"लक्षणास्वरूपविमर्शः"

"लक्षणास्वरूपविमर्शः"
"अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।"
        (वाक्यपदीयम्, ब्रह्मकाण्डम्-१३)
अन्यच्च,
"इदमन्धन्तमः कृत्स्नं जायते भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।"
      (काव्यादर्शः, प्रथमः परिच्छेदः -३)
          उपर्युक्तशास्त्रवचनप्रामाण्यात् ज्ञायते यत् सर्वोऽपि लोकयात्रासम्पादको जागतिको व्यवहारः शब्दायतनः (शब्दायत्तः शब्दमूलो वा)।तत्रापि तदर्थज्ञानं विना न साधुतया लोकप्रवृत्तिः।सर्वा अपि अर्थजातयः शब्दाकृतिनिबन्धिता एव।न हि कश्चित्पदार्थः किमपि ज्ञानं वा विद्यते यच्छब्दानुविद्धं न भवेत्। तदुक्तं हरिणा-
"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।"
अर्थज्ञानञ्च शब्दज्ञानाधीनम्। शब्दार्थज्ञानं शब्दात् जायमानो बोधः शाब्दबोधपदेनाभिधीयते। शाब्दबोधज्ञानाय वृत्तिज्ञानं नितरामपेक्षते। तदुक्तं मञ्जूषायाम्-
"तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः।"
अयं भावः-
गोत्वधर्मावच्छिन्नगोविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति गोत्वधर्मावच्छिन्नगोनिरूपितवृत्तिविशिष्टज्ञानं हेतुः।"
"वृत्तित्वन्तु शाब्दबोधजनकपदपदार्थसम्बन्धत्वम्।"
येन व्यापारेण शब्दः स्वीयमर्थं बोधयति, स व्यापारो वृत्तिः पदार्थविवरणं वृत्तिरिति।सा च वृत्तिः शास्त्रान्तरेषु भिन्नभिन्नप्रकारिका वर्तते।न्याये मीमांसायाञ्च शक्तिर्लक्षणा च वृत्तिर्द्विधा, व्याकरणे शक्तिर्व्यञ्जना च वृत्तिर्द्विधा, साहित्ये अभिधालक्षणाव्यञ्जनाभेदेन वृत्तेस्त्रैविध्यम्। अत्र तावत् लक्षणास्वरूपविमर्शः प्रस्तूयते।
         तत्र किन्नाम लक्षणा इत्याकाङ्क्षायां "स्वशक्यसम्बन्धो लक्षणा" इति नैयायिकाः।अत्र स्वपदेन तस्यैव ग्रहणं यच्च लाक्षणिकत्वेनाभिप्रेतम्। तस्य यः शक्योऽर्थस्तेन सह यः सम्बन्धः सः लक्षणापदेनावबुध्यते।तद्यथा-"गङ्गायां घोषः"इति वाक्ये स्वपदेन गङ्गापदं,तच्छक्यः भगीरथरथखातावच्छिन्नजलप्रवाहविशेषस्तेन सह यः सामीप्यरूपः सम्बन्धः तीरे(तटे) विद्यते।अतो गङ्गापदस्य गङ्गा-तीरे(तटे) लक्षणा भवतीति लक्षणालक्षणसमन्वयः।मीमांसकास्तु "स्वबोध्यसम्बन्धो लक्षणा"इति अङ्गीकुर्वन्ति,"गभीरायां नद्यां घोषः"इत्यादिवाक्यानुरोधात्। तदुक्तं मञ्जूषायाम्-"न तावद् गभीरपदं तीरलक्षकं नद्यामित्यनन्वयापत्तेः।न हि तीरं नदी ,अत एव न नदीपदेऽपि गभीरपदार्थानन्वयात्,न हि तीरं गभीरम्।न च प्रत्येकं पदद्वये सा(लक्षणा) विशिष्टनदीबोधापत्तेः।तस्मात्समुदायबोध्यगभीरत्वविशिष्टनदीपदार्थः,तत्सम्बन्धो लक्षणा"इति मीमांसका आमनन्ति।
           लक्षणायाः का आवश्यकता? इति चेत् "गङ्गायां घोषः इति वाक्यादौ गङ्गादिपदं भगीरथरथखातावच्छिन्नजलप्रवाहविशेषादिबोधकम्,तथा घोषादिपदम् आभीरपल्ल्यादिवाचकम्।जलप्रवाहादौ घोषादिपदार्थस्य अवस्थानं न भवेद् अर्थात् अन्वयो न सम्भवेत्।अतो गङ्गापदेन तत्तीरं बोद्धुं लक्षणाशक्तेरावश्यकता भवति।"गौर्वाहीक"इत्यादौ अपि लक्षणा बोध्या।न च गोत्वे गृहीता शक्तिर्व्यक्तिमिव तत्सदृशमपि वाहीकं बोधयितुं शक्ता स्याल्लक्षणायाः काऽवश्यकतेति वाच्यम्?,
"सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति"इति न्यायाद् गोशब्देन गोशब्दार्थमात्रबोधनेन शक्तेर्विरतत्वात् "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः"इति न्यायेन विरतायाश्च शक्तेः पुनरुत्थानाभावदन्यार्थबोधनायतदावश्यकत्वात्।"
             अत एव लक्षणाशक्तेर्बीजरूपे अन्वयानुपपत्तिसन्धानमेव नैयायिकैरङ्गीक्रियते।अस्यायं भावः-जलप्रवाहविशेषगङ्गादौ आभीरपल्ल्यादिबोधकघोषादि-पदार्थस्य स्थितिर्न स्याद् अर्थात् अन्वयानुपपत्तिः स्यात्।अतस्तदेव लक्षणाबीजम्।परं नागेशेन मञ्जूषायां तन्नाद्रियते "गङ्गायां घोषः" इत्यादौ घोषादिपदे एव मकरादिलक्षणापत्तिस्तावताऽप्यन्वयानुपपत्तिपरिहारसम्भवात्। एवं "गङ्गायां पापी गच्छति" इत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च। अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान्न दोषः।"
तदित्थं मञ्जूषायां प्रपञ्चितम्-
"वस्तुतस्तु तात्पर्यानुपपत्तिसन्धानमेव लक्षणाबीजम्।" "नक्षत्रं दृष्ट्वा वाचं विसृजेद्" इत्यत्रान्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वीकारात्।एकानुगमकस्वीकारे निर्वाहेऽनेकानुगमकस्वीकारे गौरवाच्च।"तदित्थं भाषापरिच्छेदे विश्वनाथपञ्चाननेन प्रतिपादितम्-
"लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तित:।"
           सा च लक्षणा तात्स्थ्यादिनिमित्तिका। तदुक्तं मञ्जूषायाम्-
"तात्स्थ्यात्तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च।
तत्साहचर्यात्तादर्थ्याज्ज्ञेया वै लक्षणा बुधैः।।"
१.तात्स्थ्यनिमित्तिका लक्षणा-*"मञ्चाः क्रोशन्ति" इत्यत्र शक्यार्थस्य मञ्चस्य अचेतनत्वेन क्रोशनक्रियायाम् अन्वयाऽसम्भवाल्लक्षणया तत्र मञ्चे उपविष्टा ये पुरुषास्तेषां बोधो भवति।
*"ग्रामः पलायितः"इति वाक्ये अचेतनस्य ग्रामस्य पलायनकर्तृकत्वाभावाल्लक्षणया ग्रामस्था ये पुरुषास्ते पलायिता इत्यर्थस्य बोधः।
२.ताद्धर्म्यनिमित्तिका लक्षणा-
*"सिंहो माणवकः"इत्यत्र यो माणवकः सः सिंहो नास्ति इति सिंहपदशक्यस्य घातुकवन्यपशुविशेषस्य माणवके अभेदेनाऽन्वयासम्भवात् सिंहे ये क्रौर्यादिधर्मास्तेषां माणवकेऽपि दर्शनाल्लक्षणया "सिंहसदृशो माणवकः"इति बोधः।
*"गौर्वाहीक:" इत्यत्र वाहीके गोवृत्तिजाड्यमान्द्यादिधर्मदर्शनात् लक्षणया "गोसदृशो वाहीकः"इति बोधो जायते।
३.तत्सामीप्यनिमित्तिका लक्षणा-
"गङ्गायां घोषः" इत्यत्र शक्यार्थस्य गङ्गापदवाच्यार्थस्य जलप्रवाहविशेषस्य घोषेऽवृत्तितयाऽन्वयाऽसम्भवाल्लक्षणया "गङ्गातटे घोषः"इति बोधः।
४.तात्साहचर्यनिमित्तिका लक्षणा-
*"यष्टीः प्रवेशय" इत्यत्र यष्टीनाम् अचेतनतया प्रवेशनक्रियायाम् अन्वयाऽसम्भवात् तत्सहचरितत्वेन लक्षणया "यष्टिसहितान् पुरुषान् प्रवेशय"इत्यर्थो बुध्यते।
५.तादर्थ्यनिमित्तिका लक्षणा-
*"इन्द्रार्था स्थूणा इन्द्रः" इत्यत्र इन्द्रपदस्य स्थूणापदार्थस्तम्भेन साकम् अभेदेनाऽन्वयाऽसम्भवाद् इन्द्रोद्देश्यकयाज्ञीयपशुबन्धनोपकारकत्वेन इन्द्रोपकारकत्वेन पर्य्यवसानाद् इन्द्रोपकारके लक्षणया "इन्द्रोपकारिका स्थूणा"इति बोधः।
               सा च लक्षणा द्विविधा शुद्धागौणीभेदात् "स्वनिरूपितसादृश्याधिकरणत्व-सम्बन्धेन  शक्यसम्बन्ध्यर्थप्रतिपादिका गौणी।"यथा-सिंहो माणवकः, गौर्वाहीकश्च। तदतिरिक्तसम्बन्धेन (सादृश्यातिरिक्तसम्बन्धेन) तत्प्रतिपादिका शुद्धा।"
सादृश्यातिरिक्तसम्बन्धे निम्नलिखितसम्बन्धा अन्तर्भवन्ति।
१.कार्यकारणभावलक्षणसम्बन्धः-"आयुर्वै घृतम्" इत्यत्र "आयुष्कारणं घृतम्" इत्यर्थबोधः।
२.स्वस्वामिभावलक्षणसम्बन्धः-
"राजाऽसौ गच्छति"इत्यत्र "राजपुरुषो गच्छति"इति बोधः।
३.आधाराधेयभावलक्षणसम्बन्धः-
"गङ्गायां घोषः" इत्यत्र "गङ्गातटे घोषः" इत्यर्थप्रत्ययः।
४.अवयवावयविभावलक्षणसम्बन्धः- "हस्तोऽयम्" इत्यत्र अग्रमात्रावयवविभाग इत्यर्थप्रतीतिः।
५.तात्कर्म्यलक्षणसम्बन्धः-
"ब्राह्मणोऽपि तक्षाऽसौ"इत्यत्र "ब्राह्मणः सन्नपि असौ तक्षकारः वर्तते"इत्यर्थबोधः।
६.तादर्थ्यलक्षणसम्बन्धः-"अमी इन्द्राः"इत्यत्र "इन्द्रार्थाः स्तम्भाः"इत्यर्थबोधः।
              प्रकारान्तरेण लक्षणा द्विविधा जहत्स्वार्था अजहत्स्वार्था च।तत्र 
"स्वार्थसंवलितपरार्थाभिधायिका अजहत्स्वार्था।"जहत्(त्यजत्) स्वं(पदम्) यमर्थं स जहत्स्वः(अर्थः)।जहत्स्वोऽर्थो यस्यां लक्षणायां सा जहत्स्वार्था लक्षणा।न जहत्स्वार्था अजहत्स्वार्था" इति व्युत्पत्तिबलात्।न जहति पदानि स्वार्थं यत्र सा अजहत्स्वार्था इति फलितार्थकथनम्।यथा-
*"यष्टीः प्रवेशय" इत्यत्र "यष्टिसहितान् पुरुषान् प्रवेशय"इति बोधः।
*"काकेभ्यो दधि रक्ष्यताम्" इत्यत्र वाक्यं लक्षणया "काकसहितस्य सर्वदध्युपघातकानां बोधं कारयति।"
*"कुन्ताः प्रविशन्ति" इत्यस्य "कुन्तधारिणः प्रविशन्ति"इति बोधः।
*"क्षत्रिणो यान्ति" इत्यस्य "क्षत्रसहितानां क्षत्ररहितानाञ्च बोधः।"
            "स्वार्थपरित्यागेन इतरार्थाभिधायिका जहत्स्वार्था।"यथा-"गङ्गायां  घोषः" इत्यत्र प्रवाहे घोषाधिकरणत्वबाधाद् गङ्गापदेन गङ्गातीरं लक्ष्यते।
             त्वचा ज्ञातमित्यादौ त्वगिन्द्रिये निरूढा लक्षणा।"असति प्रयोजने शक्यार्थबाधप्रतिसन्धानपूर्वकं तत्सम्बन्ध्यपरार्थबोधे निरूढा लक्षणा" इति व्यवहारः।
                प्रकारान्तरेणापि पुनर्लक्षणा द्विविधा।
"प्रयोजनवती रूढा लक्षणा द्विविधा मता।"
साहित्यदर्पणे विश्वनाथोऽप्याह-
"मुख्यार्थबाधे तद्युक्तो ययाऽन्योर्थः प्रतीयते।
रूढेः प्रयोजनाद्वासौ लक्षणाशक्तिरर्पिता।।"
वाग्देवताऽवतारो मम्मटोऽपि काव्यप्रकाशे प्रत्यपादयत्-
"मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया।।"
           "तत्त्वमसि" इति महावाक्ये जहदजहल्लक्षणा इति वदन्ति केचिद्वेदान्तिनः। अत्र किञ्चिद् अंशस्य ग्रहणं किञ्चिद् अंशस्य परित्यागश्च क्रियते।तत्पदवाच्यस्य सर्वज्ञत्वावच्छिन्ने त्वत्पदस्य च अल्पज्ञत्वावच्छिन्ने चैतन्ये शक्तिः। एनयोः ऐक्यायोगादैक्यसिध्यर्थं सर्वज्ञत्वाल्पज्ञत्वयोस्त्यागेन शुद्धचैतन्ययोरभेदान्वयबोधः"इति स्वीकुर्वन्ति वृद्धाः।
          द्विरेफपदस्य स्वलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लक्षितलक्षणेति व्यवहारः।"लक्षितस्य लक्षणा"इति समासव्युत्पत्तिबलात्।अस्यायं भावः-द्विरेफपदस्य "द्वौ रेफौ यस्मिन्"इति बहुव्रीहिणा रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्त्या द्विरेफपदबोध्यं यद् भ्रमरपदं तद्वाच्यत्वस्य पुष्परसास्वादकर्तृकृष्णवर्णपतङ्गे सत्त्वाल्लक्षितलक्षणेति व्यवहारः।स्वबोध्यपदवाच्यत्वमत्र सम्बन्धः।

वैयाकरणास्तु लक्षणां नाङ्गीकुर्वन्ति लक्षणास्वीकारे गौरवाद् व्यभिचारदोषाच्च।
*लक्षणास्वीकारे गौरवदोषो व्यभिचारदोषश्च-
               व्याकरणनिकाये "शाब्दबोधे शक्तिजन्योपस्थितिः कारणम्।"परं नैयायिकनये "शाब्दबोधे शक्तिजन्योपस्थितिः लक्षणाजन्योपस्थितिश्च कारणम्।"अतः कार्यकारणभावद्वयकल्पने गौरवम्। पुनश्च "गङ्गायां घोषः" इति वाक्ये लक्षणाजन्योपस्थित्या शाब्दबोधस्तथा "गङ्गातटे घोषः"इति वाक्ये शक्तिजन्योपस्थित्या शाब्दबोधः।प्रथमवाक्ये प्रथमकारणस्य तथा द्वितीयवाक्ये द्वितीयकारणस्य च परस्परं व्यभिचारो दृश्यते "कारणाभावे कार्यसत्त्वम् इति व्यतिरेकव्यभिचारलक्षणात्।"एतद्दोषपरिहारार्थम् "अव्यवहितोत्तरत्वम्"इति कारणदले योजनीयम् इति नैयायिकाः परिष्कुर्वन्ति।तदित्थं कार्यकारणभावस्वरूपम्-
*"गङ्गायां घोषः" इत्यत्र लक्षणाजन्योपस्थितेः अव्यवहितोत्तरे शाब्दबोधे लक्षणाजन्योपस्थितिः कारणम्।
*"गङ्गातटे घोषः" इत्यत्र शक्तिजन्योपस्थितेः अव्यवहितोत्तरे जायमाने शाब्दबोधे शक्तिजन्योपस्थितिः कारणम्।
परमेतेन अनन्तकार्यकारणभावः स्वीकार्यो भवेदिति महद्गौरवम् इति वैयाकरणा आक्षिपन्ति।
अन्यच्च,
*नैयायिकानये उपस्थितेः(पदार्थोपस्थितेः) अपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुद्वयं स्वीकार्यं भवेत्।
*शाब्दबोधवत् पदार्थोपस्थितौ अपि प्रत्येकं कार्यस्य परस्परं व्यभिचारः प्राग्वदेव। तत् तत्परिष्कर्तुम् "अव्यवहितोत्तरत्वम्"इति कारणदले योजनीयम्।तदित्थम्-
१.शक्तिज्ञानस्य अव्यवहितोत्तरजायमानोपस्थितौ शक्तिज्ञानं कारणम्।
२.लक्षणाज्ञानस्य अव्यवहितोत्तरजायमानोपस्थितौ लक्षणाज्ञानं कारणम्।
एतेनापि कार्यकारणभावानाम् आनन्त्यदोषः।
तदित्थं मञ्जूषायां नागेशेन प्रत्यपादि-"सति तात्पर्ये सर्वे सर्वार्थवाचकाः"इति भाष्याल्लक्षणया अभावात्।वृत्तिद्वयावच्छेदकद्वयकल्पने गौरवात्,जघन्यवृत्तिकल्पनाया अन्याय्यत्वाच्च।अयं भावः- शक्त्यैव कार्यनिर्वाहे वृत्तिद्वयकल्पनं जघन्यमिति जघन्यवृत्तिकल्पनाया अनुपयुक्तत्वम्(अनौचित्यम्) इति। अत्र नैयायिका आक्षिपन्ति यत् "कथं तर्हि गङ्गापदात्तीरप्रत्ययः",तदा वैयाकरणाः समादधति एतत्तु तव भ्रान्तिरेव"सति तात्पर्ये सर्वे सर्वार्थवाचकाः"इति भाष्यपर्यालोचनया पूर्वोपस्थितशक्तिसम्बन्धस्यैव वृत्तित्वकल्पनस्यौचित्यात्।
अन्यच्च समाधानं मञ्जूषायां प्रपञ्चितम्-
शक्तिर्द्विधा प्रसिद्धाऽप्रसिद्धा च।"आमन्दबुद्धिवेद्यात्वम् प्रसिद्धात्वम्।" तथा "सहृदयहृदयमात्रवेद्यात्वम् अप्रसिद्धात्वम्।"तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः,तीरादौ अप्रसिद्धेति किमनुपपन्नम्।
       ननु "सर्वे सर्वार्थवाचकाः" इति चेद् ब्रूषे तर्हि घटपदात्पटप्रत्ययः किन्न स्यादिति चेन्न।सति तात्पर्ये इत्युक्तत्वात्तात्पर्याभावाच्च। तात्पर्यं चात्र ऐश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिर्लब्धम् इति।
           शक्तिज्ञानं मातृपितृगुर्वादीनां व्यवहाराज्जायते। अयं व्यवहारः प्रसिद्धाशक्तौ अप्रसिद्धाशक्तौ चोभयत्र समानरूपेण तिष्ठति। अतो "गङ्गायां घोषः" इत्यत्र गङ्गापदेन तीरार्थस्वीकारे गुर्वादीनां व्यवहार एव कारणभूतः।तदित्थं स्पष्टं भवति यद् वृद्धादिव्यवहार एव प्रसिद्धाशक्तेः अप्रसिद्धाशक्तेश्च ज्ञानं कारयति।अप्रसिद्धाशक्तेरेव अपरं नाम लक्षणा।सा न शक्तिव्यतिरिक्ता शक्तिभिन्नेत्यर्थः।सा शक्तिरेवेति भावः।अतो वैयाकरणनये लक्षणावृत्तेः स्वीकारो नाङ्गीक्रियते इति शम्।
लेखक-दीपककुमारचौधरी
 (दीपकवात्स्य:-संस्कृतशोधार्थी)
राणा संग्राम सिंह इण्टर काॅलेज,बिसाहड़ा
  गौतमबुद्धनगर, उत्तरप्रदेश-201008

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)