सम्प्रदानापादयोः कारकत्वसिद्धये अवान्तरव्यापाराः
सम्प्रदानापादयोः कारकत्वसिद्धये अवान्तरव्यापाराः
जिज्ञासा भवति यत् प्रधानव्यापारस्य सम्पादनाय अधिकरणादीनां यथा स्व-स्वावान्तरव्यापाराः अपि भवन्ति तथा सम्प्रदानापादानयोः स्वकीयावान्तरव्यापारा नानुभूयन्ते, अतः अन्वर्थत्वाश्रयणे सम्प्रदानापादनयोः कारकत्वं कथं सिद्ध्यति?
अस्य प्रश्नस्य समाधानं भाष्ये ʻकारकेʼ (1.4.23) इति सूत्रस्य ‘अपादानादीनां त्वप्रसिद्धिः’ इति वार्तिकस्य व्याख्याने कैयटेन ‘अपादानस्याप्यवधिभावेनावस्थानरूपो व्यापारोऽस्ति, सम्प्रदानस्याप्यनुमानादिलक्षणः प्रतीयमानोऽपि व्यापारः कारकव्यपदेशनिबन्धनम्।यथा प्रविश पिण्डीमिति।।’ इति ग्रन्थेन कृतं विद्यते। कैयटानुसारेण ‘ध्रुवमपायेऽपादानम्’ (1.4.24) इति सूत्रेण अपाये अवधिभूतस्य अपादानसंज्ञा विधीयते। यथा वृक्षात् पत्रं पतति इत्यत्र पत्रस्य वृक्षाद् अपायः (विश्लेषः, विभागो वा) भवति, तत्र वृक्षस्य अस्तित्वम् आवश्यकमस्ति। वृक्षस्याऽसद्भावे वाक्ये कर्तृत्वेन गृहीतस्य पत्रस्य पतनरूपव्यापार एव न भवितुमर्हति। अतः पत्रस्य पतनरूपव्यापारसम्पादनाय अवधिभावेन वृक्षस्य अवस्थितिरावश्यकी। एवं हि वृक्षस्य अवधिभावेन अवस्थितिरूपो यो व्यापारः, तस्याश्रयत्वेन वृक्षस्यापि कारकत्वं सिद्ध्यति।
एवमेव सम्प्रदानेऽपि कारकत्वमित्थं सिद्ध्यति- यस्मै किंचिद् दीयते तस्य अनुमतिं (भवान् एतद् ददातु, अहं तद् ग्रहीष्यामि, एतादृशीं सहमतिम्) विना दानव्यापार एव न सम्पद्येत, यतो हि दानस्य यत् कर्म तेन सह ग्रहीतुः भोक्तृत्वेन सम्बन्धो भवेत्, इति विचार्य एव कश्चित् किंचिद् दीयते। एवं हि दानव्यापारस्य सम्पादनाय ग्रहीतुः अनुमतिरूपव्यापारः, प्रेरणारूपव्यापारः, अनिराकरणरूपात्मको वा व्यापारः पूर्वकाले आवश्यको भवति। एवं हि अनुमति- प्रेरणाऽनिराकरणरूपव्यापाराश्रयत्वेन सम्प्रदानस्यापि कारकत्वं सिद्ध्यति।
अत्रैकः प्रश्नः समुदेति यद् यस्मै दीयते तस्य सन्निधाने स्थिते तत्र तु सम्प्रदानस्य अनुमत्यादिव्यापारः सम्भवति, यदा तु सोऽसन्निहितः यथा- सूर्याय अर्घ्यं ददाति इत्यादौ, तदा अनुमत्यादिव्यापाराभावात् तस्य सम्प्रदानस्य कथं कारकत्वम् ? अस्य प्रश्नस्य समाधाने ʻकारकेʼ इति सूत्रे लघुशब्देन्दुशेखरे नागेशेनोक्तं यद् असन्निहितसम्प्रदानस्यापि दातृबुद्धिस्थत्वावश्यकेन स्वज्ञानपूर्वकालत्वेनैव जनकत्वम्। तेन स्पष्टं भवति यद् असन्निहितस्य सम्प्रदानस्य सामीप्याभावेऽपि दातुः बुद्धौ स स्थितो भवति, अर्थात् दाता मन्यते यद् ग्रहीता दानाय अनुमतिं प्रादादिति।
सम्प्रदानेऽपि अवान्तरव्यापारो भवति, वाक्यपदीयस्य निम्नलिखितकारिकयाऽपि प्रमाणितं भवति-
अनिराकरणात् कर्तुः त्यागाङ्गं कर्मणेप्सितम्। प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम्।। (वाक्यपदीयम्, साधनसमुद्देशः, कारिकासंख्या-129)
अस्याः कारिकाया अयमर्थः- कर्तुः इति पदे कर्मणि षष्ठी, तस्य च अनिराकरणात्, प्रेरणानुमतिभ्यामिति पदद्वयेन सहान्वयः। त्यागः = दानम् अङ्गं यस्य तत् त्यागाङ्गम् इति पदं कर्मणा यदीप्सितमिति पदसमूहस्य विशेषणम्, कर्मणा यदीप्सितमित्यस्य यत् कर्मणा सम्बन्धुमिष्टम् इत्यर्थः, अर्थाद् दानस्य कर्मणा यं सम्बन्धुमिच्छति कर्ता, तत् त्रिभिः प्रकारैः सम्प्रदानतां लभते-
1. कर्तुः अनिराकरणात् अर्थात् यः दानकर्ता, तं दातुं न निषेधति दानग्रहीतेत्यर्थः। अस्योदहरणम्- सूर्यायार्घ्यं ददाति। अत्र दानाय सूर्यः न प्रार्थयते, नानुमन्यते, न च निराकरोति।
2. कर्तुः प्रेरणायाः- प्रेरणाया इत्यत्र हेतौ पञ्चमी। अर्थात् यः दानकर्ता, तं दातुं प्रेरयति दानग्रहीता, अन्यो वा यद् दानेन पुण्यं भवति, अतः भवता दानमवश्यं करणीयमिति, येन प्रेरितो भूत्वा दाता ददाति। अस्योदहरणम्- विप्राय गां ददाति।
3. कर्तुः अनुमतेः- अनुमतेः इत्यत्रापि हेतौ पञ्चमी। अर्थात् यः दानकर्ता, तस्मै दानं कर्तुम् अनुमतिं ददाति, अनुमतो भूत्वा दाता ददाति। अस्योदहरणम्- उपाध्यायः गां ददाति।
एवं हि सम्प्रदानापादानयोरपि कारकत्वं सिद्ध्यति।
--------------------------------
प्रो. शशिनाथ झा महोदयानां सम्प्रदाने अपादाने वा अवान्तर व्यापारः को भवति,कृपया स्पष्टीकरणीयम्। इति जिज्ञासायाः समाधानायेदं पत्रम्
Comments
Post a Comment