मङ्गलपरिणयः

मघोन इव गैर्वाणः श्रीमान् वात्स्यः,
शचीव सुभगा कल्याणी कालिन्दी,
शुभे परिणयेऽस्मिन् ब्रह्माद्या देवाः,
सुभद्रमनयोः कुर्वन्तु गार्हस्थ्यम्।।

मघोन इव गीर्वाणः प्राज्ञो वात्स्यः,
शचीव सुभगा कल्याणी कालिन्दी,
शुभे परिणयेऽस्मिन् ब्रह्माद्या देवाः,
सुभद्रमनयोः कुर्वन्तु गार्हस्थ्यम्।।

कालिन्दीदीपकौ स्यातामायुष्मन्तौ वधूवरौ।
आशीर्वादप्रदानार्थं स्वागतमस्ति हार्दिकम्।।
स्नेहनिमन्त्रणं दद्मो ह्वातुं प्रियवयस्य ते।
मानसराजहंस! त्वम् आगमनं न विस्मरेः।।
सकुटुम्बः समागच्छेस्त्वमित्याशास्महे वयम्।
स्वागतार्थं वयं सिद्धाः सकुटुम्बाः सदा स्वयम्।।
स्वयं भवति संयोगः प्रभुकृपा यदा भवेत्।
आत्मीयस्वागतं कर्तुं प्राप्यतेऽवसरः स्वयम्।।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)