काव्यसम्प्रदायाः(काव्यवादाः)

"काव्यसम्प्रदाया:"(काव्यवादाः)
सम्प्रदाया: क्रमेणैव रसालङ्काररीतय:।
वक्रोक्तिर्ध्वनिरौचित्यं षडेते कविकीर्तिता:।।
रसप्रवर्तकाचार्यो भरताख्यो महामुनि:।
अलङ्कारस्य वक्तारो भामहोद्भटरुद्रटा:।।
*प्रतिहारेन्दुराजश्च कविर्दण्डी च रुय्यकः।
रीतिप्रवर्तक: काव्ये कविराचार्यवामनः।
वक्रोक्तिसम्प्रदायस्य श्रीराजानककुन्तक:।।
ध्वनिप्रवर्तको विद्वान् आचार्यानन्दवर्धन:।
औचित्यसम्प्रदायस्य क्षेमेन्द्रोऽस्ति प्रवर्तक:।।
काव्यस्य सम्प्रदाया वै वर्णिता: सप्रवर्तका:।
चमत्कारस्य वक्ता च कविचन्द्रो विश्वेश्वर:।
पद्यबद्धा यथाबुद्धि छात्राणां हितसिद्धये।।  

      "वात्स्यकोश:"(काव्यालोक:)

रसाऽलङ्काररीति-वक्रोक्तिध्वन्यौचित्यकाः- षट्काव्यसम्प्रदाया:-वात्स्यसूत्रम्

रचनाकार:-दीपकवात्स्य:
(दीपक-कुमार-चौधरी)
स्वच्छभाषाभियानम्
सुरभारतीसमुपासका:
संस्कृतभारती

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)