"विविधविद्यानदीष्णस्य प्रो.श्रीवैद्यनाथझावर्यस्य विद्याध्ययनाचार्यपरम्परा "

"विविधविद्यानदीष्णस्य प्रो.श्रीवैद्यनाथझावर्यस्य                               विद्याध्ययनाचार्यपरम्परा "
        चराचरेऽस्मिन् जगति प्रत्यहं बहवोऽपि मानवा जन्म लभन्ते कालक्रमेण परलोकभागिनश्च भवन्ति । उक्तञ्च "जायन्ते च म्रियन्ते च.......।"परं तेषु केचन एव सार्थकं जन्म प्राप्नुवन्ति । यावज्जीवं स्वस्य परस्य च हितकरं कर्म कुर्वाणा भान्ति । अन्ये ये तु केवलम् अन्नवस्त्रावासभूषणादिसौकार्यमात्रदृष्ट्या तदुचितं कर्म कुर्वाणा भवन्ति, न ते वस्तुत: प्रशंशार्हा: लोकस्मृतिपथभाजकाश्च । अपितु ये शाश्वतं किमपि लोकहितं कर्म कर्त्तव्यमिति मत्त्वा तदर्थं प्रवर्तन्ते । त एव वस्तुत: चिरकालस्मरणयोग्या भवन्ति । उक्तञ्च-
अन्नदानं परं दानं विद्यादानं तत: परम् ।
अन्नेन क्षणिका तृप्ति: यावज्जीवञ्च विद्यया ।।
 महाकविकालिदिसेनापि उच्यते -
श्लिष्टा क्रिया कस्यचिदात्मसंस्था
सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु  स शिक्षकाणां
धूरि प्रतिष्ठापयितव्य एव ।।
अन्यच्च-
लब्धास्मपदोऽस्मीति विवादभीरो-
स्तितिक्षमाणस्य परेणनिन्दाम् ।
यस्यागम: केवलजीवकायै 
तज्ज्ञानपण्यं वणिजं वदन्ति ।। 
     तत्रापि विद्यावन्त: सन्त: स्वार्जितविद्यानुगुणं अन्येभ्योऽपि तज्ज्ञानस्य सङ्क्रान्तिं कुर्वन्ति । ते नितरामेव आदरार्हा: सत्कीर्तियुताश्च भवन्ति ।
        विद्यावतां हि द्विविधं कर्म अवश्यमेव कर्त्तव्यम् भवति तच्च अध्ययनाध्यापनेन शास्त्रसंरक्षणं ,शास्त्रप्रचाराय ग्रन्थसम्पादनादिकञ्च । यतोहि विद्यासंरक्षणाय शास्त्रसंरक्षणाय वा इम एवोपाया भवन्ति - अधीति:,बोध:,आचरणम्,प्रचारणञ्च । तदुक्तं नैषधीयचरिते "अधीतिबोधाचरणप्रचारणैरिति" । ये च सत्कर्म कुर्वाणा भवन्ति ते खलु सार्थजन्मान: अपरेषामादर्शभूता भवन्त्याचार्या: । तादृशेषु आचार्येषु एवानन्यो मन्मतौ विविधशास्त्रसंरक्षकैर्मनीषीभिरलङ्कृतमिथिलाख्यपुण्यभुवो मधुवनीमण्डलान्तर्गताललपुराग्रामे जन्म गृहाण विद्यानगर्यां काश्यां शास्त्राणि अधीत्य विविधविद्यानदीष्णत्वेन प्रथितयशा: झोपाख्य: प्रो.श्रीवैद्यनाथझामहाभाग: । अस्य महाभागस्य कृते शास्त्राध्ययनमेव व्रत: । अतो वक्तुं शक्यते यदेषो महानुभावो वर्तते "शास्त्रव्रती" इति ।महापुरुषोऽयं राष्ट्रियसंस्कृतसंस्थानस्य (मानितविश्वविद्यालयस्य) जयपुरस्थे केन्द्रे जयपुरपरिसरे सर्वदर्शनसङ्कायप्रमुखत्वेन सदा छात्रहितसम्पादनचिकीर्षु: सन् राजते । अस्मद्दौर्भाग्यं यदयमाचार्यो वर्षेऽस्मिन् सेवानिवृत्तो भविष्यति । महोदयस्य परिसराय कृतोपकाराय स्मरणात्मक एक: स्मृतिग्रन्थ: प्रकाश्यते । तत्राहमपि परिसरपक्षतो निर्दिष्टो यद्भवानपि
 प्रो.झामहोदयविषये यदि स्वाभिप्रायं स्वानुभवं तज्जीवनांशञ्च लेखितुमिच्छति तर्हि लिखतु इति श्रुत्वा मत्प्रेरणाभूतस्य आचार्यस्य विषये मत्कृते लेखनायावसर: कल्पित इति ध्रुवम्मे सौभाग्यम् । अत: झटित्येव मयाङ्गीकृतोऽयं प्रस्ताव: । तत: कं विषयमाधारीकृत्य लिखामीति विचारयन्नासम् ,तदा एकेनाचार्येण मे सम्मुखं विषयोऽयं समुपस्थापित: "विविधविद्यानदीष्णस्य प्रो.श्रीवैद्यनाथझावर्यस्य विद्याध्ययनाचार्यपरम्परा" इति ।
          तत्र लेखनादौ चर्चाक्रमे मयाचार्य: प्रो.झावर्य: पृष्टो यत् गुरो! भवद्विद्याध्ययनस्य आचार्यपरम्परा का? केभ्यश्च भवता नैकशास्त्राणि अधीतानि? तदाचार्योSतीव सहजतयावोचद्यद् दत्तात्रेयवत् मे सन्ति अनेके आचार्या गुरवो वा ।पुनर्मया पृष्टस्तत्रापि अनेकेषु आचार्येषु सत्स्वपि के विशिष्या: ? तदाचार्याद् यदंश: सङ्गृहीतस्तन्मया प्रस्तूयते ।
        आदौ बाल्यकाले आचार्य: श्रीवैद्यनाथझावर्य: बिहारप्रदेशस्य अररियाग्रामवास्तव्यात् श्रीमत: अनिरुद्धमिश्रवर्यात् "नत्वा सरस्वतीं देवीम् " इत्यनेन मङ्गलाचारणेन विद्याध्ययनमारभ्य लघुसिद्धान्तकौमुदीमधिगतवान् ।ततश्च तत्प्रेरणया अध्येतुं विद्यानगरीं काशीं प्राप्य स्वर्गीयश्रीनारायणशास्त्रिण: सिद्धान्तकौमुदीम् , तत: श्रीद्वारिकाप्रसादमिश्रात् प्रौढमनोरमाञ्चाध्यैत । ततो विद्वन्मौलिभूतभागलपुरवास्तव्यात् परमविदुष: श्रीसुखदेवझामहाभागात् शेखरग्रन्थान् , शास्त्रप्रतिमूर्तिभूतस्वनामधन्यपरमाचार्यात् प्रो.रामयत्नशुक्लवर्यात् ,विविधविद्याप्रवीणात् पं.शशिधरमिश्रवर्यात् व्याकरणसम्प्रदायस्य अन्यान् दार्शनिकग्रन्थांश्च अधीत्य शास्त्रान्तरमध्येतुमिष्टवान् ।अत: तात्कालिकेषु नैयायिकेषु शिरोमणिभूतमिथिलामौलिमणिमण्डितन्यायशिरोमणीत्यादिप्र-भृतिभिरुपाधिभिरलङ्कृतेभ्य: श्रीमत्कीर्त्यानन्दझावर्येभ्यो न्यायग्रन्थानां ,विद्वत्समवायेषु प्रथितयशसो मिथिलावास्तव्यात् प्रो.रुद्रधरझामहाभागाद् अन्येषां  दार्शनिकग्रन्थानाञ्चाध्ययनमकार्षीत् । तत: शास्त्रान्तरेषु स्वाविरतपरिश्रमेण नैकेषां विदुषां मार्गदर्शनमवाप्य च विविधविद्यानदीष्णत्वं सम्पादितवान् । 
           सद्विद्यावंशवृक्षेण आचार्येण प्रो.वैद्यनाथझावर्येण समं मम प्रथम: परिचय: शिक्षाशास्त्रिकक्षायामध्येतुं जयपुरपरिसरागमनानन्तरमभवत् । आचार्य: यदा-कदा विविधकार्यक्रमेषु प्राचार्यत्वेन अध्यक्षीयभाषणत्वेन च उद्बोधनं कुर्वाण: अस्मत्सदृशानामनेकेषां छात्राणां मार्गदर्शनं विधाय तेषाञ्चेतसि आदर्शभूतत्वं गत: । तद्विषये वर्षेऽस्मिन् जायमानामेकां घटनां स्मरामि । 
          राष्ट्रियसंस्कृतसंस्थानेन प्रतिवर्षम् आयोज्यमानासु  अखिलभारतीयशास्त्रीयस्पर्धासु भागग्रहणाय प्रतिराज्यम् अन्ताराज्यीयस्पर्धा आयोज्यते । तत्क्रमे परिसरस्तरीयस्पर्धायां प्रो.झावर्यो निर्णायक आसीत् ।प्राचार्यपदे आसन्नपि तत्र दिनद्वये आदिनं छात्राणां मार्गदर्शनं कृतवान् अव्यक्तविषयांश्च स्फुटीकृतवान् । एतदेव पर्याप्तन्न ।ततो राज्यस्तरीयस्पर्धायां निर्णायकत्वेन न सन्नपि सभागारे मञ्चादध उपविश्य एव छात्राणां पुरतोऽनेकान् तत्तच्छास्त्रसम्बद्धान् गूढप्रश्नान् तत्समाधानञ्च उपास्थापयत् । तस्मात् छात्रा लाभान्विता: सन्तो जनवरीमासे जगज्जनन्या भगवत्या श्रीत्रिपुरसुन्दर्या संरक्षितायाम् अगरतलायाम् आयोजितायाम् अखिलभारतीयशास्त्रीयस्पर्धायां अधिकानि पदकानि विजित्य निखिलेऽपि देशे जयपुरपरिसरं द्वितीयस्थाने स्थिरीकृतवन्त: ।यथाऽहं भावये तत्र प्रो.झावर्यस्य परिश्रम: सफलीभूतोऽभवदिति ।
   मान्या: ! भवन्तो जानन्त्येव यत् महताम् आचार्याणां प्राधान्येन तच्छिष्या एव धनम्भवति । तद्वदेव शिष्या अपि शास्त्रेषु गभीराध्ययनम् अथ च तलस्पर्शिज्ञानमवाप्य इहलोके परलोके च स्थितं गुरुकुलं स्वकुलञ्च दीपयन्ति नास्त्यत्र संशय: ।प्रो.झावर्योऽपि स्वनामधन्येभ्यो विविधशास्त्रमर्मज्ञेभ्य: स्वगुरुभ्यो विद्यां प्राप्य छात्रेषु तदलौकिकं ज्ञानं सम्प्रेष्य भृशं स्वगुरुकुलं छात्रकुलञ्च दीपयन् राष्ट्रियसंस्कृतसंस्थानस्य (मानितविश्वविद्यालयस्य) जयपुरपरिसरे मौलिमणिवद्राजतीति शम्।।

#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#दीपककुमारचौधरी #दीपकवात्स्य:

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)