आत्मपरिचयः

"आत्मपरिचयः"
शिवशंकरजातोऽहं पिताम्बरसुतात्मजः। लगमाग्रामवास्तव्यश्चौधरिकुलदीपकः।।
हीरादेवी च मे माता पिता मे शिवशंकरः।
तयोरेवकुलानन्दो दीपको वत्सगोत्रजः।।

सततविनयशीलो मे पिता ज्ञानवान् वै
सरलसुगुणयुक्ता दिव्यरूपा च माता |
मधुरसरसवाणी सर्वदा मे मुखस्था 
भरतकुलजवाग्मी दीपकोहं सुपुत्रः|| 
           मालिनिछन्दसि मया स्वकीयोयं परिचयः प्रस्तुतः |
भवतां प्रियमित्रं दीपकवात्स्यः||

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)