"अन्ताराष्ट्रियमातृभाषा-संस्कृतम्"

                   "अन्ताराष्ट्रियमातृभाषा-संस्कृतम्"
अद्य निखिलेऽपि विश्वे अन्ताराष्ट्रियमातृभाषादिवस: समायोज्यते।आदौ मातृभाषा नाम किमिति जिगमिषायामागता मे चेतसि नैके विचारास्तेषु केचन प्रस्तूयन्ते -
*स्वरूपम् - 
१.मातृृृृणां या भाषा सा मातृभाषा इति व्युत्पत्तौ प्रतिक्षेत्रं वासकर्त्रीभि: मातृभिरुच्यमाना भाषा भवति मातृभाषा।अर्थात् यां भाषां स्वस्वक्षेत्रे बालाः प्रथमतया स्वमातु: शिक्षन्ते अधिगच्छन्ति वा।सा मातृभाषेति कीर्त्यते।यथा-मिथालाया: मैथिली,राजस्थानस्य राजस्थानी,पञ्जाबस्य पञ्जाबी, गुजरातस्य गुजराती चेति।अनया व्युत्पत्त्या मम मातृभाषा भवति मैथिली।यद्विषये उच्यते वात्स्यकोशे -
देशेषु मिथिला श्रेष्ठा गङ्गादिभूषिता यथा।
भाषासु मैथिली श्रेष्ठा मधुरा मिथिलोद्भवा।।

२.माता चासौ भाषाणां या सा मातृभाषा।या भाषा सर्वासां प्रयुज्यमानानां भाषाणां मूलभूता जननीरूपा वर्तते सा मातृभाषा।यथा- संस्कृतम्।यद्विषये उच्यते कृष्णद्वैपायनभाष्ये -
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा।
आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तय:।।

३.माता इव पूज्या या भाषा सा मातृभाषा।यथा- संस्कृतम्।
यथा विश्ववाङ्मयस्य प्रथमसाहित्यं वेदो निर्विवादेन प्रायश: सर्वैरङ्गीक्रियते तद्वदेव भाषासु सर्वप्रथमा सर्वासां प्रयुज्यमानानां भाषाणां जननी संस्कृतभाषा सर्वैरङ्गीकर्त्तव्या एव।यतो प्रथमसाहित्यिकग्रन्थो वेद: अस्यामेव निबद्धो वर्तते। 
*महत्त्वम् - 
      मातृभाषा कस्यचिज्जनस्य सामाजिकं भाषिकञ्च अभिज्ञानं वर्तते।यथा मातृभाषया हृदि अन्तर्भूतभावं प्रकटयितुं शक्यते नान्यथा।अतो महात्मगान्धिना 
उक्तम् -येन प्रकारेण गोदुग्धं मातृदुग्धस्य स्थानं नेतुं न शक्नोति तेनैव प्रकारेण न काचिदन्या भाषा भाषाणां मातु: संस्कृतस्य स्थानं नेतुं शक्नोति।वात्स्यकोशकारो ब्रूते -
मातृभाषासमा नास्ति भाषा काचिद्गरीयसी।
यतो हृद्भावबोधो नो मातृभाषागमादृते।।
       सहृदया: माता मातृभूमिश्च यथा सदा पूज्या सर्वथा आदरयोग्या भवति।उक्तं हि बाल्मीकिरामायणे -
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।
 तथैव मातृभाषापि मातृवत् मातृभूमिवच्च गरीयसी आदरयोग्या च भवति।वात्स्यकोशकारस्यापि अयमेवाशय: -
मातृभाषा हि मातेव वन्द्या भवति सर्वदा।
मातृभाषाप्रयोक्तारो भवेम मातृसेवका:।।
         अन्ताराष्ट्रिया चासौ मातृभाषेति 
अन्ताराष्ट्रियमातृभाषा।या भाषा निखिलेऽपि विश्वे सर्वत्र समानरूपेणाद्रियते।या च सर्वमान्या, प्राचीनतमा,चिरनवीना,न जातपरिवर्त्तना सर्वत्र भासते।यत्र च बहुधा " सर्वे भवन्तु....,द्यौ: शान्तिरन्तिरक्ष.....,कृण्वन्तो विश्वमार्यम् इत्यादिकं विश्वहितविषयकं चिन्तनं क्रियते।सा वर्तते  अस्मदीया संस्कृतभाषा।यथा मातु: कृते सर्वेऽपि पुत्रा: समाना एव भवन्ति अथ च माता समानरूपेण सर्वान् पुत्रान् परिपालयति पुष्णाति च तद्वदेव संस्कृतभाषासमक्षं संसारस्य सर्वा अपि भाषा: समाना: तथा संस्कृतं  सर्वासामपि भाषाणां शब्दकोशे वृद्धिं कुर्वाणा ता: परिपालयति पुष्णाति च। 
         अत: उपर्युक्ततथ्याधारेण वक्तुं शक्नुमो वयं यत् संस्कृतभाषा अन्ताराष्ट्रियमातृभाषात्वेन राराज्यते । 
लेखकः-दीपककुमारचौधरी
दीपकवात्स्यः (संस्कृतशोधार्थी)
#मातृभाषादिवस:
#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#दीपकवात्स्य:

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)