विभवपदनिर्वचनम्

"भवतीति भवः" इति शब्दः सत्ता-प्राप्ति-ऐश्वर्यशिवाद्यर्थकः।तत्र सत्ता नाम स्थितिर्विद्यमानता विशिष्टो भवो यस्य इति विग्रहे बहुव्रीहिसमासे विभवः इति सञ्ज्ञाशब्दः निष्पद्यते।यस्यार्थो विशिष्टसत्ताको जनो विशिष्टैश्वर्यसम्पन्नो जनो वार्थः।"भूयते इति भवः" जन्मार्थकः शब्दः। विशिष्टो भवः(जन्म) यस्य इति विभवः। विशिष्टं किञ्चित् कर्तुं जन्म यस्याभवत् स विभवपदवाच्यार्थ इति फलतीति मन्मतम्।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)