"संस्कृतं सरलम्"

"संस्कृतं सरलम्"
* अभिव्यक्ते: प्रमुखं साधनं भवति भाषा । सा च देशाधारिता क्षेत्राधारिता वा भवति । उक्तञ्च "यथा देशस्तथा भाषा" इति वचनात् प्रत्येकं देशे क्षेत्रे वा एका विशिष्टा भाषा भवति । सा भाषाऽपि देशस्य विभिन्नेषु प्रदेशेषु भिन्न-भिन्नासु उपभाषासु विभक्ता भवति । परं सा विशिष्टा भाषा कस्यचिद्देशस्य परम्पराश्रिता संस्कृत्याश्रिता वा भवति । अर्थात् सर्वेषां देशानामेका स्वकीया सांस्कृतिकी भाषा भवति। यस्यां भाषायामेव सृष्टिकालादारभ्य साम्प्रतं यावत् समग्रं साहित्यं वर्णितम्भवति ।यथा-चीनदेशे चीनीभाषा, जर्मनीदेशे जर्मनभाषा, यूनानदेशे ग्रीकभाषा एवं लैटिनभाषा  , तथा भारतदेशस्य संस्कतञ्चादिभाषात्वेन प्रसिद्धा वर्तन्ते । भारतदेशस्य समग्रेतिहास: प्राचूर्येण संस्कृत एव प्राप्यते । अत: संस्कृतमेव भारतस्य सांस्कृतिकी भाषेत्युच्यते ।
          वयं समेऽपि जानीम एव सर्वासां भाषाणां द्विविधं रूपं प्राप्यते एकं साहित्यदृष्ट्या अपरञ्च लौकिकव्यवहारदृष्ट्या ।  संस्कृतेऽपि द्विविधं रूपमुपलभ्यते । सस्कृतभाषा आदिकालादारभ्य बहुवर्षं यावत् जनानां व्यवहारस्य भाषासीदित्यस्मिन् विषये अस्मद्ग्रन्थेषु अनेकानि प्रमाणानि प्राप्यन्ते ।यथ- पाणिनिव्याकरणे "पुत्त्रादिनी पुत्त्रपुत्रादिनी तीर्थध्वाङ्क्ष:", "खट्वारूढो जाल्म: पात्रेसमेता वैयाकरणखसूचिश्चेत्यादिनिन्दावचनैस्तथा "भार: बाधति " ," काव्यं करोमि न हि चारुतमं करोमि" चेत्यादिप्रसङ्गैश्च सुस्पष्टं भवति यत् संस्कृतभाषा प्राचीनकालादारभ्य बहुकालं यावद् व्यवहारभाषाऽसीत्। या च भाषा व्यवहारपथि भवति सा भाषा सरला भवति ।अत: संस्कृतभाषा पुरा सरला भाषा आसीत् परं मध्यकाले अनेकेषां वैदेशिकानामाक्रमणात् पाश्चत्यभाषासंस्कृत्यादिकं प्रति अस्माकम् आकर्षणवशाच्च
संस्कृतं व्यवहारभाषाया: स्वस्थानं 
पर्यत्यजत्। 
             अत: साम्प्रतं जनानां धारणा मानसिकता वाऽभवत् यत् संस्कृतं कठिनं परं संस्कृते यावत्सारल्यमस्ति तावन्नास्ति अन्यासु भाषासु । बह्वीषु भाषासु व्यवहारस्य सामान्यो नियमोऽस्ति  यत् कर्तृपदम्+कर्मपदम्+ क्रियापदम् परं संस्कृते तादृश: कश्चिन्नियमो नास्ति।यथा- राम: पुस्तकं पठति,राम: पठति पुस्तकं ,पठति पुस्तकं राम:, पठति राम: पुस्तकं,पुस्तकं पठति राम:,पुस्तकं राम: पठति इत्यादिषु वाक्येषु पदपरिवर्तनेनापि अर्थपरिवर्तनं न भवति इत्यपि प्रमाणं वर्तते संस्कृतस्य सारल्यस्य । संस्कृतं सरलमिति प्रमाणीकरोति एकं संस्कृतगीतम् -
"सुरससुबोधा विश्वमनोज्ञा 
 ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ।।" 
अन्यच्च संस्कृतभारत्या: विंशतिहोरात्मक: 
संस्कृतसम्भाषणपाठ्यक्रमोऽपि
 स्फुटीकरोति यत् संस्कृतं यावत्सरलम् वर्तते नास्ति तावत्सरला अन्या भाषा काचित् । यतो विंशतिहोरासु एव कश्चिदपि जनो यथा संस्कृतसम्भाषणं कर्तुं शक्नोति न तथा अपरभाषासम्भाषणम्।संस्कृतशब्दान् लोकव्यवहारेऽपि अनायासेन प्रतिदिनं जना: प्रयुञ्जते।यथा-आकाश-वायु-अग्नि-जल-पृथिवीप्रभृतय: अथ च माता-पिताप्रभृतय: सम्बन्धवाचकशब्दा:।
                उपर्युक्ततथ्यानामाधारेण वक्तुं शक्नुमो वयं यत् संस्कृतं सरलमासीत् वर्तते भविष्यति अपि एवमेव स्थास्यति।अत: संस्कृतं सर्वासां भाषाणामपेक्षया सरलं वर्तत इति मन्मति:।

#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#संस्कृतभारती
#दीपकवात्स्य:

http://surbhartisamupaskah1995.blogspot.com/2020/07/blog-post_30.html

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)