सूत्रानुसारिणो धात्वर्थाः
सूत्रशब्दो बह्वर्थको विद्यते इत्येतद्विवरणं मयास्यैव शोधग्रन्थस्य "प्रयोगानुसारिणो धात्वर्थाः" इत्येतस्मिन्नध्याये बहुविस्तरेण चर्चितम्।अत्र तावत्
पाणिन्यादिमहर्षिभी रचितो ग्रन्थविशेषः
शास्त्रवाक्यभेदश्च सूत्रशब्देन कीर्त्यते। तद्यथा-
"सूत्राच्च कोपधात्"
(अष्टाध्यायी-४.२.६५)
इति सूत्रस्य व्याख्यायां काशिकायां
"पाणिनीयमष्टकं सूत्रम्" इत्युच्यते।
पुनश्च
"अष्टकं सूत्रम्" इति(न्यासः)
तदिदं सूत्रपदेन कापिलं साङ्ख्यसूत्रं, पातञ्जलं योगसूत्रं,गौतमीयं न्यायसूत्रं,काणादं वैशेषिकसूत्रं,जैमिनीयं मीमांसासूत्रम्,बादरायणीयं वेदान्तसूत्रञ्चेति प्रभृतीनां शास्त्रीयसूत्रात्मकग्रन्थानां बोधो भवति।
सूत्रलक्षणं तदित्थमुच्यते-
"अल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वम्" इति सूत्रलक्षणम्।
अन्यद्धि-
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।।”
एतद्वचनस्यायमाशयो यत्-
अल्पाक्षरान्वितं बह्वर्थबोधकत्वं
सन्देहरहितं सारभूतं स्तोभरहितम् अनवद्यञ्च शास्त्रवाक्यं सूत्रं व्यपदिश्यते।शास्त्रवाक्यात्मकानां सूत्राणां व्याकरणे षाड्विध्यं पुनर्निदिश्यते।तदुच्यते-
"सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
प्रतिषेधोधिकारश्च षड्विधम् सूत्रलक्षणम्।।"
व्याकरणनिकाये "पञ्चाङ्गं व्याकरणम्" इति वचनं प्रसिद्धमेव।१.सूत्रपाठः,२.धातुपाठः,३.गणपाठः,
४.उणादिपाठः,५.लिङ्गानुशासनपाठश्च।व्याकरणशास्त्रस्य सर्वाङ्गतासिद्ध्यर्थं तत्पूरकभूतानां समेषाम् अङ्गानाम् उपदेशो भगवता पाणिनिना विहितः।तदतिरिच्य पाणिनिव्याकरणप्राणभूतेषु अष्टाध्यायीसूत्रेषु यत्र-तत्र धातुपाठादीतराङ्गोपदेशः समाचरितः। तद्यथा-
"यमो गन्धने" (१.२.१५),
"मृषस्तितिक्षायाम्"(१.२.२०),
"अर्हः प्रशंसायाम्"(३.२.१३३),
"वृणोतेराच्छादने"(३.३.५४),
"परो भुवोऽवज्ञाने"(३.३.५५),
"धृषीशसी वैयात्ये"(७.२.१९)
"कृच्छ्रगहनयोः कषः"(७.२.२२)
"णेरध्ययने वृत्तम्"(७.२.२६),
"मीनातेर्निगमे"(७.३.८१),
"श्योऽस्पर्शे"(८.२.४७),
"तनूकरणे तक्षः"(अष्टा.-३.१.७६),"क्षयो निवासे"(अष्टा.-६.१.२०),
"अञ्चेः पूजायाम्"(अष्टा.-७.२.५३),"लुभ विमोहने"(अष्टाध्यायी-७.२.५४),
आक्रोशेऽवन्योर्ग्रहः"(अष्टा.3.3.45)
"अवे ग्रहो वर्षप्रतिबन्धे"(अष्टा.3.3.51),
"अर्ह: प्रशंसायाम्"(अष्टा.3.3.134),
"राधो हिंसायाम् "(अष्टा.6.4.123) चादयः।
कैश्चित् सूत्रैर्धातुपाठेषु यदर्थेषु धातवः पठिताः तत्समानेष्वर्थेष्वेव केषाञ्चन धातूनामुपदेशस्तथा केषाञ्चन धातूनाम् तत्पृथगर्थेषूपदेशः कृतो वर्तते।तदत्र प्रस्तूयते।
*धातुपाठपठितधात्वर्थसमानार्थेषु सूत्रेषु तदर्थोपदेशः-
(१)."मृषस्तितिक्षायाम्" (अष्टाध्यायी-१.३.२०) इति सूत्रे "मृष तितिक्षायाम्" (दिवादिगण उभयपदी सकर्मकः सेट्) इति पठितार्थस्य समानार्थे इत्युपदिश्यते।अत्र तितिक्षा नाम क्षान्तिः क्षमेत्यर्थः।अत्र मानम्-"तितिक्षा क्षमा" इति (मा.धातुवृत्तिः,काशिकान्यासादयश्च)।
(२)."आशिषि नाथः"(अष्टाध्यायी-२.३.५५) इति सूत्रे
"नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु"
(भ्वादिगण आत्मनेपदी सकर्मकोऽकर्मकश्च सेट् ) इति पाणिनिधातुपाठे याच्ञादिष्वर्थेषु पठितेषु नाथृधातुराशिषि अर्थ उपदेशः क्रियते।
(३)."श्लिष आलिङ्गने" (अष्टाध्यायी-३.१.४६) इति सूत्रे दिवादिगणे "श्लिष आलिङ्गने" (दिवादिगणः परस्मैपदी सकर्मकोऽनिट्) इति पठितार्थस्य समानार्थ एवोदिश्यते।
अत्र आलिङ्गनं नाम परिष्वङ्गो बाहुभ्यामाश्लिष्य अङ्गेनाङ्गसंयोजनं वेति।तदाह-
"आलिङ्गनमुपगूहनं परिष्वङ्गः" इति (काशिका)।
(४)."सुञो यज्ञसंयोगे" (३.२.१३२) इति सूत्रे अभिषवार्थे पठितस्य समानार्थ एवात्रोपदिश्यते। अत्र मानम्-
"यज्ञसंयोग इति।कर्मसाधनः संयोगशब्दः।अत एव वृत्तावाह - `यज्ञसंयुक्तेऽभिषवे इति।संयुक्तः सम्बद्धः।यज्ञेन संयुक्तो यज्ञसंयुक्तः। कदा चाभिषवो यज्ञसंयुक्तो भवति? यदा यज्ञाङ्गं भवति" इति (न्यासः)।
५."अञ्चेः पूजायाम्" (अष्टाध्यायी-७.२.५३)इति सूत्रे अञ्चुधातुः पूजायामर्थे स्मर्यते। पाणिनिधातुपाठे तु "अञ्चु गतिपूजनयो:" इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः पठ्यते।
६."लुभो विमोहने"(अष्टाध्यायी-७.२.५४) इति सूत्रेण विमोहनेऽर्थे वर्त्तमानस्य लुभधातोः परस्य क्त्वाप्रत्ययस्य निष्ठाप्रत्यययोश्चेडागमो भवति।अत्र तुदादिगणस्थस्य "लुभ विमोहने"(परस्मैपदी अकर्मकः सेट्) इति धातोर्ग्रहणं कार्यम्। यतोहि तद्भिन्नस्य दिवादिगणस्थस्य लुभधातोर्गार्ध्येऽर्थे वर्त्तमानात्तस्य विमोहनार्थासम्भवात्।तदाह बालमनोरमाकृद्वासुदेवदीक्षितः-
"अत्र तौदादिकस्यैव ग्रहणं,तस्यैव विमोहनार्थकत्वात्।न तु दैवादिकस्य, तस्य गार्ध्यार्थकत्वात्।
तदिदं सिध्यति यत् अस्मिन् सूत्रे पाणिनिधातुपाठपठितसमानार्थ एव धात्वर्थनिर्देशो वर्तते।
७."तनूकरणे तक्षः" (अष्टाध्यायी-३.१.७६) इति सूत्रेण "तक्षू तनूकरणे" (भ्वादिगणः परस्मैपदी सकर्मको वेट्) इति धातोस्तनूकरणेऽर्थे विकल्पेन श्नुप्रत्ययो विधीयते।अत्र मानम् -
"तक्षू त्वक्षू तनूकरणे अस्मात् तनूकरणेऽर्थे वर्तमानादन्यतरस्यां श्नुप्रत्ययो भवति" इति (काशिका)।
अत्र तनूकरणं नाम तीक्ष्णीकरणं कृशकरणञ्च।अत्र पुनर्मानम्-
कविकल्पद्रुमे "तक्षू कार्श्ये" इति पाठस्तथा कार्श्यं नाम 'कृशकरणम्' इति तदर्थनिर्देशनञ्च।
अस्मिन् सूत्रे पाणिनिधातुपाठपठितसमानार्थे एव तक्षूधातोरर्थनिर्देशो वर्तते।तेनेदं ध्रुवं सिध्यति यदनेकार्थका धातवो हि भवन्ति।यदि तथा न स्यात् तर्हि "तनूकरणम्" इत्यर्थनिर्देशस्य कावश्यकता।तस्मादेव काशिकायामिदमुच्यते-
"अनेकार्थत्वाद् धातूनां विशेषणोपादानम्।"
८."क्षयो निवासे" (६.१.२०१)
इति सूत्रेण निवासार्थे क्षिधातोरधिकरणघप्रत्ययेन निष्पन्नस्य क्षयशब्दस्य आद्युदात्तविधानं क्रियते।तदत्र मानम् -
"क्षयशब्दो निवासेऽभिधेय आद्युदात्तो भवति।क्षियन्ति निवसन्त्यस्मिन्निति क्षयः" इति (काशिका)।
अत्र क्षयशब्दः "क्षि निवासगत्योः" (तुदादिगणः, परस्मैपदी, अकर्मकः सकर्मकश्चानिट्)इति धातोः घप्रत्ययेन निष्पन्नो वर्तते।तदाह-
"क्षयः इति।'क्षि निवासगत्योः'
(धातुपाठः-१४०७) इत्यस्येदं रूपम्" इति (न्यासः)।
तथाहि -
"क्षि निवासगत्योः'-इत्यास्माद् अधिकरणे घः।क्षयो दस्यूनामिति। क्षयेरच्,कर्तरि षष्ठी "इति (पदमञ्जरी)।
अस्मिन् सूत्रेऽपि धातुपाठे पठितार्थसमानार्थोपदेशः क्रियते। अनेन सिद्ध्यति यदयमपि धातुः अनेकार्थको वर्तते तथा धातुपाठे तदर्थनिर्देश उपलक्षणमात्रमेव।
(९)."सेधतेर्गतौ" (अष्टाध्यायी-८.३ .११३) इति सूत्रे षिधधातुः गत्यर्थकः स्मृतः।यो हि पाणिनिधातुपाठे निर्दिष्टधात्वर्थस्य समानार्थो विद्यते।यथा-
"षिध गत्याम्" केषाञ्चिन्मते "षिधु गत्याम्" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः।
(१०)."तपोऽनुतापे च" (अष्टाध्यायी-३.१.६५) इति सूत्रे तपधातुरनुतापार्थे वर्तते।अत्रानुतापो नाम पश्चात्तापः।
पाणिनिधातुपाठे "तप सन्तापे" इति भ्वादिगणः परस्मैपदी अनिट् इति धातुरुपदिश्यते।कविकल्पद्रुमे तु पुनः "तप दवैश्ययोः" इति धातुः पठ्यते।तत्र "दव उपतापः" इत्यर्थोऽवबुध्यते।
तदेवं धातुपाठनिर्दिष्टसमानार्थे सूत्रे धात्वर्थः समुदिष्टो वर्तते।
(११)."हनश्च वधः" (अष्टाध्यायी-३.३.७६)
इति सूत्रे धातुपाठनिर्दिष्टधात्वर्थसमानार्थ एव धात्वर्थः समुपलभ्यते।
धातुपाठे "हन हिंसागत्योः) (अदादिगणीयः परस्मैपदी सकर्मकोऽनिट्) इति पठ्यते।अत्र हिंसा वधार्थमेव ज्ञापयति।अतः कविकल्पद्रुमे "हन गतौ वधे च" इति निर्दिष्टोऽवलोक्यते।
पाणिनिधातुपाठेऽपि
"षूञ् अभिषवे" इति पठ्यते। कविकल्पद्रुमे तु
"षूञ् सन्धाने,सोमादेः पीडने,मन्थने च, चकारात् स्नाने" इति
स्वादिगण उभयपदी सकर्मकोऽकर्मश्च
अनिट् धातुः।अयं धातुः स्नानेऽकर्मकस्तथान्यत्र सकर्मको वर्तते।
तदिदं सिध्यति यत् षूञ् धातुर्यस्मस्मिन्नर्थे धातुपाठे पठ्यते तस्मिन्नर्थेऽस्मिन् सूत्रेऽपि समुपदिश्यते।
केषुचित् सूत्रेषु धातुपाठनिर्दिष्टार्थपृथगर्थेषु धात्वर्थोपदेशः क्रियते तथा ये धातवो धातुपाठेषु न दृश्यन्ते तेऽपि अत्रोपदिश्यन्ते।तद्यथा-
(१)"अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च"
(अष्टाध्यायी-३.१.१३८) इति सूत्रे सुखार्थे "साति" इति धातुरुपदिश्यते। तदत्र मानम्-
"सातिः सौत्रो धातुः।सातयः" इति (काशिका)।
अन्यद्धि-
"सातिः सुखार्थः।सौत्रो हेतुमण्ण्यन्तः, सातयः" इति (सिद्धान्तकौमुदी)।
(२)."स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च" (अष्टाध्यायी-३.१.८२)
इति पाणिनिसूत्रे "स्तन्भु-स्तुन्भु-स्कन्भु-स्कुन्भु" इति चत्वारो रोधनार्था धातवः समुपदिश्यन्ते।उपर्यक्तानामेतेषां धातूनां धातुपाठेषु पृथगुपदेशो न दृश्यते।अपितु सूत्रेऽस्मिन् आचार्यैः रोधनार्थे चत्वारो धातवः समुपदिष्टा इति केषाञ्चिन्मतम्।माधवाचार्यमते तु "स्तन्भु-स्कन्भु" इति द्वौ धातू स्तम्भार्थकौ वर्तेते, "स्तुन्भु" इति धातुर्निष्कोषणार्थको विद्यते तथा "स्कुन्भु" इति धारणार्थको वर्तते।अत्र "स्तम्भो नाम गर्वः" तथा निष्कोषणं नाम अन्तरवयवानां बहिर्निसारणम्।
अत्र प्रमाणम्-
"स्तम्भ्वादयश्चत्वारः सौत्राः।सर्वे रोधनार्था इत्येके।माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह। सर्वे परस्मैपदिनः" इति (सिद्धान्तकौमुदी)।
तथाहि-
"स्तन्भ्वादयश्चत्वारः सौत्राः।सर्वे रोधनार्थाः परस्मैपदिनः" इति (लघुसिद्धान्तकौमुदी)।
अन्यद्धि-
"आद्याश्चत्वारो धातवः सौत्राः, स्कुञ् आप्रवणे एतेभ्यः श्नाप्रत्ययो भवति श्नुश्च।स्तभ्नाति,स्तभ्नोति।स्तुभ्नाति, स्तुभ्नोति।स्कभ्नाति,स्कभ्नोति। स्कुभ्नाति,स्कुभ्नोति।स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, नैतद्विकरणविषयत्वमेव" इति (काशिका)।
तदित्थमेतत् सिध्यति यत् स्तन्भ्वादयश्चत्वारो धातवः सूत्रानुसारिणो रोधनार्थका विद्यन्ते।
(३)."वेः स्कभ्नातेर्नित्यम्"(८.३.७७)
" सौत्रोऽयं धातुरषोपदेशः" इति (काशिका)
तथाहि-
"स्कम्भिः सौत्रो धातुः"इति (पदमञ्जरी)।
(४)."सम्प्रतिभ्यामनाध्याने"
(अष्टाध्यायी-१.३.४६) इति सूत्रे "सम्-प्रति" इत्युपसर्गाभ्यां ज्ञाधातुरनाध्याने उपदिश्यते।
आध्यायते अनेनेति विग्रहे ल्युट्प्रत्ययेन निष्पन्नम्
आध्यानं नामोत्कण्ठापूर्वकं स्मरणम्।
न आध्यानम् इति अनाध्यानं नोत्कण्ठापूर्वकं स्मरणम् इति तदर्थः।यथा-शतं संजानीते अवेक्षत इत्यर्थः।शतं प्रतिजानीते अङ्गीकरोतीत्यर्थः।
धातुपाठे तु "ज्ञा अवबोधने" इति क्र्यादिगणीय उभयपदी सकर्मकोऽनिट् धातुः पठ्यते।परमेतस्मिन् सूत्रेऽयं धातुरनाध्याने समुपलभ्यते।अयञ्चार्थः सुत्रानुसारीत्येवं कथयितुं शक्यते।
(५)."मीनातेर्निगमे" (७.३.८१) इति सूत्रं "मीङ् हिंसायाम्" (क्र्यादिगण उभयपदी सकर्मकोऽनिट् धातुः) इत्यस्य धातोरङ्गस्य शिति प्रत्यये परे निगमविषये ह्रस्वविधानं करोति।
अत्र निगमपदेन "निगम्यते ज्ञायते अनेनेति व्युत्पत्त्या वेद इत्यर्थो बुध्यते।तदुक्तम्-
"मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये" इति (काशिका)।यथा-
प्रमिणन्ति व्रतानि।तद्भिन्ने लोकेऽर्थे ह्रस्वो न भवति।तस्माल्लोके प्रमीणन्ति' इति रूपं भवति
"मीङ् धातुः" हिंसार्थे धातुपाठे वर्तते,निगमार्थे तु सूत्रेऽस्मिन् स्वीक्रियते।
(६)."यमो गन्धने"(अष्टाध्यायी-१.२.१५) इति सूत्रेऽस्मिन् यमिधातुः गन्धनार्थे पठ्यते।अत्र गन्धनं नाम सूचनम्। एतत्सूत्रव्याख्याने काशिकावचनं
तदत्र मानम् -
"गन्धनं सूचनम्,परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते" इति (काशिका)।
तथाहि -
"ननु च `यम उपरमे` (धातुपाठः-९८४) इति पठते, तत् कथमयं गन्धने वर्तते, इत्यत आह - `अनेकार्थत्वाद्"`इति (न्यासः)।
पाणिनिधातुपाठे "यम उपरमे" इति भ्वादिगणीयः परस्मैपदी,अकर्मकोऽनिट् धातुः पठ्यते।अत्र उपरमो नाम निवृत्तिः।
कविकल्पद्रुमे तु "यम विरतौ"इति पठ्यते।तत्र विरतिर्निवृत्तिः इत्युच्यते।उपरमार्थे पठितस्य यमिधातोर्गन्धनार्थोऽयं सुत्रकृन्मतेऽभिलषितः।तस्माद् गन्धनञ्चात्र सूत्रानुसारी यमधात्वर्थो वर्तते।
(७)."परौ भुवोऽवज्ञाने"
(अष्टाध्यायी-३.३.५५)
इति सूत्रेण पर्युपसर्गपूर्वको भूधातुरवज्ञानेऽर्थे समुपदिश्यते।तत्र अवज्ञानं नामासत्कारोऽर्थात् तिरस्कारोऽनादरो वेति।तदित्थं सूत्रार्थो भवति-"परिशब्द उपपदे अवज्ञानेऽर्थे गम्यमाने भवतेर्धातोर्विभाषा घञ् प्रत्ययो भवति।अत्र मानं कोशवचनमपि-
"अनादरः परिभवः परीभावस्तिरस्क्रिया"
इति (अमरकोशः-१.७.२४)।
अतएव दीक्षितकृतायाः सिद्धान्तकौमुद्या मङ्गलाचरणे 'परिभाव्य' इति प्रयोगः सङ्गच्छते। तद्धि-
"मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते॥"
(सिद्धान्तकौमुदी-मङ्गलाचरणम्)
अत्र परिभाव्येत्युक्ते तिरस्कृत्य इत्यर्थो व्याख्यायितः।
यद्यपि धातुपाठेष्वनेके भूधातवः पठिताः,परम् अवज्ञाने नैव पठिताः।तद्यथा-
(क)."भू सत्तायाम्" इति भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः।
(ख)."भू प्राप्तौ" इति चुरादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः।
अयं धातुरात्मनेपदी वर्तते।तदुच्यते-
"भू प्राप्तावात्मनेपदी" इति (क्षीरतरङ्गिणी धातुप्रदीपश्च)।
(ग)."भुवोऽवकल्कने" इति कल्पद्रुमे तु "भू शुद्धिन्तयोः मिश्रणे च" इति चुरादिगणीयः परस्मैपदी सकर्मकः सेटः धातुश्च।
तस्माद्भूधातोरवज्ञानार्थः सूत्रानुसारी वर्तते।अनेन एतदपि ध्वन्यते यदनेकार्था हि धातवस्तत्र तदर्थनिर्देशश्चोपलक्षणमात्रमेवेति।
(८)."अर्हः प्रशंसायाम्"
(अष्टाध्यायी- ३.२.१३३) इति सूत्रे प्रशंसायाम् अर्हधातुरुपदिश्यते।अत्र प्रशंसा नाम स्तुतिः।
धातुपाठेषु चायं धातुः पूजायामर्थे स्मर्यते।तद्यथा-
(क)."अर्ह पूजायाम्" इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।"अर्ह योग्यत्वे" इति भ्वादिगणः परस्मैपदी सकर्मकः सेट् धातुः।पूजने चेति कविकल्पद्रुमः।योग्यत्वे यथा-
अर्हति विप्रो वेदं पठितुम्।
तथाहि-
“अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति”
(मनुस्मृतिः-२.२०८,कूर्मपुराणम्-१४.२९)
“गुरोर्गुरौ सन्निहिते गुरुवन्मानमर्हति”
इति (मनुस्मृतिः)।
(ख)."अर्ह पूजायाम्" इति चुरादिगणीय उभयपदी सकर्मकः सेट् धातुः।
तदेवम् अर्हधातुः प्रशंसार्थाको सूत्रानुसारी वर्तते पुनश्चात्रेदमपि गम्यते यदयं धातुरप्यनेकार्थोस्तथा धातुपाठेऽर्थनिर्देशस्तूपलक्षणमात्रमेव।
(९)."समः प्रतिज्ञाने" (अष्टाध्यायी-१.३.५२) इति सूत्रेण समुपसर्गपूर्वात् "गॄ निगरणे" इति धातोः परस्मैपदित्वे सत्यपि प्रतिज्ञानेऽर्थे आत्मनेपदं विधीयते।अत्र प्रतिज्ञानं नामाभ्युपमः प्रतिज्ञेत्यर्थः।
तदुच्यते-
"गॄ इति वर्तते।सम्पूर्वाद् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति" इति (काशिका)।यथा-
शब्दं नित्यं सङ्गिरते,प्रतिजानीत इत्यर्थः।
धातुपाठे तु "गॄ निगरणे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुः पठ्यते। अत्र
निगरणं नाम गिलनं भक्षणमित्यर्थः।
अयं धातुः प्रतिज्ञानार्थः सूत्रानुसारी वर्तते।
(१०)."कृञः प्रतियत्ने" (अष्टाध्यायी-२.३.५३) इति सूत्रे कृधातोः प्रतियत्नोऽर्थः समुपदिश्यते। अत्र प्रतियत्नो नाम गुणान्तराधानम्।तदाह-
"प्रतियत्नो गुणाधानम्" इति (बालमनोरमा)।
यद्यपि धातुपाठे "डुकृञ् करणे" इति तनादिगणीय उभयपदी सकर्मकः सेट् धातुः पठ्यते,तथापि सूत्रेऽस्मिन् प्रतियत्नार्थे
तस्योपदेशो वर्तते।तेनेदं सिध्यति यद्धातवोऽनेकार्था भवन्ति,धातुपाठे चोपलाक्षणिकास्तदर्थनिर्देशा वर्तन्ते।
(११)."श्योऽस्पर्शे" (८.२.४७) इति सूत्रेण
"श्यैङ्"इति धातोर्निष्ठासञ्ज्ञकस्य तकारस्य स्थाने नकारादेशो भवति अस्पर्शेऽर्थे वर्तमाने।
प्रतिपाद्यते तद्धि काशिकायां-
"श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवती"ति (काशिका)। अत्र स्पर्शो नाम
त्वगिन्द्रियग्राह्यो गुणविशेषः।न स्पर्शः अस्पर्शः स्पर्शभिन्नार्थविशिष्टः।यथा-शीनं घृतम् घनीभूतं घृतमित्यर्थः।
अयञ्चार्थो धातूनामनेकार्थत्वात् सिध्यति।तदाह बालमनोरमाकृद्वासुदेवदीक्षितः-
शीनं घृतमिति।घनीभूतमित्यर्थः,धातूनामनेकार्थत्वात्" इति (बालमनोरमा)।
अनेन सूत्रेण अस्पर्शार्थे निष्ठातकारस्य नकारादेशो विधीयते।अतः स्पर्शार्थे नकारादेशो न भवति।यथा-शीतं जलम्, शीत स्पर्शवज्जलमित्यर्थः।
अत्रेदं बोध्यम् यत्-"श्यैङ् गतौ" इति भ्वादिगणीय आत्मनेपदी सकर्मकोऽनिट् धातुः।तस्य अस्पर्शार्थः (स्पर्शगुणभिन्नविशिष्टार्थः) सूत्रानुसारी वर्तते धातूनामनेकार्थत्वात्।
(१२)."हरतेरनुद्यमनेऽच्"(अष्टाध्यायी-३.२.९) इति सूत्रे "हृधातुरनुद्यमनेऽर्थे स्वीक्रियते।उद्यमनमुत्क्षेपणम्, उपरि क्षेपनम् ऊर्ध्वं नयनमित्यर्थः।न उद्यमनम् अनुद्यमनम् अनुत्क्षेपणम् इत्यर्थोऽत्र बुध्यते।तदाह-"उद्यमनमुत्क्षेपणमिति।
अधः स्थितस्य वस्तुन ऊर्ध्वं नयनमित्यर्थः।अंशहरःइति।
अंशं स्वीकरोतीत्यर्थो न तूत्क्षेपयति" इति (न्यासः)
परं धातुपाठे तु "हृञ् हरणे" इति भ्वादिगणीय उभयपदी द्विकर्मकोऽनिट् धातुः पठ्यते।अत्र हरणं नाम प्रापणं स्वीकारः स्तैन्यं नाशनञ्च।कविकल्पद्रुमे तु "हृञ् हृतौ" पठ्यते।
तत्र "हृतिर्देशाद्देशान्तरप्रापणा" इत्यर्थो निर्दिश्यते।
तदित्थं सिध्यति यत् हृधातुरनेकार्थको वर्तते।तस्यायम् "अनुद्यमनम्(अनुत्क्षेपणम्)" इत्यर्थः सूत्रानुसारी वर्तते।
(१३)."अधेः प्रसहने" (अष्टाध्यायी-१.३.३३)
इति सूत्रेण "अधि" इत्युपसर्गपूर्वः "डुकृञ् करणे" इति तनादिगणीय
उभयपदी सकर्मकोऽनिट् धातुः प्रसहनेऽर्थे वर्तते।अत्र मानम्-
"अधिपूर्वात् करोतेः प्रसहने वर्तमानादात्मनेपदं भवति" इति (काशिका)।
अत्र प्रसहनं नामाभिभवः,अपराजयो वा।तदुच्यते-
"प्रसहनं क्षमाऽभिभवश्च।षह मर्षणेऽभिभवे चेति पाठात्" इति (सिद्धान्तकौमुदी)।
तदिदं फलति यद्-धातुपाठे तु कृधातुः करणेऽर्थे पठितस्तस्य "प्रसहनम्" इत्यर्थः सूत्रानुसारी वर्तत इति।
(१४)."राधो हिंसायाम्" (अष्टाध्यायी-६.४.१२३) इति सूत्रेण हिंसायामर्थे
राधोऽवर्णस्य स्थाने ऐकारादेशो भवति।तदुच्यते-
"राधो हिंसायामर्थेऽवर्णस्यैकार आदेशो भवति,अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि" इति (काशिका)।
पाणिनिधातुपाठे १."राध संसिद्धौ" (स्वादिगणः परस्मैपदी सकर्मकोऽनिट्) इति धातुरुपदिश्यते।अत्र संसिद्धिर्नाम पलसम्प्राप्तिः।तदाह-"संसिद्धिः फलसम्पत्तिः" इति (क्षीरस्वामी)।
२."राधोऽकर्मकाद् वृद्धावेव" (दिवादिगणः परस्मैपदी अकर्मकोनिट्) इति धातुरुपदिश्यते।
कविकल्पद्रुमे तु उभावपि धातू सिद्ध्यर्थकावेव पठ्येते।
तदिदं सिध्यति यद् राधधातोः हिंसार्थः सूत्रानुसारी वर्तते यतोहि धातुपाठेषु तद्भिन्नेऽर्थे पठितत्वात्।
तदेवम् अनेकार्था हि धातवो भवन्तीति सुतरां सिद्ध्यति।अत्र प्रमाणम्-
"अनेकार्थत्वाद्धातूनां राधो हिंसायां वृत्तिः" इति (पदमञ्जरी)।
(१५)."आक्रोशेऽवन्योर्ग्रहः" (३.३.४५)
इति सूत्रे "अव-नि" इत्युपसर्गद्वयपूर्वको ग्रहधातुराक्रोशेऽर्थे स्मर्यते। अत्र आक्रोशो नाम शापः। शापो नाम शपनम् अर्थात् अनिष्टाशंसनमिति।
तदाह-
"अव नि इत्येतयोरुपपदयोर्ग्रहेर्धातोर्घञ् प्रत्ययो भवत्याक्रोशे गम्यमाने।आक्रोशः शपनम्" इति (काशिका)।
अन्यत्र चोक्तम्-
"अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे" इति (सिद्धान्तकौमुदी)।यथा-
अवग्राहस्ते भूयात् ,अभिभव इत्यर्थः। निग्राहस्ते भूयात् ,बाध इत्यर्थः। आक्रोशे किम्-अवग्रहः पदस्य,
छेदविशेष इत्यर्थ। निग्रहश्चोरस्य
निरोध इत्यर्थः।
धातुपाठे "ग्रह उपादाने" इति क्र्यादिगणीय उभयपदी सकर्मकः सेट् धातुः पठ्यते।अत्रोपादानं नामादानं ग्रहणमित्यर्थः।अत्र प्रमाणं क्षीरस्वामिणो वचनम्-
"उपादानं स्वीकारः" इति (क्षीरतरङ्गिणी)।
तदेवं सिध्यति यद्ग्रहधातोराक्रोशार्थः सूत्रानुसारी,स्वीकारार्थो धातुपाठानुसारी चेत्याशयः।
(१६)."किरतौ लवने"
(अष्टाध्यायी-६.१.१४०)
इति सूत्रेण उपपूर्वकात् कॄधातोः ककारात्पूर्वो सुडागमो भवति लवनेऽर्थे वर्त्तमाने।अत्र लवनं नाम छेदनम् "लूञ् छेदने" इति धातोर्निष्पन्नत्वात्।तदुच्यते-
"उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुट् कात् पूर्वो भवति" इति (काशिका)।
अन्यत्रापि-
"उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति" इति (सिद्धान्तकौमुदी)।
धातुपाठे तु "कॄ विक्षेपे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुरुपदृश्यते।परं लवनेऽर्थे सूत्रेऽस्मिन्नुपदिश्यते।
तदेवं कॄधातोर्लवनार्थः सूत्रानुसारी तथा विक्षेपार्थो धातुपाठानुसारी वर्तते।
१७."अक्षेषु ग्लहः" (अष्टाध्यायी३.३.७०)
इति सूत्रे ग्रहधातुरक्षार्थे समुपदिश्यते।
अत्र मानम्-
"ग्लह इति निपात्यते,अक्षविषयश्चेद् धात्वर्थो भवति" इति (काशिका)।
तथाहि
"अक्षशब्देन देवनं लक्ष्यते।तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते" इति (सिद्धान्तकौमुदी)।
पाणिनिधातुपाठे तु "ग्रह उपादाने" इति पठ्यते।अत्र उपादानं नाम ग्रहणमित्यवबुध्यते।तस्माद्धि कविकल्पद्रुमे "ग्रह ग्रहणे" इति स्मर्यते।
तदित्थं ग्रहणार्थो ग्रहधातुर्धातुपाठानुसारी तथा अक्षार्थो(देवार्थो द्यूतार्थश्च) ग्रहधातुः सूत्रानुसारी वर्तते।
१८."समुदोरजः पशुषु"
(अष्टाध्यायी-३.३.६९) इति सूत्रे "सम्-उद्"इति उपसर्गद्वयपूर्वकः अजधातुः पश्वर्थे समुपलभ्यते। तदुच्यते-
"समुदोरुपपदयोरजतेर्धातोः पशुविषये धात्वर्थेऽप् प्रत्ययो भवति" इति (काशिका)।
पाणिनिधातुपाठे तु
"अज गतिक्षेपणयोः" इत्युपदिश्यते।
यथा-समजः पशूनां सङ्घः,
उदजः पशूनां प्रेरणम् ।
तदित्थम् अजधातोः
पशुसम्बद्धो धात्वर्थः सूत्रानुसारी वर्तते।
१९."पराजेरसोढः" (अष्टाध्यायी-१.४.२६)
इति सूत्रे "परा" इत्युपसर्गपूर्वो जिधातुरसोढार्थे समुपलभ्यते।मानञ्चात्र पुनः-
"परापूर्वस्य जयतेः प्रयोगेऽसोढो योऽर्थः, सोढुं न शक्यते, तत् कारकमपादानसंज्ञं भवति" इति (काशिका)।
अत्र असोढो हि नाम
`सोढुं न शक्यते` इति।अनुभवितुं न शक्यत इत्यर्थः। अध्ययनात् पराजयते इत्यध्ययनमभिभवितुं न शक्नोति,न पारयतीत्यर्थः।
यथा- अध्ययनात् पराजयते। ग्लायतीत्यर्थः,
अध्ययनसम्बन्धिनी ग्लानिरित्यर्थः।
तदेवं परापूर्वकजिधातोरसोढार्थः सूत्रानुसारी वर्तते।
२०.निसस्तपतावनासेवने
(अष्टाध्यायी-८.३.१०२) इति सूत्रेण आसेवनार्थे तपधातोः परतो "निस्" इत्युपसर्गस्य सकारस्य मूर्धन्यादेशो भवति।
अत्रासेवनं पुनः पुनः करणम्।अत्र मानम्-
"आसेवनं पौनः पुन्यम्" इति (सिद्धान्तकौमुदी)
न आसेवनम् अनासेवनम् अर्थात् सकृत्करणमित्यर्थः।
तदुच्यते-
"निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे" इति (काशिका)।
यथा-निष्टपति सुवर्णम्,सकृदग्निं स्पर्शयतीत्यर्थः।
पाणिनिधातुपाठे तु "तप सन्तापे" इति भ्वादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः पठ्यते।
तदिह तपधातोरनासेवनार्थः सूत्रानुसारी वर्तते।यतोहि तपधातोः सन्तापनार्थो धातुपाठानुसारी विद्यते।
(२१)."द्रवमूर्तिस्पर्शयोः श्यः" (अष्टाध्यायी-६.१.२४) इति सूत्रे "श्यैङ्" इति धातुः द्रवमूर्तिस्पर्शयोरर्थयोरुपदिश्यते।
अत्र द्रवमूर्तिर्नाम द्रवकाठिन्यम् इत्यर्थोऽङ्गीक्रियते।तदाह-
"द्रवावस्थाया उत्तरोऽवस्थाविशेषः काठिन्याख्योऽत्र द्रवमूर्त्तिशब्देनोच्यते" इति (न्यासः)।
तथाहि-
"द्रवावस्थाया उतरावस्थाविशेषः द्रवकाठिन्यम्" इति (पदमञ्जरी)।
पाणिनिधातुपाठे "श्यैङ् गतौ"
(भ्वादिगण आत्मनेपदी सकर्मकोऽनिट्) इति धातुः पठ्यते।
अत्र प्रमाणम्-
"द्रवमूर्तौ द्रवकाठिन्ये,स्पर्शे च वर्तमानस्य श्यैङ् गतौ इत्यस्य धातोर्निष्ठायां परतः संप्रसारणं भवति" इति (काशिका)।
(२२)."मूर्तौ घनः" (३.३.७७) इति सूत्रे "हन् हिंसागत्योः"
(अदादिगणीयः, परस्मैपदी सकर्मकोऽनिट्) इति धातोः मूर्त्यर्थो निर्दिश्यते।अत्र मूर्तिर्नाम काठिन्यम्।तदाह-
"मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः" इति (सिद्धान्तकौमुदी)।
(२३)."ऋतेरीयङ्" (अष्टाध्यायी-३.१.२९) इति सूत्रे "ऋति" इति सौत्रो धातुरुपदिश्यते धातुपाठेऽदर्शनात्।
केषाञ्चन मतेऽयं धातुः घृणार्थे वर्तते,अपरेषां मते तु कृपायां वर्तते।अत्र घृणेत्यनेन जुगुप्सेति बुध्यते।
तदुच्यते सूत्रव्याख्यायां काशिकायां-
"ऋतिः सौत्रो धातुर्घृणायां वर्तते" इति (काशिका)।
अन्यद्धि-
"सौत्रः इति सूत्रे परिपठितत्वात्।सूत्रे भवः सौत्रः।घृणायां वर्तते इति।घृणा जुगुप्सा" इति (न्यासः)।
तथाहि-
"ऋतेरीयङ्, सौत्र इति।अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत" इति (पदमञ्जरी)।
पुनश्च-
"ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र" इति (बालमनोरमा)।
(२४)."जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः" (अष्टाध्यायी-३.२.१५०) इति सूत्रे "जु" इति सौत्रो धातुर्वर्तते।तदाह-
"जु सौत्रौ धातुः गतौ वर्तत इत्येके। विशेषहेतौ वेग इत्यपरे" इति (न्यासः)।
पुनश्च-
"धातुपाठे जुधातोरदर्शनादाह सौत्रः" इति (बालमनोरमा)।
कविकल्पद्रुमे तु "जु रंहसि" इति भ्वादिगणः परस्मैपदी अकर्मकोऽनिट् धातुः निर्दिश्यते।तत्र "रंहो वेगगति:" इत्यर्थो निर्दिश्यते।यथा-जवति घोटकः,अश्वो वेगेन गच्छतीत्यर्थः।
(२५)."तुरुस्तुशम्यमः सार्वधातुके"
(अष्टाध्यायी-७.३.९५) इति सुत्रे समुपदिष्टः "तु" इति सौत्रो धातुः वर्तते।तदुच्यते काशिकायां-
"तु इति सौत्रोऽयं धातुः" इति (काशिका)।
अन्यत्र चोक्तम्-
"तु इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे।अस्य च लुग्विकरणत्वं स्मर्यते" इति (न्यासः)।
तथाहि-
"तु इति सौत्रोऽयं धातुरिति।स च वृद्धौ वर्तते,गत्यर्थ इत्यन्ये,हिंसार्थ इत्यपरे" इति पदमञ्जर्यां हरदत्तमिश्रः प्रतिपादयामास।
पुनश्च-
"तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु। अयं च लुग्विकरण इति स्मरन्ति।तवीति,तौति,तुवीतः,तुतः,तोता, तोष्यति" इति (सिद्धान्तकौमुदी)।
तदित्थं सिध्यति यत् "तु गतिवृद्धिहिंसासु" इत्यदादिगणीयः परस्मैपदी सकर्मकोऽकर्मकश्चानिट् धातुर्विद्यते।तुधातु्ः गत्यर्थे हिंसायाञ्च
सकर्मकस्तथा वृद्ध्यर्थे पुनरकर्मको विद्यते।
उपर्युक्तविवेचनामाधारेणदं सिध्यति यत् केचन धातवः केवलं सूत्रेष्वेव लभ्यन्ते, धातुपाठेषु ते न पठ्यन्ते।सूत्रव्याख्यासु तदर्थः प्रतिपाद्यते।तत्सारतो मयाऽस्य शोधप्रबन्धस्य "सौत्रानुसारिणो धात्वर्थाः" इत्याख्ये विस्तरेण प्रपञ्चितमित्यलम्।
Comments
Post a Comment