धात्वर्थसमीक्षा(शोधबीजम्)

"ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च"
निखिले विश्वे सर्वैरपि बुधजनैः षडङ्गसहितो ज्ञानविज्ञानमयो वेदराशिरध्येतव्य इति निष्प्रयोजनः धर्मो विद्यते।तत्रापि "वेदानां रक्षार्थमध्येयं व्याकरणम्" तथा षट्स्वङ्गेषु प्रधानं व्याकरणम्,प्रधाने च कृतो यत्नः फलवान् भवति"इति महाभाष्यप्रामाण्येन ब्रह्मात्मकशब्दराशिवेदार्थप्रतिपत्तये निखिलेषु वेदाङ्गेषु  व्याकरणस्य मूर्धन्यभूतं  स्थानं वर्तते।तदुच्यते वाक्यपदीये हरिणा
"आसन्नं ब्रह्मणस्तस्य तपसाम् उत्तमं तपः
प्रथमं छन्दसामङ्गम् आहुर्व्याकरणं बुधाः।।"
         (वाक्य०-ब्रह्मका०-११)
वस्तुतः शब्दराशिवेदार्थावबोधस्तु तावन्न भवति यावत् तत्र प्रयुक्तानां नामधातूनाम् उपसर्गनिपाताव्ययानां सुबन्तानां तिङन्तानाम् लिङ्गवचनविभक्तीनां सन्धिसमासकारकप्रत्ययानाञ्च ज्ञानं न जायते। एतदर्थं व्याकरणज्ञानम् अपेक्षितं भवति।
। यथोक्तं हरिणा-
"अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते।
(वाक्यपदीयम्-ब्र.का-१३ कारिका)
महाभाष्येऽपि पस्पशाह्निके आनुषङ्गिकप्रयोजननिरूपणप्रसङ्गे यथोक्तं-
"उत त्वः पश्यन्न ददर्श वाचम्,
उत त्वः श्रृण्वन्न श्रृणोत्येनाम्।
उतो त्वस्मै तन्वं विसस्रे ,
जायेव पत्य उशती सुवासाः।।"
        (ऋ.सं-१०/७१/४)
अन्यच्च,
यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्।।
(आनुषङ्गिकप्रयोजनम्-३)
           यथा शरीरे मुखस्य प्रधानता वर्तते तथैव निखिलेऽपि वाङ्मये व्याकरणस्य प्रधानता वर्तते। मुखमिव प्रधानत्वाद् व्याकरणं वेदाङ्गमुखमुच्यते। तदुक्तं पाणिनिशिक्षायाम्-
"मुखं व्याकरणं स्मृतम्"(पा.शि.४२ कारिका) इति।अस्यायं भावो वर्तते यद् व्याकरणं वेदपुरुषस्य मुखं वर्तते अथ च वेदाङ्गेषु व्याकरणस्य मुखभूतं स्थानम् अर्थात् प्रधानं स्थानं विद्यते। तदुक्तं शेषावतारभूतेन भगवता पतञ्जलिना महाभाष्ये-
"षट्स्वङ्गेषु प्रधानं व्याकरणं, प्रधाने च कृतो यत्नः फलवान् भवति" इति।
अन्यच्च-
आचार्यानन्दवर्धनोऽपि स्वकीये लक्षणग्रन्थे ध्वन्यालोके शब्दानुशासनभूतस्य व्याकरणस्य महत्त्वं प्रतिपादयन् अवोचद्यत्-
"प्रथमे हि विद्वांसो वैयाकरणा व्याकरणमूलत्वात् सर्वविद्यानाम्"इति।
    "व्याकरणस्य लक्षणं प्रयोजनं महत्त्वञ्च"
तत्रादौ व्याकरणलक्षणं प्रस्तूयते- किन्नाम व्याकरणम् इति जिगमिषायां ग्रन्थान्तरेषु अनेकधा व्युत्पत्तीः प्रदर्श्य व्याकरणलक्षणम् उच्यते-
"व्याक्रियन्ते व्युत्पाद्यन्ते लौकिका वैदिका उभयविधाः शब्दा अनेनेति व्याकरणम्"।
अन्यच्च-
"व्याक्रियन्ते व्युत्पाद्यन्ते निष्पाद्यन्ते प्रकृतिप्रत्ययान् विभज्य कथ्यन्ते साधुशब्दा अनेनेति व्याकरणम्।"
तथाहि-
व्याक्रियन्ते विविच्यन्ते असाधुशब्देभ्यो विविच्य कथ्यन्ते साधुशब्दा अनेनेति व्याकरणम्"।
अन्यद्धि-
व्याक्रियन्ते पृथक्क्रियन्ते असाधुशब्देभ्यः 
साधुशब्दा अनेनेति व्याकरणम्"।
भगवता बादरायणेन महाभारतस्य उद्योगपर्वणि व्यकारणलक्षणम् इत्थं प्रत्यपादि-
"सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा।।"
    (महाभारतम्-उद्योगपर्व)(महा.-५-४३-६२)
         एतत्सर्वं समालोच्य सारभूतं पदसाधुत्वबोधकं शास्त्रम् व्याकरणम् अथ च पदसाधुत्वलक्षणं व्याकरणम् इति व्याकरणस्य निकृष्टलक्षणं स्फुटति।
        "व्याकरणप्रयोजनम्"
वयं जानीम एव यत् प्रयोजनं विना लोकस्य न कस्मिन्नपि कर्मणि प्रवृत्तिः। तदुच्यते- प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते।"तस्माद् व्याकरणशास्त्रस्यापि प्रयोजनं विना  न स्याद् व्याकरणाध्ययने कस्यापि प्रवृत्तिः।अतः प्रसङ्गात् व्याकरणस्य किं प्रयोजनम् इति आकाङ्क्षायां महाभाष्ये बहुधा प्रयोजनं निरूप्यते-
व्याकरणस्य साक्षात्प्रयोजनं शब्दज्ञानमेव।अतोऽस्य शास्त्रस्य अन्वर्थं नाम शब्दानुशासनम् इति सङ्गच्छते। तदुच्यते-
"शब्दानुशासनं शब्दानाम् अन्वाख्यानं वा व्याकरणम्"(महाभाष्ये))
तत्रैव मुख्यप्रयोजननिरूपणावसरे आह भगवान् पतञ्जलिः-
"रक्षोहागमलघ्वसन्देहाः प्रयोजनम्"
पुनस्तत्रैव "तेऽसुरा"इति प्रभृतीनि त्रयोदश गौणप्रयोजनानि अपि निरूपितानि सन्ति।
अपि च-
"लक्ष्यलक्षणे व्याकरणम्"(महाभाष्ये)।
अन्यत्र-
"पदसङ्केतविधानार्थं व्याकरणम्"(न्यायभाष्ये वात्स्यायन:)।

अन्यद्धि-
"व्याकरणात् पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भवति, अर्थनिर्णयात् तत्त्वज्ञानम्,
तत्त्वज्ञानात् परं श्रेयः"(वाक्यपदीय टीका)।
          एतत्सर्वम् आलोच्य वक्तुं शक्नुमो वयं यद् लौकिकवैदिकोभयविधशब्देषु साधुत्वाऽसाधुत्वपदज्ञानार्थं, पदार्थविज्ञानार्थं च  व्याकरणाध्ययनस्य सारभूतं प्रयोजनं वर्तते। यतोहि "व्याकरणं विना न केनापि लघुनोपायेन शक्याः शब्दा ज्ञातुम्"(महाभाष्ये पतञ्जलिः)।पुनस्तत्रैव-"अर्थाविज्ञाने निष्फलः शब्दप्रयोगः,तस्यार्थगत्यर्थत्वात्"
(महाभाष्ये-२.१.१)।
 एतद्विवेचनेनैव व्याकरणस्य महत्त्वं अपि स्फुटति।अतः प्रसङ्गवशाद् व्याकरणमहत्त्वं प्रतिपाद्यते।
          "व्याकरणमहत्त्वम्"
पदज्ञानम् अथ च शब्दज्ञानं विना न कस्यापि जनस्य पदार्थज्ञानम्(पदार्थप्रतीतिः) न सम्भवति।  तथा पदार्थज्ञानं विना शाब्धबोधोऽपि न भवितुं शक्नोति।यतोहि पदार्थज्ञानं  (शब्दार्थज्ञानम्) प्रति पदज्ञानं करणं(साधनम्) भवति। तदुच्यते विश्वनाथपञ्चाननभट्टाचार्येण कारिकावल्याः शब्दनामके खण्डे
"पदज्ञानं करणं द्वारं तत्र पदार्थधीः।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी।।"
(न्यायसिद्धान्तकारिकावली-शब्दखण्डः-८१)

पदशास्त्रापरनामकस्य
व्याकरणशास्त्रस्य शब्दविद्याया वा महत्त्वमित्थं प्रतिपादयन् काव्यदर्शकारो दण्डी आह-
"इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।"
       (काव्यादर्शः-१-४)
अन्यच्च-
"स्थाणुरयं भारहारः किलाऽभूदधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा‌।।"
वाक्यपदीयकारो महावैयाकरणो भतृहरिरपि व्याकरणमहत्त्वं ध्वनयन् उवाच-
"इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः।।"
      (वाक्यपदीयम्,ब्रह्मकाण्डम्,कारिका-१६)

शब्दब्रह्मणोऽर्थभावेन एव जगतः प्रक्रिया विवर्तते इति वैयाकरणानां राद्धान्तः। तदुक्तं वाक्यपदीये मङ्गलश्लोके हरिणा -
"अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।।"
          (वाक्य०,ब्र०का०,कारिका-१)
अन्यच्च-
"यो वेदवदनं सदनं हि सम्यग् ब्राह्म्याः स वेदमपि वेद किमन्यशास्त्रम्।
यस्मादतः प्रथममेतदधीत्य विद्वान् शास्त्रान्तरस्य भवति श्रवणेऽधिकारी।।"
        (भास्कराचार्य:)
अस्यायं भावो वर्तते यद् वेदवदनं व्याकरणं (मुखं व्याकरणं स्मृतम्) अधीत्य एव अन्यस्य शास्त्रस्य श्रोतुम् अधिकारी भवति।यतोहि व्याकरणज्ञानं विना शब्दानां प्रकृतिप्रत्ययपदप्रक्रियाज्ञानं न स्यात् तथा तज्ज्ञानं विना शब्दार्थप्रतीतिरपि न स्यात्।तस्मादेव सर्वैरपि प्रयत्नतो व्याकरणम् अध्येयम्।तदुक्तं-
"यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्।।
             एतत्परिशीलनेन वक्तुं शक्नुमो वयं यद् व्याकरणशास्त्रं  निखिले संस्कृतवाङ्मये वेदाङ्गेषु च शिखरस्थानम् अलङ्करोति नास्त्यत्र कश्चन संशयः।
  विद्यावारिधिनिमित्तं   "धात्वर्थसमीक्षा" इति विषयचयनस्य औचित्यम्-
           तत्र सत्स्वपि अनेकेषु धातूपसर्गनिपाताव्ययप्रकृतिप्रत्ययकारकसमासप्रभृतिषु शब्दशास्त्रीयचिन्तनेषु धात्वर्थानां समीक्षणे(विश्लेषणे) किमर्थं प्रवृत्तिः इत्याकाङ्क्षा समुदेति चेदस्याः आकाङ्क्षायाः समाधानार्थं -
१."ओङ्कारं पृच्छामः,को धातुः,किं प्रातिपदिकं, किं नामाख्यातम्,किं लिङ्गं,किं वचनं,का विभक्तिः,कः प्रत्ययः,कः स्वर उपसर्गो निपातः,किं वै व्याकरणं,को विकारः,को विकारी,कति मात्राः,कत्यक्षराः,कति पदाः,कः संयोगः,किं स्थाननादानुप्रदानानुकरणम् इति " गोपथब्राह्मणस्य अस्मिन् मन्त्रे  शब्दशास्त्रीयचिन्तनं कृतं वर्तते। अस्मिन् मन्त्रे आदितः द्वितीयक्रमे "को धातुः"इति प्रश्नम् उपादाय अपि धातोर्महत्त्वं स्पष्टीकृतं तथा अन्येषां शब्दशास्त्रीयचिन्तनानाम् अपेक्षया धातोः चिन्तनस्य प्राधान्यं गरीयस्त्वञ्च।तस्मादेव प्रकृतिप्रत्ययप्रत्ययार्थादिविचारं विहाय धात्वर्थविचारो न विजृम्भित:।अतो
 "धात्वर्थसमीक्षा" इति अनुसन्धानविषयो निर्धारितो वर्तते।

२."वाक्यं रसात्मकं काव्यम्"
(सा.द-प्र.परि.काव्यलक्षणम्)
इति विश्वनाथकाव्यलक्षणानुसारं रस एव आत्मा यस्य वाक्यस्य तद्वाक्यं काव्यम्।सारतो रसयुक्तं वाक्यं काव्यमिति स्फुटति।वाक्यप्रयोगे यदि तिङन्तस्य प्रयोगो न क्रियते तर्हि तद्वाक्यं पाण्डित्यपूर्णं चमत्कृत्याधायकञ्च नेति बुधैरङ्गीक्रियते।यथोक्तं-
"पदसमूहो वाक्यमर्थसमाप्तौ"इति।अस्यायं भावो यद् अर्थसमाप्तिस्तु तिङन्तपदानां व्यवहारेण(प्रयोगेण) एव जायते।तस्माद्वाक्ये काव्ये च तिङन्तस्यैव प्रधानता।वाक्यकारो वररुचिरपि वाक्यलक्षणं निरूपयन् तिङन्तस्य प्राधान्यं द्योतयति-
"एकतिङ्वाक्यम्"इति। अमरकोशकारोऽपि ब्रूते-
"सुप्तिङन्तचयो वाक्यम्"इति।तदित्थम्-"एकतिङन्तार्थमुख्यविशेष्यकं वाक्यम्"इति फलति।तिङन्तपदानां मूलन्तु धातुरेव तस्माद् धात्वर्थसमीक्षणे मदीया प्रवृत्तिः।
३."सर्वेषां कारकाणां क्रियायामेवान्वयः"इति नियमात् सर्वेषां कारकाणाम् अन्ततः क्रियायामेव योगः (सम्बन्धः) विशेषणता च भवति।
"करोति कर्तृकर्मादिव्यपदेशान् इति कारकम्" तथा "करोति क्रियां  निवर्तयतीति कारकम्"इति व्युत्पत्तिबलात् "क्रियान्वयित्वं क्रियाजनकत्वं वा कारकत्वम्" इति कारकलक्षणं स्फुटति। क्रियया वाचको धातुरेव।तदुक्तं महाभाष्ये "क्रियावचनो धातुः" तथा "भाववचनो धातुः"इति। तेन हि क्रियावाचकस्य धातोरर्थानां समीक्षायाम् अस्मदीया प्रवृत्तिः समुचिता एव।
४."शब्दानाम् अनुशासनं व्याकरणम्"इति महाभाष्यकाराणां वचनम्। शब्दानां मूलं तु धातुरेव। तदुक्तं यास्कप्रणीते निर्वचनशास्त्रे निरुक्ते-"सर्वं नाम धातुजमाह"(निरुक्ते शाकटायनमतम्)-अस्यायमाशयो यत् सुबन्तेषु धातुजशब्दानामेव आधिक्यात् प्रथमतो धातुज्ञानं तदर्थपरिज्ञानञ्च आवश्यकम्।यतोहि शब्दानां प्रकृतिरूपस्य मूलभूतस्य धात्वर्थस्यैव परिज्ञानं न स्याच्चेत् कुतः शब्दार्थविज्ञानं स्यात्।अनेनैव "सकलशब्दमूलत्वाद् धात्वर्थो निरूप्यते"इति मञ्जूषायां नागेशवचनं सार्थक्यं सङ्गगच्छते।तस्मादेव धात्वर्थसमीक्षणेऽस्मत्प्रवृत्तिरिति बुध्यताम्।
५.काव्यं भावप्रधानं (भावनाप्रधानम्) भवति।तथा भावो व्याकरणतन्त्रे क्रियाभावनाव्यापारादिपदेन उच्यते। तदुक्तं भूषणकारिकायाम्-
"व्यापारो भावना सैवोत्पादना सैव च क्रिया"इति।तत्र क्रिया व्यापारो भावना वा धातोरेवार्थो विद्यते।तदुच्यते-भूषणकारिकायाम्-
"फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।"
अथ च 
"भावप्रधानमाख्यातम्"
(निरुक्तम्-१/१) इत्यत्र आख्यातपदेन धातोस्तिङन्तस्य च उभयोरेव ग्रहणं
अतः फलव्यापारवाचकस्य धातोरर्थस्य समीक्षायां मम प्रवर्तना योग्या एव वर्तते।
"भावप्रधानमाख्यातम्"
(निरुक्तम्-१/१) इत्यत्र आख्यातपदेन धातोस्तिङन्तस्य च उभयोरेव ग्रहणं वर्तते।तस्मात्प्राधान्येन तिङन्तपदानां नामपदानाञ्च मूलभूतानां प्रकृतिरूपाणां धातूनां समीक्षणं भवतु इति विचिन्त्य अस्मन्मार्गनिर्देशकानां गुरूणाम् अनुमत्या च "धात्वर्थसमीक्षा" शोधप्रस्तुतिविषयो(अनुसन्धानविषयः) निर्धारितः।
                                             
अथ च धातूनां प्रयोगेषु तदर्थेषु च बहु वैचित्र्यम् अवलोक्यते।क्वचित् उपसर्गप्रयोगबलेन अर्थपरिवर्तनं, क्वचित्तु उपसर्गप्रयोगमन्तराऽपि अर्थपरिवर्तनम्।क्वचित् तिङ्प्रत्ययेषु परस्मैपदिबोधकप्रत्ययानाम् आत्मनेपदिबोधकप्रत्ययानां प्रयोगवशाद् अर्थपरिवर्तनम्।क्वचिच्च धातूनां गणभेदकानां विकरणप्रत्ययानां भेदाद् अर्थपरिवर्तनम्।क्वचिद् आगमादेशादिबलेन अर्थपरिवर्तनम्। क्वचित् सूत्रार्थनिर्देशादपि अर्थपरिवर्तनम् अवलोक्यते।कदाचित् सकर्मकधातूनाम् अकर्मकधातुत्वेन व्यवहारः।कदाचिच्च अकर्मकधातूनामपि सकर्मकधातुत्वेन व्यवहारश्च अवलोक्यते।एते सर्वे विचारा एव "धात्वर्थसमीक्षा"इति विद्यावारिधिनिमित्तं शोधविषयचयनकाले नितरां ममान्तः करणं बुद्धितत्त्वं मनोमयूरञ्च उद्वेलयन्ति स्म।अतः गुरुणाम् अनुमत्या अयमेव "धात्वर्थसमीक्षा" इति लोकानां महान् उपयोगी मद्रुचिमान विषयो वर्तते।यद्यपि एतस्य विषयस्य समीक्षणे महान् यत्नो विधेय इति गुरूणामाशय आसीत् तथापि तेषां भृशं प्रेरणया मार्गदर्शनेन च जनोपयोगी विषयोऽयं शोधग्रन्थप्रस्तुतिविषयः निर्धारितः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः