"श्रीकृष्णो राजनीतिश्च"



"श्रीकृष्णो राजनीतिश्च"
  "श्रीकृष्णो राजनीतिश्च"इत्यस्य को भाव इति ज्ञानाय तत्पदार्थो विवेचनीय इति विचिन्त्य सर्वादौ पदार्थं विचारयामस्तावत्-
"कृष्ण"इति क: पदार्थश्चेत् उच्यते-
१.कर्षति अरीन् (शत्रून्) महाप्रभावशक्त्या य: स: कृष्ण:।
२.कर्षति आत्मसात् करोति आनन्दत्वेन परिणमयति भक्तानां मनो य: स: कृष्ण:।
३.कर्षति भक्तानां चित्तं य: स: कृष्ण:।
४.कर्षति पापानि शरणागतानां य: स: कृष्ण:।
५.कर्षति सर्वान् अपि प्रलयकाले स्वकुक्षौ य: स: कृष्ण:।तदुक्तम्-
"कर्षणात् कृष्णो रमणाद् राम: व्यापनाद् विष्णुरिति श्रुति:।"
 श्रीधरस्वामिना श्रीमद्भागवतमहापुराणस्य श्रीधरीटीकायाम् (सुबोधिनीटीकायाम्) इत्थं प्रत्यपादि-
"कृषिर्भूवाचक: शब्दो णश्च निर्वृत्तिवाचक:।
तयोरैक्यात् परं ब्रह्म कृष्ण इत्यभिधीयते।।"
कृष्णो वर्णोऽस्याऽस्तीति विग्रहे मतुपि तथा "नगन्ताद् गुणवचनेभ्यो लुक्"इत्यनेन तल्लुकि सति कृष्णशब्दो निष्पन्नो भवति। श्रिया सहित: कृष्ण इति श्रीकृष्ण:।
            राज्ञां नीति:(नय:/मतम्/वाद:/सिद्धान्त:/व्यवस्था) इति राजनीति:।अस्यार्थो राजसम्बन्धिनी नीति:,राजसम्बन्धी सिद्धान्त:,राजव्यवस्था वा।राजनीते: कृते नृपनीति: दण्डनीतिर्वा प्रयुक्तो दृश्यते।यथा-
"सत्याऽनृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा।।"(भर्तृहरि:)
"अनुत्सूत्रपदन्यासा सद्वृत्ति: सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा।।" (शिशुपालवधम्-२/४२)
"आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती।"
दण्डनीति:-दण्डेन नीयते या सा दण्डनीति:,दण्डो नीयतेऽनया इति दण्डनीति: इति विग्रहे "णीञ् प्रापणे" इति धातो: कर्मणि करणे च क्तिनि प्रत्यये दण्डनीति: निष्पद्यते।तदुक्तम्-
दण्डेन नीयते चेदं दण्डं नयति वा पुन:।
दण्डनीतिरिति ख्याता त्रींल्लोकानतिवर्तते।।
      नीत्यर्थे एव नयशब्दोऽपि प्रयुज्यते।यस्यार्थो भवति व्यवहार:, सिद्धान्तो वा।तदुक्तम्-
नयानयगता लोके विकल्पनिलययामला।
दण्डनाद् गमनाद्वापि दण्डनीतिरिति स्मृता।।
नयस्य विनयो मूलं विनय: शास्त्रनिश्चय:।
विनयो हीन्द्रियजयस्तदुक्तश्शास्त्रमिच्छति।।
         अतो राजनीतौ नृपव्यवहारो नृपसिद्धान्तो,राज्ञ: कर्त्तव्याकर्त्तव्यबोधो राजव्यवस्था चान्तर्भवन्ति।कस्यचिदपि राज्यस्य सुव्यवस्थायै सप्त अङ्गानि अतीव आवश्यकानि भवन्ति।तद्यथा-
स्वाम्यमात्यौ जनो दुर्गं कोशो दण्डस्तथैव च।
मित्राण्येता: प्रकृतयो राज्यं सप्ताङ्गमुच्यते।।
स्वामी=राजा नृपो वा।
अमात्या:=मन्त्रिपुरोहितसचिवादय:।
जन:=प्रजा:।
दुर्गम्=किला (अभेद्यं स्थानम्)
कोश:=धनसङ्ग्रहकोश:।
दण्ड:=अपराधनियन्त्रणव्यवस्था।
मित्राणि-सुहृद:,मित्रराष्ट्रम्।
        राजनीतौ सामदामदण्डभेदा अन्तर्भवन्ति।एतेषु सर्वेष्वपि श्रीकृष्ण: कुशल आसीत्।महाभारतस्य सभापर्वणोऽनुसारेण राजनीतिसम्बद्धजने राज्ञि वा अधोलिखिता: षड्गुणा अवश्यं भवेयु:- 
"१.व्याख्यानशक्ति:,
२.प्रगल्भता(प्रत्युत्पन्नमतिता),
३.तर्ककुशलता,
४.नीतिनिपुणता,
५.अतीतस्मृति:,
६.भविष्यं प्रति दृष्टि:(भविष्यचिन्तनम्,दूरदृष्टि:,दूरदर्शिता) च।
एते समेऽपि गुणा: श्रीकृष्णे नितरां विलसन्ति स्म।पश्यामस्तावद् एकैकम्।
१.व्याख्यानशक्ति:-श्रीमद्भगवद्गीता परमम् उदाहरणम्।कर्त्तव्यपालनाद् विमुखं मोहग्रस्तम् अर्जुनं पुन: कर्त्तव्यपथि नियोजयितुं श्रीकृष्ण: निजव्याख्यानशक्तेरुपयोगं कृत्वा श्रीमद्भगवद्गीताम् अश्रावयत्।
२.तर्ककुशलता-किङ्कर्त्तव्यविमूढस्य अर्जुनस्य कर्त्तव्यबोधाय विभिन्नानां तर्काणाम् उपस्थापनं कृत्वा मोहसंशयादिग्रस्तम् अर्जुनं युद्धे न्ययोजयत्।
३.नीतिनिपुणता-लोककल्याणदृष्ट्या श्रीकृष्णो निजनीतेर्निर्धारणं स्वयं करोति।तद्यथा-
(क).इन्द्रस्य पारम्परिकपूजास्थाने प्राकृतिकवरदानभूतस्य गोवर्धनपर्वतस्य पूजाविधानम्।
(ख).जरासन्धेन बहुधा आक्रमणे  कृते सति युद्धात् पलायनम्। येन रणपलायित:(रणछोड़) इति निन्दनं सोढ्वाऽपि लोककल्याणं चकार तथा नवं पुरं द्वारिकाख्यं परित: सुरक्षिते स्थाने समुद्रतटे निर्मितवान्।
(ग).पाण्डवानां राजदूतो भूत्वा हस्तिनापुरं स्वयमगच्छत्।
(घ).युधिष्ठिरस्य राजसूययज्ञस्य शुभावसरे दुष्टस्य शिशुपालस्य वधं चकार।
(ङ).पाण्डवानां सङ्कटकालेऽपि बहुधां सहयोगं कृत्वा तेषां धर्मपक्षस्य जयस्य मार्गप्रशस्तीकरणम्।
४.अतीतस्मृति:-
(क).निजमातुलस्य कंसस्य अत्याचाररूपिणीम् अतीतकालिकस्मृतिं विज्ञाय तद्वधार्थं मथुरागमनम्।
(ख).कौरवद्वारा पाण्डवोपरि कृतात्याचारस्मारणं बहुधा चकार।
(ग).भीमेन दुर्योधने निपातिते,अर्जुनेन सुभद्राहरणे कृते सति बलरामस्य क्रोधशान्तये अतीतस्मारणं चकार।
(घ).अस्त्ररहिते व्याकुले च कर्णे अभिमन्युवधघटनास्मारणं विधाय तद्वधार्थं प्रेरणम्।
५.प्रगल्भता(प्रत्युत्पन्नमतित्वम्)-
(क).कंसस्य विविधासुरशक्तिविनाशे कृष्णस्य प्रगल्भताया: परिचय: प्राप्यते।
(ख).महाभारतयुद्धे विना शस्त्रं धृत्वा एव पाण्डवानां रूपे धर्मस्य सत्यस्य च जयनिश्चयीकरणम्।
(ग).इन्द्रद्वारा कर्णाय प्रदत्ताया महासंहारकभूताया एकघ्नीशक्ते: घटोत्कचे प्रयोगार्थं विवशीकरणम्।
(घ).बर्बरीकस्य बलिदानाय प्रेरणम्।
(ङ).युधिष्ठिरमिथ्याभाषणयोजना।
६.भविष्यं प्रति दृष्टि:(भविष्यचिन्तनम्/दूरदृष्टि:/दूरदर्शिता)-
(क).राष्ट्रस्य सुभविष्यनिर्माणाय भीष्मद्रोणकर्णसदृशां सांस्कृतिकस्तम्भभूतानां वीराणां वधस्यापि युक्तियुक्तताप्रतिपादनम्।
(ख).नवनिर्माणपथे आगम्यमानानां प्रत्येकम् अवरोधानां दूरीकरणमेव श्रीकृष्णस्य राजनीतेर्मूलमन्त्रो वर्तते।श्रीकृष्णस्य राजनीतिकुशलताया: परिचयार्थं महत्त्वपूर्णांशा:-
१.सत्पथस्य आश्रय:।
२.निश्चिन्तता,निर्भीकता, निष्कामता(यशोलिप्साभाव:)।
३.बलिष्ठदेहबलादपि आत्मबलं गरीय:। तदर्थं राज्ञि आत्मविश्वास: स्यात्।
४.राज्ञि समस्यासमाधानविधायिनी बुद्धिरवश्यं भवेत्।
५.लोकहिताय नृपनीतिर्भवेत्।
६.त्यागशौर्यधैर्यपरिपालनम्।
         एतत्सर्वम् अवलोक्य ध्रुवमेव वक्तुं शक्नुमो वयम् यत् श्रीकृष्णो राजनीतिवंशवृक्षस्य आदर्शभूतः आसीदिति शम्।

दीपककुमारचौधरी
(दीपकवात्स्य:)
स्वच्छभाषाभियानम्
सुरभारतीसमुपासका:

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)