अन्तर्भावितण्यर्था:"-

"अन्तर्भावितण्यर्था:"-अन्तः(मध्ये) भावितः अनुप्रविष्टः (कृतः,कल्पितो,निर्धारितः सम्पादितो वा) ण्यर्थः (णिचोऽर्थः)।यस्मिन् धातौ सोऽन्तर्भावितन्यर्थः।
"हेतुमति च"(अष्टाध्यायी-३.१.२६) इति पाणिनिसूत्रेण प्रवर्तितप्रयोजकणिचोऽभिधेयार्थश्च।
अयमाशयो यद् यत्र णिच्प्रत्ययो न वर्तते पुनरपि तत्र तदर्थो गृह्यते,अर्थात्  णिच्प्रययं  विनापि णिचोऽर्थो यत्र समापतति तत्र अन्तर्भावितण्यर्थत्वम् अङ्गीक्रियते।एतेनाकर्मकधातोरपि सकर्मकत्वं कल्प्यते।
"राजनि युधि कृञः" 
(अष्टाध्यायी-३.२.९५) इति सूत्रे काशिकायामुच्यते-
"ननु च युधिरकर्मकः? अन्तर्भावितण्यर्थः सकर्मको भवति" इति (काशिका)।
युध सम्प्रहारे" इति दिवादिगण आत्मनेपदी अकर्मकोऽनिट् धातुर्वर्तते।
युधधातोरकर्मकत्वात्
"राजन्शब्दे कर्मण्युपपदे युध्यतेः करोतेश्च क्वनिप् प्रत्ययो भवति" इति वृत्तौ कर्मोल्लेखो न सङ्गच्छत इति तदाशयः।
अन्यद्धि- 
"ननु च युधिरकर्मक इति।तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः।अन्तर्भावितण्यर्थ इति।अनेकार्थत्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः" इति (पदमञ्जरी)।
तथाहि -
"युधिरन्तर्भावितण्यर्थः" इति (सिद्धान्तकौमुदी)।
 इत्यादिभिर्ग्रन्थप्रमाणैरिदं ज्ञायते यद् अन्तर्भावितण्यर्थशब्देबहुव्रीहिसमासः,धातुश्चान्यपदार्थः।पदमञ्जरीकृन्मते धातूनामन्तर्भावितण्यर्थत्वञ्च धातूनामनेकार्थत्वाल्लक्षणया वा भवति।
पुनश्च-
नन्दिकेश्वरकृतकाशिकायामुल्लिखितं पद्यमेकम्-
"नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥"
इति पद्ये "ननाद" इत्यस्य "नादयामास" इति 
 अन्तर्भावितण्यर्थो गृह्यते।
यतोहि पाणिनिधातुपाठे "णद अव्यक्ते शब्दे" (भ्वादिगणः परस्मैपदी अकर्मकः सेट् ) इति धातुरुपदिश्यते।णदधातोरकर्मकत्वाद् यदा "ढक्काम् ननाद" इत्यत्रानन्वयापत्तिर्जायते तथात्र द्वितीयाविभक्तिर्न सिध्यति।तदा अन्तर्भावितण्यर्थं स्वीकृत्य तद्वारणं कुर्वन्ति बुधा वैयाकरणाः।तदित्थं ढक्का नदति स्वयमेव,तां नादयति(नदितुं प्रेरयति)नटराजराजः साक्षान्महेश्वरः।तदेवं नटराजराजः महादेवः ढक्कां नादयामास इत्यर्थं विचिन्त्य अत्रान्तर्भावितण्यर्थत्वम् कल्पयन्ति।

"उपाच्च"(अष्टाध्यायी-१.३.८४) इति सूत्रव्याख्यायां काशिकायां तदित्थमुच्यते-
"उपपूर्वाद् रमतेः परस्मैपदं भवति। देवदत्तमुपरमति। यज्ञदत्तमुपरमति। उपरमयतीति यावत्।अन्तर्भावितण्यर्थोऽत्र रमिः"(काशिका)।अत्र पुनर्जिज्ञासोद्भवति-
धातुपाठे "रमु क्रीडायाम्" (भ्वादिगण आत्मनेपदी अकर्मकोऽनिट् धातुः निर्दिश्यते।उपपूर्वकरमिधातोकर्मकत्वेनैव विनाशार्थे व्यवहारो वर्तते।कथं पुनः द्वितीया विभक्तिः सिध्यति।अत्र मानम्- 
"ननु चोपपूर्वो रमिरकर्मक एव भवति।तथा ह्युपपूर्वस्यास्य विनाशोऽर्थो भवति।यथा- उपरतानि, नष्टानीति गम्यते।निवृत्तिर्वा भवति,स्वाध्यायादुपरमते,निवर्तत इति गम्यते।न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते।तत्कथं सकर्मकस्योदाहरणं युज्यत इत्याह - 'उपरमयतीति यावत्' इति।एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति।अकर्मको हि धातुण्यर्थे वर्तमानः 
सकर्मको भवति" इति (न्यासः)।
अन्यत्र चोक्तम्- 
"उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्,उपरतो निधनादिदि।न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते।तत्कथं सकर्मकस्योदाहरणम्?अत आह- उपरमयति यावदिति।कथं पुनरण्यन्तो ण्यर्थे वर्तते?अत आह-अन्तर्भावितण्यर्थ" इति (पदमञ्जरी)।
तदित्थम् अन्तर्भावितण्यर्थमपि स्वीकर्तुं शक्यते धातूनामनेकार्थत्वादिति भावः।
तस्माद् "उपरमति" इत्यस्य "उपरमो विरामोऽवसानम्" इत्यर्थं परित्यज्य
उपरमयन्ति विरमयन्ति,अवसाययन्ति इत्यर्थोऽन्तर्भावितण्यर्थत्वादङ्गीक्रियते।

"तेन निर्वृत्तम्"अष्टाध्यायी-४.२.६८) इति
 सूत्रे प्रयुक्ते "निर्वृत्तम्" इति कर्मणि निष्ठासञ्ज्ञकः क्तप्रत्ययो वर्तते।
अत्रेयं जिज्ञासा भवति यत् पाणिनिधातुपाठे "वृतु वर्तने" इति भ्वादिगण आत्मनेपदी अकर्मको धातुः पठ्यते।अकर्मत्वात् ततः कर्मणि निष्ठाप्रत्ययः कुतः।तदैवमुच्यते यदत्र अन्तर्भावितण्यर्थो वर्तते।काशिकाया न्यासव्याख्यायां पुनरिदमुच्यते-
"यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कर्तरि निष्ठा,यदा कर्तरि तदाऽन्तर्भावितण्यर्थत्वात्कर्मणि।अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति" इति (न्यासः)
तथाहि-
"निर्वृत्तमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः" इति (पदमञ्जरी)।
पुनश्च-
"तेन निर्वृत्तम्।अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्त:" इति (तत्त्वबोधिनी)।
तस्माद्धि निर्वृत्तमिति पदं सम्पादितं निष्पादितं निर्मितं वेत्यर्थवाचकम्।यथा-
सहस्रेण निर्वृत्ता साहस्री परिखा।अत्र हेत्वर्थे तृतीया।परिखानिर्माणार्थं सहस्रजनानाम् साहाय्यमुपलब्धम् इत्यर्थः।
कुशाम्बेन निर्वृत्ता नगरी।अत्र कर्तरि तृतीया।
कुशाम्बनाम्ना राज्ञा निर्मिता नगरी इत्यर्थः।

"ब्रह्मा"-बृंहति वर्धयति प्रजा ब्रह्मा इति व्युत्पत्त्या "बृहि बृद्धौ" इति धातोः 
"बृंहेर्नोऽच्च"(उणादिसूत्रम्-४.१४५) इत्युणादिसूत्रेण मनिन्प्रत्यये नकारस्याकारे रत्वे च कृते ब्रह्मेति सिध्यति।धातुपाठे"बृहि उद्यमने" इति तुदादिगणोऽकर्मकः परस्मैपदी सेट् धातुरवलोक्यते।अतः धातोरकर्मकत्वात् "बृंहति वर्धयति प्रजाः" इत्यमरटीकायां या व्युत्पत्तिः दर्शिता सा कथं समीचीनेत्याकाङ्क्षायां टीकाकारः समादधति यदत्र अन्तर्भावितण्यर्थो वर्तते।यतो धातूनामनेकार्थत्वमिति वैयाकरणानां राद्धान्तानुसारम्
अन्तर्भावितण्यर्थेऽकर्मकधातुरपि सकर्मको भवति।तस्मात् "बृंहति" इति व्युत्पत्त्या निष्पन्नो "ब्रह्मा" सृष्टिकर्मणा प्रजाः वर्धयति ,संसारचक्रं समेधयति चेत्यर्थः सङ्गच्छते।

"सारथिः"-"सरति अश्वान्" इति व्युत्पत्त्या "सृ गतौ" इति "सर्त्तेर्णिच्च"(उणादि-४.३९) इत्युणादिसूत्रेण  णिच्प्रत्यये अथिन्प्रत्यये च सारथिरिति सिध्यति।अत्रापि अन्तर्भावितण्यर्थादेव सारथेः "रथादिघोटकनियोगकर्त्ता" इत्यर्थः स्वीक्रियते।तस्मात् "सरति अश्वान्" इति विग्रहवाक्यस्य "सारयति अश्वान्" इत्यर्थः सङ्गच्छते।

केचन धातवः स्वार्थे(प्रकृत्यर्थे) सन्तोऽपि णिजर्थं बोधयति।तथापि रूपन्तु णिजन्तं न भवति।एते "अन्तर्भावितण्यर्था:" इत्युच्यन्ते।एतेषु धातुषु ण्यर्थोऽन्तर्भावितो भवति धातूनामनेकार्थत्वातदिति तात्पर्यम् वर्तते।
यथा- "शम्(कल्याणं मङ्गलम्) भावयति कल्पयति" इति शम्भुः।धातुपाठे "भू सत्तायाम्" इति भ्वादिगणः परस्मैपदी अकर्मकः सेट् धातुः पठ्यते।भूधातोरकर्मकत्वादत्र कर्मव्युत्पत्तिः कथं सिध्यतीत्यकाङ्क्षायामुच्यते
"वस्तुतस्तु भवतेः(अण्यन्तस्य) एव डुप्रत्ययः।अर्थस्तु भावयतीति।एवं 'भवति' इत्यस्य 'भावयति' इत्यर्थ उच्यत,इत्यत अत्र अन्तर्भाविण्यर्थता इति (शुद्धिकौमुदी)।
यतोहि अकर्मकोऽपि धातुः ण्यर्थे सकर्मको भवतीति स्पष्टमेव।तदाह-
"अकर्मका अपि अन्तर्भाविता ण्यर्थाः सकर्मकाः भवन्ति" इति (न्यासः)।








Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)