जन्मदिवसशुभकामनाः
शुभदं शिवदं भूयाज्जनिदिनं सुहृन्मम।
यथेष्टं जीवने याहि वर्तते शुभकामना।।
शुक्लपक्षे यथा भान्ति चन्द्रमस: समा: कला:।
तथा स्वजीवने भातु मुदितवदनो भवान्।।
वर्धतां सततं कीर्तिस्तेऽखिलभुवने सुहृत्।
सन्तिष्ठेश्जीवने नित्यं सन्ति नश्शुभकामना:।।
#वात्स्यकोश:
🎂🎂🎂🎂🎂🎂
#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
#दीपकवात्स्य:
Comments
Post a Comment