"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

"स्वभावो हि दुरतिक्रमः"
                   "स्वस्य भाव"इति विग्रहे षष्ठीतत्पुरुषसमासे सति निष्पन्नतामेति स्वभावशब्दः।तत्र भावो नाम मानसविकारः क्रिया चेष्टा वेत्यर्थाः फलन्ति। अतः स्वभावपदेन स्वकीयो भाव आत्मनो भावः आत्मनः क्रिया चेष्टा वेत्यर्थः समायाति। स्वभावस्य कृते आङ्ग्लभाषायाम् "Nature"इति शब्दस्तथा संस्कृते प्रकृतिः स्वरूपं शीलं, निसर्गश्च शब्दा लोके दरीदृश्यन्ते।स्वभावलक्षणं यथोक्तं वर्तते-
"बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्तितः।
निसर्गश्च स्वरूपञ्चेत्येषोऽपि भवति द्विधा।।
निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते।
अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव इष्यते।।"
       (उज्ज्वलनीलमणिः)
 अस्यायमभिप्रायो यद् यो हि बहिर्हेतोरपेक्षां विनैव आत्मन आचारो व्यवहारो वा भवति सः स्वभाव इत्युच्यते।स्वभावो वस्तुतो नैसर्गिको(प्राकृतिको) भवति।यत्र कृत्रिमतायाः सर्वथाऽभावो भवति। तस्मादेव स्वतः सिद्धो भावः(चेष्टा क्रिया वा) स्वभावपदेन व्यपदिश्यते। यश्च लोके तद्व्यक्तित्वस्य परिचायको भवति। यतोहि मनुष्यस्य हृदयावस्था दयाक्षमाकारुण्यादिगुणाः तद्गतेन स्वभावेन एव ज्ञायन्ते।यथोच्यते-
"वचनेषु च बुद्धौ च स्वभावे च चरित्रतः।
आहारे व्यवहारे च ज्ञायते हृदयं नृणाम्।।"
            विश्वस्मिन् लोकेऽस्मिन् त्रिविधस्वभावयुक्ता हि जनास्तिष्ठन्ति।तेषु केचन उत्तमस्वभावकाः,केचन मध्यमस्वभावकाः, केचन अधमस्वभावकाश्च।तेषु उत्तमस्वभावयुक्ता जना यथा वदन्ति तथैव व्यवहारे आचरन्ति तथैव कुर्वन्ति च। उच्यते हि-
"मनस्यैकं वचस्येकं कर्मण्येकं महात्मनाम्।
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद्दुरात्मनाम्।।"
             स्वभावेनैव मनुष्यस्य व्यक्तित्वस्य निर्धारणं भवति। यस्य जनस्य स्वभाव उत्कृष्टो भवति।तेन जनेन बहवः प्रभाविता भवन्ति तथा स जनः समेषां प्रियो भवति।
           लोके कश्चिदपि कस्यचिन्मित्रं रिपुर्वा न भवति। वस्तुतः कस्यचिज्जनस्य मित्रं रिपुर्वा तस्य जनस्य स्वभावेनैव जायन्ते।यथोक्तं वर्तते-
"न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः।
स्वभावेनैव जायन्ते मित्राणि रिपवस्तथा।।"
अन्यद्धि-
"स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम्।।"
      अस्यायं भावो यद् उपदेशेन(नीतिशास्त्रबोधनेन) स्वभावे वास्तविकं परिवर्तनं न जायते।यथा-जलस्य स्वभावः(धर्मो गुणो वा) शीतलत्वं वर्तते।जले प्रतप्ते सत्यपि किञ्चित् कालानन्तरं जले शीतलता स्वयमेव आयाति।तथैव उपदेशेन किञ्चित्कालं यावदेव व्यवहारभेदो भवति न तु सार्वकालिकः।
            लोके यो हि यस्य स्वभावः सः जीवो निजस्वाभावानुगुणे व्यवहार एव आनन्दमनुभवति। वस्तुतः सः जीवो
निजस्वभावस्य परित्यागे समर्थो न भवति।उक्तञ्च-
"व्याघ्रः सेवति काननं च गहनं सिंहो गुहां सेवते,
हंसः सेवति पद्मिनीं कुसुमितां गृध्रः श्मशानस्थलीम्।
साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनम्।
या यस्य स्वभावजनिता केनापि न त्यज्यते।।"
अन्यच्च-
"निम्नोन्नतं वक्ष्यति को जलानां,
विचित्रभावं मृगपक्षिणाञ्च।
माधुर्यमिक्षौ कटुतां च निम्बे ,
स्वभावतः सर्वमिदं हि सिद्धम्।।"
             उपर्युक्ततथ्यानां पर्यालोचनया वक्तुं शक्यते यद् याथार्थ्येन स्वभावोऽपरिवर्तनशीलो नैसर्गिको भवति।यो यस्य स्वभावः स जनस्तथैव आचरति।न तत्र विकारे सति आचरणे भेदो भवति।स्वभावस्य महत्वं वर्णयता केनचित् कविनोक्तं वर्तते यत्-
"हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः।
नीरक्षीरविवेके तु हंसो हंसो बको बकः।।"
अन्यच्च-
"काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
सम्प्राप्ते वसन्तर्तौ काकः काकः पिकः पिकः।।"
          इत्थं सारांशरूपं स्पष्टं भवति यत् "स्वभावो हि दुरतिक्रमः"इति शम्।
        लेखकः-दीपककुमारचौधरी
       दीपकवात्स्यः(संस्कृतशोधार्थी)
स्वच्छभाषाभियानम् सुरभारतीसमुपासकाः
संस्कृतभारती

Comments

Popular posts from this blog

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)