"श्रीमच्छङ्कराचार्यो नो हृदि राजताम्"

      "श्रीमच्छङ्कराचार्यो हृदि राजताम्"
ऋग्वेदीयो जगन्नाथपुर्यां गोवर्धनो मठः।
प्रज्ञानं ब्रह्म पूर्वस्यां पद्मपादस्तथोत्कले।।

श्रृङ्गेरीशारदापीठो दक्षिणस्यां कर्णाटके।
सुरेश्वरो यजुर्वेदीयोऽहं ब्रह्मास्मि राजते।।

द्वारिकाशारदापीठः पश्चिमदिशि गुर्जरे।
श्रीहस्तामलकाचार्यस्सामोद्धृतं तत्त्वमसि।।

द्वारिकाशारदापीठः पश्चिमदिशि गुर्जरे।
पृथ्वीधरो महावाक्यं सामोद्धृतं तत्त्वमसि।।

अयमात्मा ब्रह्माऽथर्ववेदश्ज्योतिर्मठः स्मृतः।
उत्तराखण्डके राज्ये चोत्तरदिशि तोटकः।।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)