मङ्गलपरिणयोत्सवः

ॐ आत्मकुलदेवताभ्यो नमः
ॐगणेशाय नमः
ॐसुरभारत्यै नमः
          निमन्त्रणपत्रम्
          मङ्गलपरिणयोत्सव:   (10/06/2022-शुक्रवासर:)
चिरञ्जीवी दीपकवात्स्यः
            सयुजा
आयुष्मती कालिन्दी
 
प्रेषको निमन्त्रकश्च 
श्रीशिवशङ्करचौधरी
ग्राम:-लगमा(रामभद्रपुरम्)
जनपदम्-दरभङ्गा,
राज्यम्-बिहारम्-847407
सम्पर्कसूत्रम्
9971371575
8952908598
 
             सेवायाम्
        श्री-
      --------------------------------
       मङ्गलपरिणयोत्सवे
वरपक्षः कन्यापक्षश्च भवतां हार्दं स्वागतं व्याहरति।


मम व्रतं ते हृदयं दधामि
मम चित्तमनुचित्तं ते अस्तु।
मम वाचमेकमना जुषश्च 
प्रजापतिष्ट्वा नियुनक्तु मह्यम्।।

     "परिणयो हि नाम जीवयोः चित्तयोश्च द्वैतस्य अद्वैते परिणतिः"

आत्मीयबान्धवाः!
जगज्जननीजगदम्बाया जगदाद्यपरमेष्ठिनश्च असीमानुकम्पया तथा आत्मकुलदेवताप्रसादात् श्रीशिवशङ्करचौधरिसुपुत्रस्य मङ्गलपरिणयोत्सवे भवतां हार्दिकं स्वागतम्।

चिरञ्जीवी दीपकवात्स्यः
      सयुजा
आयुष्मती कालिन्दी
अनयोः दाम्पत्यसूत्रबन्धनस्य पावनमधुरवेलायां शुभाशीर्वादानां मृदुलज्योत्सनया गार्हस्थ्यजीवनं मङ्गलमयं कर्तुं सादरं सकुटुम्बो भवान् निमन्त्र्यते।
"कालिन्दीदीपकौ स्यातामायुष्मन्तौ वधूवरौ।
आशीर्वादप्रदानार्थं स्वागतमस्ति हार्दिकम्।।"
  "भवताम् आगमनम् अस्मत्सौभाग्यम्"

यदेतद् हृदयं तव तदस्तु हृदयं मम।
यदिदं हृदयं मम तदस्तु हृदयं तव।।


       "परिणयस्य मधुरकलापा:"
वरवरणम् (शगुन) प्रीतिभोजश्च-ज्येष्ठमासः, शुक्लपक्षः,दशमीतिथिः,गुरुवासरः।
(तदनुसारं दिनाङ्कः-09/06/2022)
प्रीतिभोजस्थलम्-लगमाग्रामे अस्माकं निवासस्थानम्।
विवाहः-ज्येष्ठमासः, शुक्लपक्षः,एकादशीतिथिः,शुक्रवासरः।
(तदनुसारं दिनाङ्कः-10/06/2022)
वैवाहिकविधिविधानम्-रात्रौ शुभमुहूर्तानुसारम्।
(ध्यातव्यम्-वरयात्राप्रस्थानम् अस्माकं निवासस्थानात् "लगमा"ग्रामाद् "बेलौन"ग्रामं प्रति प्रस्थास्यति।

स्नेहनिमनत्रणं दद्मो ह्वातुं प्रियवयस्य ते।
मानसराजहंस हे!आगमनं न विस्मरेः।।
सकुटुम्बः समागच्छेस्त्वमित्याशास्महे वयम्।
स्वागतार्थं स्वयं सिद्धाः सकुटुम्बाः सदा वयम्।।


मघोन इव गैर्वाणः श्रीमान् वात्स्यः,
शचीव सुभगा कल्याणी कालिन्दी।
शुभे परिणयेऽस्मिन् सर्वे स्वर्देवाः,
सुभद्रमनयोः कुर्वन्तु गार्हस्थ्यम्।।

               "विनीताः"
    वरपक्षः
पितामहः-स्व.पिताम्बरचौधरी
पितृव्यौ-श्रीराधारमणचौधरी
             श्रीललनचौधरी
पिता-श्रीशिवशङ्करचौधरी
सहोदरः-धीरजकुमारचौधरी
भ्रातरः-सञ्जयचौधरी,राजीवचौधरी,
अटलबिहारीचौधरी,आशिषचौधरी.,
आकाशचौधरी।
पता -लगमा (रामभद्रपुरम्),
दरभङ्गा,बिहारम्-847407
सम्पर्कसूत्रम्-
9971371575,
8952908598
           
         "कन्यापक्षः"
पितामहः-स्व.बद्रीनारायणझाः
पितृव्यः-डाॅ.त्रिलोचनझा:
पिता-डाॅ.शिवलोचनझाः
भ्राता-अभिनवझाः
पता-बेलौनग्रामः,नवादा,
दरभङ्गा,बिहारम्।
सम्पर्कसूत्रम्-
9473369943
7488607677


दर्शनाभिलाषिण: स्वागताभिलाषिणश्च
          समस्तचौधरिपरिवारः
             समस्तझापरिवारः
            सुरभारतीसमुपासकाश्च


Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)