सूत्रशब्दो बह्वर्थको विद्यते इत्येतद्विवरणं मयास्यैव शोधग्रन्थस्य "प्रयोगानुसारिणो धात्वर्थाः" इत्येतस्मिन्नध्याये बहुविस्तरेण चर्चितम्।अत्र तावत् पाणिन्यादिमहर्षिभी रचितो ग्रन्थविशेषः शास्त्रवाक्यभेदश्च सूत्रशब्देन कीर्त्यते। तद्यथा- "सूत्राच्च कोपधात्" (अष्टाध्यायी-४.२.६५) इति सूत्रस्य व्याख्यायां काशिकायां "पाणिनीयमष्टकं सूत्रम्" इत्युच्यते। पुनश्च "अष्टकं सूत्रम्" इति(न्यासः) तदिदं सूत्रपदेन कापिलं साङ्ख्यसूत्रं, पातञ्जलं योगसूत्रं,गौतमीयं न्यायसूत्रं,काणादं वैशेषिकसूत्रं,जैमिनीयं मीमांसासूत्रम्,बादरायणीयं वेदान्तसूत्रञ्चेति प्रभृतीनां शास्त्रीयसूत्रात्मकग्रन्थानां बोधो भवति। सूत्रलक्षणं तदित्थमुच्यते- "अल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वम्" इति सूत्रलक्षणम्। अन्यद्धि- “स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः।।” एतद्वचनस्यायमाशयो यत्- अल्पाक्षरान्वितं बह्वर्थबोधकत्वं सन्देहरहितं सारभूतं स्तोभरहितम् अनवद्यञ्च शास्त्रवाक्यं सूत्रं व्यपदिश्यते।शास्त्रवाक्यात्मकानां सूत्राणां व्या...
Comments
Post a Comment