"महनीयो राष्ट्रभक्तो नेताजी सुभाषचन्द्रबोसवर्यः"
"महनीयो राष्ट्रभक्तो नेताजी सुभाषचन्द्रबोसवर्यः"
अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशशततमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के (१५ अगस्ट्,१९४७ ई.) स्वतन्त्रमभूत्। तस्मादेव अद्यत्वे भारतीया वयं स्वतन्त्राः (स्वाधीनाः) वर्तामहे।ध्यातव्यं वर्तते यत् स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैकसेवाव्रतिनो हुतात्मानो भारतीसुपुत्रा नैजान् प्राणान् अत्यजन्।तेषु भारतमातृसुपुत्रेषु "चन्द्रशेखर-आजाद:,सुखदेव:,राजगुरुः,खुदीरामबोसः,वीरभगतसिंहः, नेताजी सुभाषचन्द्रबोसश्च" इति प्रभृतयः प्रमुखाः सन्ति। तत्रापि "नेताजी सुभाषचन्द्रबोसः" अन्यतमो राष्ट्रभक्तो वर्तते।
सुभाषमहोदयस्य जन्म सप्तनवत्युत्तर-अष्टादशशततमाब्दस्य जनवरीमासस्य त्रयोविंशे दिनाङ्के (२३जनवरी,१८९७ई.) बङ्गप्रान्तस्य कटकनगरस्थे हिन्दुकायस्थकुलीनपरिवारेऽभवत्। यस्य पितरौ प्रभावतीदेवीजानकीनाथबोसौ आस्ताम्।जानकीनाथबोसजी कटकनगरस्य प्रसिद्धो वाक्कील आसीत्।सुभाषजी भारतीयसिविलपरीक्षामुत्तीर्य अपि सेवायां भागं न गृहीतवान्।
यतोहि सः ब्रिटिशप्रशासनस्य चाटुकारितां कर्तुं नेच्छति स्म।
बोसमहोदयो भारतदेशस्य स्वतन्त्रतायै स्वराज्यदलम्(स्वशासनदलम्),
फाॅरबर्डब्लाॅक,
भारतीयस्वतन्त्रतासङ्घटनम्,
भारतीयराष्ट्रियसेना(INA),
आर्जीहुकुमते(आजादहिन्द/स्वाधीनभारतस्य अन्तरिसर्वकारः) च इति प्रभृतीनाम् अनेकासां संस्थानां स्थापनां चकार। तेन उपर्युक्तसंस्थानां सहयोगमाध्यमेन भारतवर्षस्य स्वाधीनतायै आङ्ग्लशासनविरोधे अनेके प्रयासा विहिता,यतः आङ्ग्लशासनं विचलितमभूत्। अनेकवारं सुभाषजी कारागारे(बन्दीगृहे) पातितः।तत्रापि बहुधा अनशनाख्यम् आन्दोलनम् आरब्धम्। तस्मात् ततः पुनर्मुक्तो भूत्वा राष्ट्रवादिषु आन्दोलनेषु भागं स्वीकृत्य निखिलेऽपि भारते अग्रगण्यो राष्ट्रभक्तोऽभवत्।अतः आङ्ग्लशासनं तस्य गृहाद्बहिर्गमनेऽवरोधं करोति स्म।बोसजी आङ्ग्लशासननेत्रेषु धूलिकाक्षेपणं कृत्वा भारतदेशाद् बहिर्गमनं विधाय ब्रिटिशशासनस्य जीवनं दुर्भरं चकार।ततो विविधदेशानां यात्रां कृत्वा सहयोगार्थं न्यवेदयत्।द्वितीयविश्वयुद्धकाले बोसजी आङ्ग्लशासकैः(अङ्ग्रेजपदवाच्यैः/ब्रिटिशशासकैः) समं योद्धुं जापानदेशस्य सहयोगेन "आजाद-हिन्द-फौज"इति सङ्घटनस्य स्थापनां विधाय तत्रत्यानां भारतीयानां जनमानसे क्रान्तेर्बीजारोपणं चकार।बोसमहोदयस्य प्रमुखा उद्घोषाः "जय हिन्दु","दिल्ली चलो","तुम मुझे खून दो मैं तुम्हें आजादी दूंगा"इति प्रभृतय आसन्।यतः स्वतन्त्रतासेनानीगणः प्रेरितो भूत्वा ब्रिटिशशासनविरोधे प्रबलं सङ्घर्षं प्रारभत। शीघ्रमेव "आजाद-हिन्द-फौज"इति दलम् अण्डमान-निकोबारद्वीपद्वयम् आङ्ग्लशासनाद् अमोचयत्।ययोर्नामकरणं "शहीदद्वीपम्
(बलिदान द्वीपम्)", स्वराज्यमद्वीपञ्च इति चकार।अन्ततो ब्रिटिशशासनं भारतीयविरासतं सन्त्यज्य पलायनम् एव उपयुक्तम् इति अचिन्तयत्।
सुभाषवर्यस्य प्रबलं सङ्घर्षं दृष्ट्वा भारतीया जनाः तं राष्ट्रभक्तं "नेताजी"इति नाम्ना सम्बोधयन्ति स्म।बोसमहोदयः पूर्णस्वाराज्यस्य पक्षधर आसीत्।सुभाषचन्द्रबोसस्य जन्मदिवसे (जनवरीमासस्य २३ दिनाङ्के) अद्यापि निखिले भारते सोल्लासं "नेताजी-जयन्ती" आयोज्यते। ततः प्रेरितो भूत्वा भारतसर्वकारः २३ जनवरी २०२१ ई.इति दिनाङ्के नेताजीसुभाषमहोदयस्य १२५तमीं जयन्तीं पराक्रमदिवसरूपेण आयोजयितुं निर्णयम् अकरोत्।यस्योद्घोषणां भरतीयप्रधानमन्त्री श्रीमान् नरेन्द्रमोदी २०१८ईशवीयस्वातन्त्र्योत्सवस्य उपलक्ष्ये रक्तदुर्गतः(लालकिलातः) अकरोत्।
बोसमहोदयस्य मृत्युरहस्यम् अद्यापि न केनापि ज्ञायते।१८ अगस्तमासः,१९४५ई.इति दिनाङ्के ताइवानदेशस्य तथाकथितविमानदुर्घटनायां बोसमहोदयस्य मृत्युरभवदिति केचन आमनन्ति परं तत्र न किञ्चिदपि प्रमाणम्। नेताजी सुभाषचन्द्रबोसो वस्तुतो भारतीयस्वतन्त्रतासङ्ग्रामस्य अग्रणीः अभूतपूर्वः क्रान्तिवीरश्चासीत्।
"जय हिन्द" "जय हिन्द की सेना"
लेखकः-दीपककुमारचौधरी
दीपकवात्स्यः(संस्कृतशोधार्थी)
स्वच्छभाषाभियानम् सुरभारतीसमुपासकाः
संस्कृतभारती
Comments
Post a Comment