महनीयो लगमाब्रह्मचर्याश्रमः

"महनीयो लगमास्थो ब्रह्मचर्याश्रम:"
            पौराणिककालादाराभ्य गुरुकुलेषु गुरोःसकाशम् उषित्वा विद्याध्ययनस्य परम्परा प्रचलिता आसीत्।परं परवर्तिनि काले अनेकेषां धूर्त्तानां वैदेशिकशासकानाम् आक्रमणप्रभावात् परम्परेयं समाप्तिप्राया सञ्जाता विद्यते। साम्प्रतिके काले गुरुकुलापेक्षया अत्याधुनिकविद्यालयेषु विद्याध्ययनाय बालाः प्रेष्यन्ते।तेन बालेषु वस्तुतो मौलिकगुणानामभावो भूरिशो दरीदृश्यते।प्रायेण आधुनिका बाला भारतीयज्ञानविज्ञानवैभावाद्विमुखा विश्ववन्दिताया भारतीयसंस्कृतेरनभिज्ञाश्च भवन्ति।अतस्ते मनोरुग्णा इवाभान्ति।
                 भारतीयज्ञानविज्ञाननिधिप्रकाशाय जगदाद्यसंस्कृतेः संरक्षणाय च लगमास्थः
"जगदीशनारायणब्रह्मचर्याश्रमः" अष्टपञ्चाशदुत्तरनवदशशततमाब्दाद्(((1958ई.तः) अहर्निशं प्रवर्तते। 
        अयं "जगदीशनारायणब्रह्मचर्याश्रमः"
बिहारप्रान्तस्य दरभङ्गामण्डलान्तर्गते लगमाग्रामे चतुष्षष्ट्युत्तरनवदशशततमवर्षे (1964ईशवीयवर्षे) तपोधनेन दिव्यमहात्मना अस्मत्सद्गुरुणा  श्रीजगदीशनारायणब्रह्मचारिवर्येण संस्थापितोऽभूत्।आश्रमेऽस्मिन् अद्यापि मन्वादिधर्मशास्त्रीयग्रन्थेषु प्रतिपादितानां षड्विधविप्रकर्मणाम् आचरणं क्रियते।अत्रत्या गुरुकुलच्छात्रा अद्यापि भिक्षाटनं कृत्वा ज्ञानार्जनस्य सारस्वतसाधनया आश्रमपरम्परां सश्रद्धं मनोयोगेन परिपालयन्ति।
           लगमाब्रह्मचर्याश्रमस्य महनीयप्रभावादेव लगमाग्रामे संस्कृतस्य चतस्रः संस्थाः कार्यं कुर्वाणा वर्तन्ते।तद्यथा-
१.जगदीशनारायणब्रह्मचर्याश्रम-
आदर्शसंस्कृतमहाविद्यालयः
(केन्द्रीयसंस्कृतविश्वविद्यालयद्वारा मान्यताप्राप्त:)।
२.जगदशनारायणब्रह्मचर्याश्रम-
संस्कृतविद्यालयः((केन्द्रीयसंस्कृतविश्वविद्यालयद्वारा मान्यताप्राप्त:)।
३.जगदीशनारायणब्रह्मचर्याश्रम-
उपशास्त्रिसंस्कृतमहाविद्यालयः
(कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा मान्यताप्राप्तः)
४.श्रीशङ्करसंस्कृतोच्चविद्यालयः
(बिहारसंस्कृतशिक्षाबोर्ड-पटनाद्वारा मान्यताप्राप्तः)।
            एतासु संस्थासु वेदवेदाङ्गभारतीयदर्शनानाम् अध्ययनं कार्यते।
       लगमाब्रह्मचर्याश्रमे दिनारम्भः प्रातस्समरणेन भवति।ततः सन्ध्यावन्दनं,नित्यहोमः, भगवदाराधनं, वेदाभ्यासः,पाकनिर्माणं,गोसेवा,
भिक्षाटनमिति प्रभृतीनि कर्माणि ब्रह्मचर्याश्रमगुरुकुलच्छात्राः सम्पादयन्ति।तत्र गुरुकुलच्छात्रेषु सर्वेषां पृथक्-पृथग् दायित्वनिर्धारणं भवति।येन महनीया आश्रमव्यवस्था अनवरतरूपेण गङ्गाप्रवाहवत् प्रवाहमाना सुसङ्गता वर्तते।
          लगमाब्रह्मचर्याश्रमेऽस्मिन् अध्येतुं बिहारझारखण्डयोः सुदूरात् क्षेत्रात् नेपालदेशाच्च अन्तेवसिनश्छात्राः समायान्ति।अत्रत्याः छात्रा निखिलेऽपि भारतवर्षे विविधोन्नतपदानि विभूषयन्ति एवं समग्रे भारतवर्षे  लगमाब्रह्मचर्याश्रमस्य गौरवगाथां कीर्तयन्तः एतद्गुरुकुलयशोलतापताकां समुत्तोलयन्ति। लगमाब्रह्मचर्याश्रमस्य 
छात्रा न केवलं  शिक्षा-संस्कृतसेवा-वैदिकधर्मप्रचार-
कर्मकाण्डादिक्षेत्रेषु ब्रह्मचर्याश्रमप्रतिष्ठां मण्डयन्तो राजन्ते अपितु देशस्य प्राशासनिकसेवापदं सैन्यधर्मगुरुपदञ्च अलङ्कुर्वन्तो राष्ट्रसेवाधर्मं परिपालयन्ति।अत्र अधीतिनश्छात्रा महर्षिबादरायण-साहित्याकादमी-
कालिदास-बाणप्रभृतिभिः सम्मानपुरुस्कारैः सभाजिता वर्तन्ते।
          लगमाब्रह्मचर्याश्रमस्य कानिचन प्रमुखानि वैशिष्ट्यानि-
१.मन्वादिस्मृतिप्रोक्तधर्मशास्त्राचरणम्।
२.षण्णां विप्रकर्मणां परिपालनम्।
३.प्रातस्स्मरणं, सन्ध्यावन्दनं,नित्यहोमो, भगवदाराधनं,वेदाभ्यासो,गीतापाठश्च।
४.गोसेवा।
५.भिक्षाटनम्।
६.भारतीयज्ञानविज्ञाननिधिसंरक्षणम्।
७.शास्त्राध्ययनञ्च।
             एतानि प्रमुखानि वैशिष्ट्यानि एव आश्रमपरम्परायां गुरुकुलपरम्परायाञ्च मूर्ध्नि स्थाने प्रतिष्ठापयन्ति।
लेखको-दीपककुमारचौधरी
संस्कृतशोधार्थी-दीपकवात्स्यः
स्वच्छभाषाभियानम् सुरभारतीसमुपासकाः
संस्कृतभारती

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)