आधुनिककाले संस्कृतस्य प्रासङ्गिकता उपयोगिता वा"
"आधुनिककाले संस्कृतस्य प्रासङ्गिकता उपयोगिता वा"
सर्वप्रथमं तु किं नाम संस्कृतमिति जिज्ञाषितञ्चेत् समुपसर्गपूर्वकात् "डुकृञ् करणे " धातो: क्त प्रत्यये तथा "सम्परिभ्यां करोतौ भूषणे "इति सूत्रेण सुडागमे सति संस्कृतशब्दः निगद्यते । भाष्यतेsनयेति भाषा ,संस्कृतं भाष्यतेsनयेति संस्कृतभाषा ।
संस्कृतभाषा विश्वेषु सर्वप्रचलितभाषासु प्राचीनतमा संस्कृतापरिष्कृतापरिशुद्धापरिमार्जिताव्याकरणादिदोष विवर्जितासर्वोत्तमसाहित्यसंयुक्ता चास्ति । संस्कृतभाषां प्रति काव्यादर्शे
आचार्यदण्डिनोल्लिखितं यत् - "संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभि: " इतोsपि कृष्णद्वैपायणभाष्येsप्युल्लिखितं वर्तते यत् -
" अनादिनिधनानित्या वागुत्सृष्टा स्वयम्भूवा ।
आदौ वेदमयी दिव्या यतः सर्वा प्रभृतयः।।"
प्रथमश्लोकेन ज्ञायते यत् संस्कृतभाषा देवभाषा तथा सृष्टेरनन्तरं पूर्वं महर्षिभिरन्वा ख्यातारर्थात् कथिता उक्ता वा।द्वितीयश्लोकेन ज्ञायते यत् संस्कृतभाषा अनादिकालतः अजेयानित्यावागुत्सृष्टा चास्ति। एषा आदौ वेदमयी आगतवती , यतः सर्वभाषानां प्रभृतयः सन्ति ।
पुराकाले एषा सर्वजनानां वार्तालापस्य तथा विभिन्नक्रियाकलापस्य भाषा आसीत् ।पाणिने: सूत्रष्टाध्यायां, याष्कस्य निरूक्ते तथा भगवतः पतञ्जले:महाभाष्यादिग्रन्थेष्वेत- स्य बहूनि उदाहरणानि प्राप्यन्ते ।
यथा- पात्रे समेता: ,तीर्थध्वाङ्क्षः, खट्वारूढो जाल्मः, भारं बाधति , भारं न बाधते राजन् यथा बाधति बाधते इत्यादयः।
पूर्वंमस्माकं मनसि आगच्छति यत् वयं संस्कृतभाषां कथं पठामः ?
तर्ह्येतस्मात्कारणादेव वयं संस्कृतभाषां पठामः, वयं भारतवासिनः खलु बारं-बारं महर्षिभि: साहित्यग्रन्थेषु काव्येषु चोक्तम् यत् -
"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा "
अत एव भारतीयसंस्कृते: तथा प्रतिष्ठाया: रक्षणार्थं संस्कृतमवश्यमेव पठनीयम् ।भारतीयसंस्कृतयः तु षोडशसंस्काराणि सन्ति, तान्यपि संस्कृते एव सन्निहितानि सन्ति ।एतस्मिन् विषये कपिलमुनिनोक्तम् यत् -
"संस्कृतंसंस्कृतेर्मूलं छ्ञानविज्ञानवारिधि:।
ववेदतत्वार्थसंजुष्टं लोकाsलोककरं शिवम् ।।"
संस्कृतं तु संस्कृते :मूलमस्ति अतः मूलस्य रक्षा प्रथमं करणीया। यदि मूलं सुरक्षितञ्चेत् शाखा स्वयमेव सुरक्षिता:।
एतस्या: उपयोगिता अस्मात् कारणात् विद्यते यत् एषैव सा भाषाsस्ति यतः भारतीयार्य तथा विदेशीभाषानाञ्चोत्पत्तिर्बभूव । एतासां सर्वासां भाषानामियं जननी । सर्वासां भाषानां मूलरूपज्ञानाय एतस्या:ज्ञानमावश्यकम् । यथा केनचित् उक्तम् -
"मातुस्तनयो विना बालो यथा नो पुष्टिमर्हति ।
समाजो भारतीयोsयम् अपुष्टं संस्कृतं विना ।।"
एतस्या: भाषाया: पाणिने: व्याकरणं सर्वसमर्थम् अर्थात् लौकिकवैदिकयो:प्रयोगान् सिद्धं करोति तथा अक्षुण्णशब्दभण्डार युक्ताश्चास्ति । आर्यभाषाया: व्याकरणमपि एतस्या: व्याकरणस्याश्रयं स्वीकृत्यैव द्योतते ।एतस्या: व्याकरणाधिरितेनैव सङ्गणकस्य निर्माणमभवत् ।एतदपि संस्कृतभाषाया:उपादेया अस्मिन् संगणकयुगेsस्मिन् ।
एषा सम्पूर्णं भारतवर्षमेकस्मिन् सूत्रे बध्नाति अर्थात् राष्ट्रियैकतायारखण्डताया:प्रतीकभूता:तथा राष्ट्रस्य नवनिर्माणसाधनञ्च ।सर्वासां भाषानां पूरकभाषा तथा विज्ञान एवं तकनीक क्षेत्रे कोषागारमस्ति ।
एतस्या:चिन्तनं सर्वजनहिताय तथा च सर्वजनसुखाय वर्तते तथा सम्पूर्ण विश्वं स्वबन्धुत्वं प्रतिपादयति ।यथोक्तानि -
"अयं निजः परोवेत्ति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।"
"सर्वे भवन्तु सुखीनः सर्वे सन्तु निरामया ।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग्भवेत् ।।"
"माता भूमि पुत्रोsहं पृथिव्या:"।
"द्यौ:शान्तिरन्त ........।"
आब्राह्मणब्राह्मणो ब्रह्मवर्चसि ......।"
"रामादिवत् प्रवर्तितव्यं न तु रावणादिवत् ।"
मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत् सर्वभूतेषु यःपश्यति सः पण्डितः।"
इत्यादयः उदारविचारा:एकस्यामपि अन्यभाषायां नास्ति, अतः अस्माकम् सर्वस्वमेवैषा भाषा ।
अत्रैव सम्पूर्णवाङ्मयं
सन्निहिताsस्ति ।यथा- वेद उपनिषद्गीताब्रह्मसूत्ररामायण महाभारतञ्च।
एते अस्माकं पथप्रदर्शका:मार्गदर्वका:चास्ति ।कर्तव्याsकर्तव्य बोधका:मनोरञ्जका:सदसद्विवेचका:।
"एतस्मिन् विषये भारतस्य पूर्वप्रधानमन्त्रिणा पंडितश्री जवाहरलालनेहरू महोदयेनोक्तम् यदि कोsपि मां पृच्छेत् भारतस्य प्रमुख सम्पत्ति का अस्ति? तर्हि अहं नि:संकोचं वदिष्यामि संस्कृतभाषा तथा तस्या:विपुलसाहित्यञ्च ।"
अतः एतादृशी गौरवभूताया:संस्कृतभाषा राष्ट्रियैकतायै उपयुक्ता अस्त्येव तथा च विश्वस्य कृतेsपि उपयुक्तेsति एतस्या:चिन्तनेन ज्ञायते । अतः एतस्या पठनस्य उपादेयता तु सार्वभौमिकमवश्यमेव ।यतोहि वयं भारतीया:खलु अस्माकं जीवनस्य प्राणभूता एषैव ।
"न यत्र देशोद्धृति कामनास्ते,
मातृभूमेर्हितचिन्तनञ्च ।
न राष्ट्र रक्षा बलिदानभावः ,
श्मशानतुल्यं नरजीवनं तत् ।।
अतः यदि एषा सुरक्षिता भविष्यति चेदेव वयं सुरक्षिता: भवामः । एषा राष्ट्रिस्यैकताsखण्डता सदा विराजयत्विति कामये विस्तार भयेन विरम्यते ।
जयतु संस्कृतम् जयतु भारतम
#सुरभारतीसमुपासका :
#स्वच्छभाषाभियानम्
Comments
Post a Comment