-
"तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः"
(रघुवंशम्-१.१०)
अमरकोशवचनमप्यत्र प्रमाणम्-
"जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता"
(अमरकोशः-१.४.३२)
तथाहि-
"सामान्ये वर्तमानस्य व्यक्तिरुपजायत" (महाभाष्यम्)।
दर्शनशास्त्रे तु व्यक्तिशब्देन पदार्थोऽवबुध्यते।तदाह-
"व्यक्तिः पदार्थः"-(न्यासः)।
"अत्र मीमांसकाः -शब्दानां जातौ शक्तिर्लाघवात्।व्यक्तीनामानन्त्येन तत्र शक्तौ गौरवात्"इति भूषणकारः।
दार्शनिकसमाजे मीमांसका जातिरेकमात्रं पदार्थं स्वीकृत्य जातिशक्तिवादमतमुद्भावयन्ति।नैयायिकास्तत्र व्यक्तिरेव एकमात्रं पदार्थमङ्गीकृत्य व्यक्तिवादपक्षं समर्थयन्ति।वैयाकरणास्तु जातिव्यक्तिवादपक्षद्वयम् अङ्गीकुर्वन्ति।तस्मादेव वैयाकरणनिकाये
स्फोटस्याष्टविधत्वं सिध्यति।तदाह परमलघुमञ्जूषायां नागेशः-
"तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा । तत्रापि जातिव्यक्तिभेदेन पुनः षोढा । अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः।"
पुनश्च -
"जातिव्यक्तिपक्षयोरुभयोरपि सूत्रं प्रत्याचख्युः"(लघुशब्देन्दुशेखरः)
तथाहि-
"वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते"(पदमञ्जरी)
अन्यद्धि-
"प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा"(अष्टाध्यायी-२.३.४६) इति सूत्रव्याख्यायां बालमनोरमाकारः-
"ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः॑,प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः॑, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं..."
(बालमनोरमा)
व्यक्तिर्नाम व्यञ्जना।तदाह-
"वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः।
प्रतिभादेशकालानां वाक्यवाच्यन्यसन्निधेः।।
योऽर्थस्यान्यधीहेतुर्व्यापारो व्यक्तिरेव सा।।"
(काव्यप्रकाशः)
अत्र व्यक्तिशब्दो व्यज्यतेऽनयेति करणव्युत्पत्त्या व्यञ्जनाशक्तिं बोधयति।
"व्यक्तिर्नाम व्यञ्जना।"
तस्मादेव महिमभट्टविरचितः काव्यशास्त्रीयग्रन्थो "व्यक्तिविवेकः" अन्वर्थतां गच्छति नान्यथा।
व्यक्तिशब्दो जनपर्यायोऽपि वर्तते।यथा-अयम् इयं वा व्यक्तिः नूनं शास्त्रं पठिष्यति,
अमुकम् अमुकीं वा व्यक्तिं सूचयतु,
अमुकस्माद् अमुकस्या वा व्यक्तेः धनं स्वीकरोतु इत्येतादृक्षु स्थलेषु व्यक्तिशब्देन जनो बुध्यते।
तदित्थं सिध्यति यद् व्यक्तिशब्दः तन्मूलभूतोऽञ्जुधातुश्चनेकार्थको विद्यते।
"तन्त्रम्"-'तनोति तन्यते' वेति विग्रहे "तनु विस्तारे"(तनादिगण उभयपदी सकर्मकः सेट्) इति धातोः कर्त्राद्यर्थेषु यथायथं ष्ट्रन् प्रत्यये सति तन्त्रमिति सिध्यति।अयं धातुरनेकार्थेषु वर्तते।यतोऽस्माद्धातोः निष्पन्नं तन्त्रपदम् अनेकेषु अर्थेषु प्रयुज्यते।
सिद्धान्तार्थे तन्त्रं यथा-
“सर्व्वानुपायानथ सम्प्रधाय समुद्धरेत् स्वस्य कुलस्य तन्त्रम्"
(महाभारतम्-१३.४८.६)
तथाहि
पञ्चशिखाचार्येण साङ्ख्यदर्शनसम्बन्धः "षष्टितन्त्रम्" इत्याख्यो दार्शनिकग्रन्थविशेषः।
अत्र तन्त्रपदेन सिद्धान्तविशेषोऽवबुध्यते।
श्रुतिशाखाविशेषार्थे तन्त्रं यथा-
तन्त्रं शिवोक्तशास्त्रं चतुःषष्टिसङ्ख्यकम्।तदाह-
"चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति"
(महाविश्वसारतन्त्रम्)
तल्लक्षणं प्रतिपादितम्-
“सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च।
देवतानाञ्च संस्थानं तीर्थानाञ्चैव वर्णनम्॥
तथैवाश्रमधर्म्मश्च विप्रसंस्थानमेव च।
संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव निर्णयः॥ उत्पत्तिर्व्विबुधानाञ्च तरूणां कल्पसञ्ज्ञितम्।
संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च॥
कोषस्य कथनञ्चैव व्रतानां परिभाषणम्।
शौचाशौचस्य चाख्यानं नरकाणाञ्च वर्णनम्॥ हरचक्रस्य चाख्यानं स्त्रीपुंसोश्चैव लक्षणम्।
राजधर्म्मो दानधर्म्मो युगधर्म्मस्तथैव च॥
व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम्॥ इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते।
तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम्॥"
विस्तारार्थे तन्त्रं यथा-
"आसुरिरपि पञ्चशिखाय तेन बहुधा कृतं तन्त्रम्”
(साङ्ख्यकारिका)।
परिच्छदार्थे
(अवयवार्थे
विभाजनार्थकाध्यायादिविशेषे च) तन्त्रं यथा-पण्डितविषऌणुशर्मविचरितं पञ्चतन्त्रम्।तदुच्यते-
"तन्त्रैः पञ्चभि रेतच्चकार मनोरमं शास्त्रम्”
(पञ्चतन्त्रम्) मित्रभेद-मित्रसम्प्राप्ति-काकोलूकीय-लब्धाप्रणाश-परीक्षितकारकाख्यानि पञ्च तन्त्राणि(परिच्छदा अध्यायाश्च)।
तन्त्रवायशब्दे तन्त्रं नाम सूत्रं वस्त्रनिर्माणयन्त्रविशेषश्च।
तन्त्रेण वयतीति तद्विग्रहः।अत्र मानं पाणिनिसूत्रम्-
"तन्त्रादचिरापहृते" (५.२.७०) इति सूत्रव्याख्यायां प्रतिपाद्यते-
"तन्त्रं तन्तुवायशलाका" इति
(बालमनोरमा, तत्त्वबोधिनी,पदमञ्जरी)।
प्रधानार्थे तन्त्रं यथा-
स्वतन्त्रम्।
स्वस्य तन्त्रं प्राधान्यं यत्र तत् स्वतन्त्रम्।
अत्रापि प्रमाणम् आचार्यः पाणिनिः स्वयमेव-
"स्वतन्त्रः कर्ता" (१.४.५४) इति सूत्रे
महामुनिः पतञ्जलिराह-
"अयं तन्त्रशब्दोऽस्त्येव विताने वर्तते। तद्यथा-आस्तीर्णं तन्त्रम्,प्रोतं तन्त्रमिति।वितानमिति गम्यते।अस्ति प्राधान्ये वर्तते।तद्यथा-स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते।स्वप्रधान इति गम्यते ।तद्यः प्राधान्ये वर्तते तन्त्रशब्दस्तस्येदं ग्रहणम्" इति (महाभाष्यम्)।
काशिकायां पुनरिदं व्याख्यायते-
"स्वतन्त्र इति प्रधानभूत उच्यते, अगुणभूतः।यः क्रियासिद्धौ स्वातन्त्र्येण विवक्ष्यते,तत् कारकं कर्तृसंज्ञं भवति" इति (काशिका)।
अन्यत्र चोक्तम्-
"स्वं तन्त्रं यस्य स स्वतन्त्रः।अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः,यथा-स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते"
इति (न्यासः)।
तथाहि
"स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति-स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्,स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः।अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र" इति (पदमञ्जरी)।
अन्यद्धि-
"स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम्" इति (बालमनोरमा,सुधाटीका च)।
क्रियायाः सिद्धौ यत् कारकं प्राधान्येन विवक्ष्यते, तस्य कर्ता इति संज्ञा भवति।अतः क्रियायां स्वातन्त्र्यं प्रधानकारकं कर्तृकारकमुच्यते।
प्रयत्नविशेषेऽपि तन्त्रशब्दः प्रयुज्यते।तद्यथा-
"हलन्त्यम्"(अष्टाध्यायी-१.३.३) इति सूत्रे न्यासकारेण प्रतिपाद्यते-
"ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथाहि इत्सञ्ज्ञायाम् "आदिरन्त्येन सहेता"(१.१.७०) इति हलिति प्रत्याहारग्रहणं भवति।तस्य लकारस्य हलन्त्यमितीत्सञ्ज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव।"इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते" (व्या.परि.-२८) इत्यत आह- "हस्य ल् हल्" इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा-प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति।इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः।तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्" इति(न्यासः)।
तदित्थं सिध्यति यत् तन्त्रम् अनेकेषु विषयार्थेषु लभ्यते।
तदिह प्रमाणभूतानि कोशवचनानि-
"तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे"
(अमरकोशः-३.३.१९३)
अन्यत्रापि-
तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे।प्रधाने तन्तुवाये च" इति (मेदिनीकोशः)
।
अन्यद्धि-
"तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे।शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम्। एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि।।"
(वैजयन्तीकोशः)
अतस्तन्मूलभूतः तनुधातोरनेकार्थत्वं स्वतः सिध्यति।
पाणिनिधातुपाठे माधवीयधातुवृत्तौ क्षीरतरङ्गिण्यां धातुप्रदीपे च
"ध्मा शब्दाग्निसंयोगयोः" इति भ्वादिगणीयः परस्मैपदी अनिट् धातुः पठ्यते।कविकल्पद्रुमे तु "ध्मा अग्नियुतौ ध्वनौ च" इति पठ्यते।
तत्राग्नियुतिर्नामाग्निसंयोगो,ध्वनिर्नाम शब्दोत्पत्तिहेतुभावश्च गृह्यते।इहाग्निसंयोगो मुखवायुनाऽग्निसंयोगः।
तद्यथा-धमति सुवर्णं बणिक् अग्निसंयुक्तं करोतीत्यर्थः।धमति शङ्खं जनः सशब्दं करोतीत्यर्थः।तदित्थं वाक्यप्रयोगं दृष्ट्वा धात्वर्थो निश्चेतव्यः।
Comments
Post a Comment