"उत्तररामचरिते प्रयुक्ततिङन्तपदानां शब्दशास्त्रीयदृष्ट्या समीक्षणम्"
"उत्तररामचरिते प्रयुक्ततिङन्तपदानां शब्दशास्त्रीयदृष्ट्या समीक्षणम्"
"नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं लोके शक्तिस्तत्र सुदुर्लभा।।"
(कवित्वं दुर्लभं तत्र शक्तिस्ततोऽपि दुर्लभा)
(अग्निपुराणम्)
निखिलप्रपञ्चमयेऽस्मन् चराचरात्मके जगति मनुष्ययोनौ जन्म दुर्लभं, तत्रापि (मनुष्यत्वे सत्यपि) मनुष्या विद्यावन्त एव स्युरिति ततोऽपि दुष्प्रापम्। सत्स्वपि विद्यावत्सु जनेषु कवित्वं तु महद् दुर्लभम्।कविः स्ववाग्वैभवेन ब्रह्मकृतस्य निखिलप्रपञ्चात्मकजगतः पृथगेकां विनूतनाम्(अभिनवाम्) सृष्टिं रचयति।कविकृत्सृष्टिर्जगदाह्लादकरी परमानन्दयी च भवति।सा च सृष्टिर्लोके काव्यपदेन व्यवह्रियते। अतः कवेस्तुलना सृष्टिकर्त्रा ब्रह्मणा समं क्रियते। यथोक्तं निखिलभारतीयविद्यानां विश्वकोशात्मके अग्निपुराणे-
"अपारे काव्यसंसारे कविरेकः प्रजापतिः।
यथास्मै रोचते विश्वं तथेदं परिवर्तते।।"
(अग्निपुराणम्-३३९/१०)
कवेरिदं कर्म (भावः कृतिर्वा) काव्यम्। काव्यं लोकानुरञ्जकं लोकोत्तरचमत्कारकारि च भवति। काव्यं विविधभावरसालङ्कारादिभिः सर्वजनचेतांसि आकर्षयन्ति यतः काव्यं हृदयावर्जकं मनोहारि च भवति।वाग्देवतावतारविरुदप्रथितेन मम्मटाचार्येण तदित्थं प्रत्यपादि-
"लोकोत्तरवर्णननिपुणकविकर्म काव्यम्" इति (काव्यप्रकाशः)।
काव्यसम्प्रदायप्रवक्तृषु ध्वनिप्रस्थानप्रवर्तक आनन्दवर्धनाचार्योऽपि काव्यलक्षणं निरूपयन् ब्रूते-
"सहृदयहृदयाह्लादिशब्दार्थमयत्वमेव काव्यत्वम्"(ध्वन्यालोकः)।
काव्यजगति नाटकस्य स्थानं सर्वोपरि (सर्वश्रेष्ठम्) अत्यन्तं मनोहारि च वर्तते।"काव्येषु नाटकं रम्यम्"इति प्रसिद्धमाभणकमपि काव्येषु नाटकस्य वैशिष्ट्यम् इति प्रतिपादयति। अतः संस्कृतकाव्यसम्प्रदाये आदिमाचार्यरूपेण विश्वविश्रुतो नाट्यशास्त्रकारो भरताचार्यो नाट्यकाव्यस्य(नाटकस्य) प्रयोजनं निरूपयन् नाटकस्य सर्वश्रेष्ठतां सर्वग्राह्यतां लोकमनोहार्यञ्च ध्वनयति(सूचयति/प्रतिपादयति)। तद्यथा-
दुःखार्त्तानां श्रमार्त्तानां शोकार्त्तानां तपस्विनाम्।
विश्रान्तिजननं लोके नाट्यमेतद् भविष्यति।।
धर्मयशस्यमायुष्यं हितं बुद्धिविवर्धनम्।
लोकोपदेशजननं नाट्यमेतद् भविष्यति।।
वेदविद्येतिहासानामाख्यानपरिकल्पनम्।
विनोदजननं लोके नाट्यमेतद् भविष्यति।।
(नाट्यशास्त्रम्-१/१११-११२-११६)
उत्तमाधममध्यानां नराणां कर्मसंश्रयम्।
हितोपदेशजननं धृतिक्रीडासुखादिकृत्।।
कविकुलगुरुकालिदासेनापि नाट्यं प्रशंसता नाट्यस्य (नाटकस्य) सर्वोत्तमता निरूप्यते। तद्यथा-
नाट्यं भिन्नरुचेर्हि जनस्य बहुधाप्येकं समाराधनम्।
(मालविकाग्निमित्रनाटकम्)
नाट्यं न केवलं लोकानुरञ्जकतया मनोहरमेव अपितु पुरुषार्थसम्पादकं विदविद्येतिहासाख्यानकथानिरूपणेन लोके हितोपदेशजनकं भिन्नभिन्नानां रुचिवतां जनानामेकत्र एव विनोदजनकमपि।अतो भरताचार्येण नाटकस्य सञ्ज्ञा "सार्ववर्णिकवेदरूपेण" कृता।"त्रिवर्गसाधनं नाट्यम्"इति अग्निपुराणोक्तवचनमपि नाटकस्य माहात्म्यं ख्यापयति।"नाटकान्तं कवित्वम्"इति वचनेन ज्ञायते यन्नाटकं काव्योत्कर्षस्य कवेरुत्कृष्टतायाश्च चरमसीमा वर्तते। अर्थात् नाटकं कस्यचित् कवेः कवित्वप्रतिभामापको निकषः(कसौटी) वर्तते।वस्तुतस्तु यथा महाकविभासस्य प्रसिद्धिकारणभूताः तद्रचिता नाट्यग्रन्था
(स्वप्नवासवदत्तप्रभृतयः) एव, महाकविकालिदासस्यापि विश्वविश्रुतायाः ख्यातेः(कीर्ते:) कारणभूतं तद्रचितम् अनुपमं नाट्यग्रन्थरत्नम् "अभिज्ञानशाकुन्तलम्"इत्याख्यं नाटकमेव तद्वत् महाकविर्भवभूतेरपि अप्रतिमप्रतिष्ठाया मूलभूतं कारणं तत्कृतं नाटकम् "उत्तररामचरितम्"एव।संस्कृतनाट्यजगति श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो महाकविर्भवभूतिः भासकालिदासयोरिव शिखरायते(मुकुटायते)।भवभूतिरेक उत्कृष्टो नाट्यकविर्वर्तते।यो नाटके श्रृङ्गारो वीरश्च इत्यनयोरन्यतर एव अङ्गीरसो भवेदिति प्राचीनधारां परित्यज्य नवीनधारास्थापनं कृत्वा नाटके करुणरसस्य अङ्गीरसत्वेन मान्यताम् अङ्गीचकार इति उत्तररामचरिते प्रशस्तमेव।तद्यथा-
"एको रसः करुण एव निमित्तभेदाद् भिन्नःपृथक्पृथगिवाश्रयते विवर्तान्।"
भवभूतेः करुणरसस्य प्रशंसां कुर्वन्तो निगदन्ति समालोचकाः-
"कारुण्यं भवभूतिरेव तनुते"।
अपरञ्च,
"भवभूतेः सम्बन्धाद्भूधरभूतेव भारती भाति।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा।।"
(आर्यासप्तशत्यां गोवर्धनाचार्यः)
भवभूतिः स्वयमात्मानं कारुणिककविरूपेण उद्धोषयति-
"अपि ग्रावा रोदत्यपि दलति वज्रस्य हृदयम्"
(उत्तररामचरितम्-१/२८)
भवभूतिना विरचितासु कृतिषु तिस्रो नाट्यरचना उपलभ्यन्ते।तद्यथा-
१.मालतीमाधवम्
(प्रकरणम्-१० अङ्काः),
२.महावीरचरितम्
(नाटकम्-७ अङ्काः),
३.उत्तररामचरितम्
(नाटकम्-७अङ्काः) च।
एतेषु नाट्यग्रन्थेषु भवभूतेः ग्रन्थरत्नम् उत्तररामचरितं वर्तते।एतन्नाटकं महाकविभवभूतेः अप्रतिमप्रतिष्ठाया मुख्यं कारणम् अस्ति।उक्तञ्च-
"उत्तररामचरिते भवभूतिर्विशिष्यते।"(विक्रमार्कः)
(उत्तरे रामचरिते भवभूतिर्विशिष्यते।)
उत्तररामचरितं महाविभवभूतेः प्रौढतमा कृतिः सर्वान्तिमा सर्वश्रेष्ठा रचना च विद्यते।
रामस्य चरितमिति इति रामचरितम्। उत्तरं रामचरितं यस्मिन् तद् उत्तररामचरितं लक्षणया नाटकबोधकम्।
अथवा,
उत्तरं च तद् रामचरितम् इति उत्तररामचरितम्।तदधिकृत्य कृतं नाटकम् उत्तररामचरितम् इति समासविग्रहो ज्ञेयः।
उत्तररामचरितमेकं सप्ताङ्कं करुणरसप्रधानं नाटकं वर्तते।यत्र मर्यादापुरुषोत्तमस्य श्रीरामचन्द्रस्य जीवनोत्तरचरितस्य वर्णनं वर्तते।अतो महावीरचरितनाटकस्य उत्तरभाग उत्तररामचरितम् इति समालोचका वदन्ति। उत्तररामचरितस्य श्रेष्ठताम् अवलोक्य अनुसन्धानविषयरूपेण उत्तररामचरितम् एव स्वीकर्तुम् इष्टवान्।
"काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्"
इति नीतिशास्त्रवचनस्यायमभिप्रायो यद् विदुषां कालयापनं काव्यस्य शास्त्रस्य च मुहुर्मुहुरभ्यासेन भवति।मुहुर्मुहुः काव्यशास्त्रालोडनेन तत्रैव बुद्धिव्यापारेण काव्यगतो भावबोधः शास्त्रगतस्तत्वबोधश्च जायते।वस्तुतस्तु काव्यगतस्तत्वबोधः(भावबोधः) तावन्न भवति यावत् तत्प्रयुक्तानां सुबन्तानां तिङन्तानां सन्धिसमासकारकप्रत्ययानाञ्च ज्ञानं न जायते।तदर्थं व्याकरणज्ञानस्य अपेक्षा भवति। यथोक्तं हरिणा-
"अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते।
(वाक्यपदीयम्-ब्र.का-१३ कारिका)
महाभाष्येऽपि पस्पशाह्निके आनुषङ्गिकप्रयोजननिरूपणप्रसङ्गे यथोक्तं-
"उत त्वः पश्यन्न ददर्श वाचम्,
उत त्वः श्रृण्वन्न श्रृणोत्येनाम्।
उतो त्वस्मै तन्वं विसस्रे ,
जायेव पत्य उशती सुवासाः।।"
(ऋ.सं-१०/७१/४)
अन्यच्च,
यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्।।
(आनुषङ्गिकप्रयोजनम्-३)
यथा शरीरे मुखस्य प्रधानता वर्तते तथैव निखिलेऽपि वाङ्मये व्याकरणस्य प्रधानता वर्तते। मुखमिव प्रधानत्वाद् व्याकरणं वेदाङ्गमुखमुच्यते। तदुक्तं पाणिनिशिक्षायाम्-
"मुखं व्याकरणं स्मृतम्"(पा.शि.४२ कारिका) इति।अस्यायं भावो वर्तते यद् व्याकरणं वेदपुरुषस्य मुखं वर्तते अथ च वेदाङ्गेषु व्याकरणस्य मुखभूतं स्थानम् अर्थात् प्रधानं स्थानं विद्यते। तदुक्तं-
"षट्स्वङ्गेषु प्रधानं व्याकरणं, प्रधाने च कृतो यत्नः फलवान् भवति।"
"वाङ्मयमुभयथा शास्त्रं काव्यं च"
(काव्यमीमांसायां राजशेखरः) इत्यनेन वचनेन इदनमनुमीयते शास्त्रं काव्यं च परस्परं पूरकं वर्तते।वस्तुतस्तु शास्त्रस्य प्रयोगस्थलमेव काव्यादीनि। अतः शास्त्रकाव्ययोः कश्चन समीक्षणात्मको(विश्लेषणात्मको) महान् यत्नो विधेयो येन नवनवोन्मेषो भवेदिति गुरूणामादेशः।अतो मार्गदर्शकानाम् अस्मदादर्शभूतानां मार्गनिर्देशकानां गुरूणामनुमत्या शास्त्रकाव्ययोः विश्लेषणात्मकाध्ययनाय
शोधप्रबन्धार्थम्
"उत्तररामचरिते प्रयुक्ततिङन्तपदानां शब्दशास्त्रीयदृष्ट्या समीक्षणम्"इति विषयो निर्धारितः।
तत्र सत्स्वपि अनेकेषु शब्दशास्त्रीयचिन्तनेषु तिङन्तपदानां समीक्षणे(विश्लेषणे) किमर्थं प्रवृत्तिः इत्याकाङ्क्षा समुदेति चेद् उच्यते-
१."वाक्यं रसात्मकं काव्यम्"
(सा.द-प्र.परि.काव्यलक्षणम्)
इति विश्वनाथकाव्यलक्षणानुसारं रस एव आत्मा यस्य वाक्यस्य तद्वाक्यं काव्यम्।सारतो रसयुक्तं वाक्यं काव्यमिति स्फुटति।वाक्यप्रयोगे यदि तिङन्तस्य प्रयोगो न क्रियते तर्हि तद्वाक्यं पाण्डित्यपूर्णं चमत्कृत्याधायकञ्च नेति बुधैरङ्गीक्रियते।यथोक्तं-
"पदसमूहो वाक्यमर्थसमाप्तौ"इति।अस्यायं भावो यद् अर्थसमाप्तिस्तु तिङन्तपदानां व्यवहारेण(प्रयोगेण) एव जायते।तस्माद्वाक्ये काव्ये च तिङन्तस्यैव प्रधानता।वाक्यकारो वररुचिरपि वाक्यलक्षणं निरूपयन् तिङन्तस्य प्राधान्यं द्योतयति-
"एकतिङ्वाक्यम्"इति। अमरकोशकारोऽपि ब्रूते-
"सुप्तिङन्तचयो वाक्यम्"इति।तदित्थम्-"एकतिङन्तार्थमुख्यविशेष्यकं वाक्यम्"इति फलति।
२."सर्वेषां कारकाणां क्रियायामेवान्वयः"इति नियमात् सर्वेषां कारकाणाम् अन्ततः क्रियायामेव योगः (सम्बन्धः) विशेषणता च भवति।
"करोति कर्तृकर्मादिव्यपदेशान् इति कारकम्" तथा "करोति क्रियां निवर्तयतीति कारकम्"इति व्युत्पत्तिबलात् "क्रियान्वयित्वं क्रियाजनकत्वं वा कारकत्वम्" इति कारकलक्षणं स्फुटति। क्रियया वाचको धातुरेव। तदुक्तं महाभाष्ये "क्रियावचनो धातुः" तथा "भाववचनो धातुः"इति। तेन हि क्रियावाचकस्य धातोरुत्तरं जायमानानां तिङन्तानां महत्त्वं ध्वन्यते।
३."सर्वं नाम धातुजमाह(निरुक्ते शाकटायनमतम्)-अस्यायमाशयो यत् सुबन्तेषु धातुजशब्दानामेव आधिक्यात् प्रथमतो धातुज्ञानम् आवश्यकम्। लोके न केवलं धातुमात्रस्य प्रयोगं कर्तुं शक्नोति कश्चन जनः"अपदं न प्रयुञ्जीत"इति महाभाष्यवचनात् तस्मात् "न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्ययः"इति व्युत्पत्तिः स्फुटति।अतो धातौ पदत्वसिद्ध्यर्थं प्रयोगयोग्यतासम्पादनार्थञ्च तिङ्प्रत्यया योज्यन्ते ततः "सुप्तिङन्तं पदम्"इति सूत्रेण पदत्वसिद्धिस्ततो लोके प्रयोगार्हता।अनेनापि प्रधानता बुध्यते।
४.काव्यं भावप्रधानं (भावनाप्रधानम्) भवति।तत्प्राधान्येन क्रियया एव व्यज्यते।क्रियाऽपि द्विधा सिद्धा साध्या च। सिद्धाक्रियायां तावत् क्रियान्तराकाङ्क्षा भवति। सिद्धा क्रिया कृदुपस्थाप्या भवति।"पाकः"इति श्रवणानन्तरं कस्याश्चित् तिङन्तक्रियाया आकाङ्क्षा स्पष्टैव।यथा-पाको भवति अभवत् भविष्यति वा।
साध्याक्रियायां क्रियान्तराकाङ्क्षा न भवति। साध्या क्रिया तिङुपस्थाप्या भवति।तदुक्तं-
"कृदभिहितो भावो द्रव्यवत् प्रकाशते।"(महाभाष्यम्)
"असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते।
सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते।।
(वाक्यपदीयम्-२/११५)
तदित्थमुच्यते वैयाकरणभूषणसारे-
"क्रियान्तराकाङ्क्षानुत्थापकताऽवच्छेदकरूपं साध्यत्वत्वम्।
तिङुपस्थाप्यायां साध्याक्रियायां क्रियान्तराकाङ्क्षाभावात् अस्याः प्राधान्यम् ।तस्मात् तिङन्तपदानि अवश्यमेव ज्ञेयानि।
५."भावप्रधानमाख्यातम्"
(निरुक्तम्-१/१) इत्यत्र आख्यातपदेन धातोस्तिङन्तस्य च उभयोरेव ग्रहणं परम् "आख्यातमाख्यातेन क्रियासातत्ये" इति तत्पुरुषसमासविधायकवार्तिकेन आख्यातपदस्य वाच्यार्थः तिङन्तपदमेव गृह्यते।
"चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः"इति निरुक्तवचनेऽपि आख्यातस्यार्थः तिङन्तमेव।तस्मात् प्राधान्येन तिङन्तपदसमीक्षणं प्रस्तुतिविषयो निर्धारितः।
६.तिङ्प्रत्यया लकारार्थे भवन्ति।लकारार्थप्रक्रियायां विविधप्रयोगवैचित्र्यं दृश्यते।यथा अन्यस्य लकारार्थे तदितरस्य लकारस्य प्रयोगो भवति। तद्यथा-
(i)."स्मरसि कृष्ण! गोकुले वत्स्यामः" इत्युदाहरणे "वत्स्यामः:"इत्यत्र "अभिज्ञावचने ऌट्"इति सूत्रेण स्मृतिबोधिनि उपपदे भूतानद्यतनेऽर्थे लृट्लकारो विधीयते।अत्र अनद्यतनेऽर्थे प्राप्तस्य लङ्लकारस्य अपवादरूपो लृट्लकारो वर्तते।
(ii)."यजति स्म युधिष्ठिरः" इत्यत्र लिड्विषये अनद्यतनपरोक्षभूतकालेऽर्थे स्मयोगे लट्लकारो "लट् स्मे" इति सूत्रेण विधीयते।अत्र लिटः अपवादभूतो लट्लकारो विद्यते।
(iii)."कदाऽगतोऽसि?अयमागच्छामि,अयमागमं वा" तथा "कदा गमिष्यसि?एष गच्छामि गमिष्यामि वा" इत्यादिषु स्थलेषु वर्त्तमानेऽर्थे एव वैकल्पिकं लङ्लृटोर्विधानं "वर्तमानसामीप्ये वर्तमानवद्वा" इति सूत्रेण क्रियते।
(iv)."कृष्णं नमेच्चेत् सुखं यायात्, कृष्णं नंस्यति चेत्सुखं यास्यति"इ इत्यत्र हेतुहेतुमतोर्भविष्यत्यर्थे वैकल्पिकं लिङ्विधानं "हेतुहेतुमतोर्लिङ्"इति सूत्रेण विधीयते।
एतादृशां वैचित्र्याणां सम्यग्बोधार्थं तिङन्तपदानां समीक्षणं (विश्लेषणम्) नितराम् अपेक्ष्यते।
एतत्सर्वं भावं मनसि निधाय "उत्तररामचरिते प्रयुक्ततिङन्तपदानां शब्दशास्त्रीयदृष्ट्या समीक्षणम्" इति शोधप्रबन्धविषयो निर्धारित इति युक्तियुक्तं प्रतिभाति।
अत्र तावत् स्थालीपुलाकनन्यायेन केषाञ्चन उत्तररामचरिते प्रयुक्ततिङन्तपदानां शब्दशास्त्रीयदृष्ट्या समीक्षणं प्रस्तूयते-
*ग्लपयति-"ग्लै हर्षक्षये"इति भ्वादिगणीयधातोः णिचि सति "ग्लास्नुवमां च"इत्यनेन वार्तिकेन वैकल्पिकमित्त्वात् पाक्षिकह्रस्वे सति लटि प्रथमपुरुषैकवचने "ग्लपयति" इति रूपं,मित्त्वाभावे ह्रस्वाभावस्तस्माद् "ग्लापयति" इति रूपं सिद्ध्यति।हर्षक्षयस्यार्थो धातुक्षयः अर्थात् बलक्षयः इति ज्ञेयः।
अत्र "क्षि क्षये"इति धातोः प्रयोगं न कृत्वा महाकविः "ग्लै हर्षक्षये" इति धातोः प्रयोगं करोति किं तावद् वैशिष्ट्यम् चेदुच्यते-क्षयार्थकस्य क्षिधातोः प्रयोगो नाशार्थे अपचयार्थे वा भवति परं "ग्लपयति परिपाण्डु क्षाममस्याः शरीरम्"इति प्रकृतस्थले सीतायाः शरीरनाशो न जातः, अपितु प्रियजनविरहजन्याद् दीर्घदारुणशोकात् सीतायाः शरीरकान्तौ कश्चन ह्रासः समापतितः। तस्मादेव महाकविभवभूतिः "ग्लै हर्षक्षये" इति धातोः "ग्लपयति"इति प्रयोगं कृत्वा ज्ञापयति/बोधयति यत् सीतायाः प्रियमिलनजन्यहर्षे प्रियजनविरहजन्यक्षयवशात् शरीरकान्तौ ग्लानिरभवत्।
*प्रशास्महे-"आङ्शाशु इच्छायम्"(धातुः-१०२२) इति सिद्धान्तकोमुद्यामुल्लेखो दृश्यते। तत्रैव "आङ्पूर्वत्वं प्रायिकम्" इति सूचितम्। तस्मादत्र 'प्र'इत्युपसर्गपूर्वकात् "शासु अनुशिष्टौ"इति अदादिगणस्थाद् धातोर्लटि उत्तमपुरुषबहुवचने "प्रशास्महे"इति रूपं सिद्ध्यति।प्रसङ्गवशाद् धातूनामनेकार्थत्वाच्च निर्दिशामः कुर्मः कुर्महे वा इत्यर्थो बोध्यः। तस्मादेव "नमोवाकं प्रशास्महे" इत्यस्य 'नमश्शब्दस्य वचनं कुर्महे' इत्यर्थो बालमनोरमायां गृह्यते।
*उपतिष्ठत्स्व-वस्तुतः "ष्ठा गतिनिवृत्तौ" इति भ्वादिगणीयः परस्मैपदी धातुर्गतिस्थैर्ये वर्तते।परम् "उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्"इति वार्तिकेन 'उप'इत्युपसर्गपूर्वकात् ष्ठाधातुः देवपूजार्थे आत्मनेपदी भवति।ततो लोटि मध्यमपुरुषैकवचने "उपतिष्ठत्स्व"इति रूपम्। अभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीति तदर्थः। तस्मादेव पूजार्थमात्रकस्य पूजादिधातोः प्रयोगो महाकविभवभूतिना न कृत इति महाशयः।
*अध्यवात्सम्-
'अधि'इत्युपसर्गपूर्वात् "वस निवासे"इति भ्वादिगणीयधातोर्लुङि उत्तमपुरुषैकवचने 'अध्यवात्सम्' इति प्रयोगः सिध्यति।अत्र अनद्यतनार्थकस्य लङ्लकारस्य प्रयोगे कर्त्तव्ये सामान्यभूतार्थकस्य लुङ्लकारस्य प्रयोगेण महाकविभवभूतिर्ध्वनयति यत् प्रियाजनचिरविरहजन्यदारुणशोकाद् रामस्य मनोदशा अत्यधिकगभीरदुःखगमग्ना वर्तत इति।वासम् अकरोत् इति तदर्थः।
*उत्सुकयति-"उत्सुकां करोति"इति विग्रहे "तत्करोति तदाचष्टे"इति सूत्रेण णिचि ततो लटि प्रथमपुरुषैकवचने "उत्सुकयति"इति रूपं सिद्ध्यति।उत्कण्ठितां करोतीति तदर्थो बोध्यः।
अनुसन्धाता-संस्कृतशोधार्थी
दीपककुमारचौधरी
व्याकरणविभागः
(का.सिं.द.स.वि.वि.दरभंगा,बिहार)
Comments
Post a Comment