"नीतिकाव्यपरम्परायां अभिनवं नीतिकाव्यं नीतिमौक्तकम्"

                धन्योऽयम् अस्माकं भारतदेशः।यत्र जनमानसपावनी निखिललोककल्याणकारिणी शब्दसन्दोहप्रसविनी मधुरालाप-संलापविहारिणी काव्याऽमृतनिर्झरिणी सुरभारती राजते। विद्यमानेषु निखिलेषु वाङ्मयेषु यस्या वाङ्मयं सर्वोत्कृष्टं सर्वाधिकविशालसाहित्यसम्पदायुक्तञ्च वर्तते।इयमेव संस्कृतभाषा देववाणी, देवभाषा,अमरवाणी,गीर्वाणवाणी,
सुरभारती इति प्रभृतिभिः सञ्ज्ञाभिः सङ्कीर्त्यते।यस्याः प्रभावादेव भारतदेशः पुरा विश्वगुरुत्वपदवीम् आसाद्य निखिलविश्ववन्द्यो देवानां प्रियो भूभागविशेषश्चासीत्।यत्र सर्वे देवा मुहुर्मुहुः जन्म कामयन्ते स्म।
         अस्माकं चत्वारो वेदाः सर्वा उपनिषदः स्मृतयो विविधानि शास्त्राणि आस्तिकनास्तिकप्रभृतीनि दर्शनानि रामायणमहाभारताद्यैतिहासिकग्रन्था अष्टादशपुराणानि तथोपपुराणानि अनेकानि लोकमनोरञ्जनसम्पादकानि महाकाव्यकथानाटकप्रभृतीनि साहित्यानि च अस्यामेव भाषायां लिखितानि सन्ति।इयमेव भाषा सर्वासाम् आर्यभाषाणां जननीति भाषातत्ववादिभिर्भाषावैज्ञानिकैश्च मुक्तकण्ठैरङ्गीक्रियते।अस्या भाषाया महत्त्वं वर्णयता महर्षिणा कृष्णद्वैपायनव्यासेन उक्तम् -
"अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा।
आदौ वेदमयी दिव्या यतः‌ सर्वाः प्रवृत्तयः।।"
अन्यच्च-
काव्यादर्शे महाकविर्दण्डी प्राह-
"संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः।"
          संस्कृतसाहित्यस्य आदिकविर्वाल्मीकिः अष्टादशपुराणानां महाभारतस्य च रचयिता महर्षिव्यासः कविकुलगुरुः कालिदासः अन्ये च भासाश्वघोषभारविमाघभवभूतिदण्डिबाणादयो महाकवयः स्वकीयैः अनुपमग्रन्थरत्नैः अद्यापि पाठकानां हृदि विलसन्ति मुहुर्मुहुः तन्मनोमयूरं नर्तयन्ति अन्तःकरणात्मिकां महतीं बुद्धिं विनोदयन्ति च।
              संस्कृतभाषा चिरपुरातनी नित्यनूतना सततं निजमातृवद् वन्दनीया च।यतो भारतमातुः स्वातन्त्र्यं वैभवम् अखण्डत्वं सांस्कृतिकमेकत्वञ्च अनया संस्कृतभाषया एव सुरक्षितं स्यात्। वस्तुतः संस्कृतं भारतभुवो गौरवं वर्तते।एषा भाषा सर्वासु भाषासु प्राचीनतमा श्रेष्ठा च वर्तते।तदुक्तं-
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तत्रापि काव्यं मधुरं तस्मादपि सुभाषितम्॥
          अस्यायं भावो यन्निखिलाषु भाषासु गीर्वाणभारती संस्कृतभाषा मुख्या मधुरा दिव्या च विद्यते।तत्रापि काव्यम् इतोऽपि अधिकं चमत्कृत्याधायकं भवति।काव्येषु अपि यत् सुभाषितं भवति ततोऽपि अधिकं चमत्कारपूर्णं मनोरञ्जकं सत्पथप्रदर्शकञ्च भवति। वस्तुतः सुभाषितं संस्कृतसागरस्य अमूल्यं रत्नं विद्यते।हितोपदेशे सुभाषितमाहात्म्यविषये तदित्थम् उच्यते-
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसञ्ज्ञा विधीयते।।
            सुष्ठु भाषितं नाम सुभाषितम्।संस्कृतवाङ्मये यन्नीतिबोधकं पद्यं भवति तत् सुभाषितपदेन उच्यते।नीतिशास्त्रम् आचारव्यवहारं शिक्षयति सत्पथं प्रदर्शयति कर्त्तव्याकर्त्तव्यं बोधयति च।"केन सह कथं व्यहर्तव्यम्?,
किं कर्त्तव्यम्?,किम् अकर्त्तव्यम्?,
कः सन्मार्गः?,कः असन्मार्गः,
कः कण्टकाकीर्णमार्गः?,
कः सरलमार्गः?,जीवननिर्वाहः सौलभ्येन कथं स्यात्?,आदर्शजीवनयापनं कथं स्यात्? इति प्रभृतीनां समेषां प्रश्नानां समाधानस्य प्रतिपादनं नीतिशास्त्रे क्रियते।
           नीयन्ते संलभ्यन्ते उपायादयः ऐहिकाऽमुष्मिकार्था वा अस्याम् अनया वा इति व्युत्पत्त्या "णीञ् प्रापणे" इति भ्वादिगणीयस्थाद्धातोः अधिकरणे करणे च  "क्तिन् "प्रत्ययेन "नीतिः" इति पदं सिध्यति।उपयुक्ते स्थाने समुचिते काले उपयुक्तं कार्यं कर्तुं कला भवति नीतिः।अतः नीतिशास्त्रस्य आचारशास्त्रं व्यवहारशास्त्रं,विधिशास्त्रं नयशास्त्रं,नीतिदर्शनं,व्यवहारदर्शनं,
नीतिविज्ञानं वा नामान्तराणि सन्ति। संस्कृतवाङ्मये नीतिशास्त्रसम्बद्धग्रन्थरचनानां महती सुदीर्घा परम्परा वर्तते।                                   नीतिकाव्येतिहास:"
              नीतिकाव्यस्य आदिमो ग्रन्थः चाणक्यनीतिसङ्ग्रहो दृष्टिपथो भवति।अयमेव ग्रन्थः "चाणक्यनीतिः"इति नाम्ना विश्वविख्यातो वर्तते।
आचार्यचाणक्येन नीतिसम्बद्धा अनेके ग्रन्था रचिताः।तद्यथा-चाणक्यनीतिशास्त्रम्
(चाणक्यनीतिसारसङ्ग्रहः),
वृद्धचाणक्यम्,लघचाणक्यम्,
नीतिद्विषष्टिका च।ततः नीतिशतकम् (भर्तृहरिः),मोहमुद्गरम्(शङ्कराचार्यः),कुट्टनीमतम्(दामोदरगुप्तः),
सुभाषितरत्नसन्दोहः(जैनाचार्यः अमितगतिस्वामी),
धर्मपरीक्षा(अमितगतिस्वामी),
कलाविलासः(महाकविः क्षेमेन्द्रः),
समयमातृका(आचार्यक्षेमेन्द्रः),
पुरुषपरीक्षा(महाकविः विद्यापतिः),
दर्पदलनम्,चारुचर्या,सेव्यसेवकोपदेशः,देशोपदेशः,नर्ममाला च इति प्रभृतयोऽनेके नीतिग्रन्था संस्कृतवाङ्मये राजन्ते।
                   आधुनिके कालेऽपि अनेके कवयः नीतिग्रन्थान् अरचयन्।तद्यथा-
नीतिसूक्तम्(पं.विष्णुकान्तशुक्लः),
अभिनवसुभाषितकाव्यावलिः(डाॅ.भावगान्धिवर्यः),
अभिनवनीतिशतकम्(
श्रीशशिकान्ततिवारी) इति प्रभृतयः। एतस्मिन् क्रमे मानवजीवनस्य सर्वस्मिन् पक्षे सर्वावास्थायाञ्च नीतिकाव्यस्य सार्वत्रिकं माहात्म्यं लोकोपयिगित्वञ्चानुभूय सुरभारतीसपर्यायां सुरभारतीसमुपासकानां सान्निध्ये वत्सगोत्रोद्भवोऽहं दीपककुमारचौधरी (दीपकवात्स्यः) "नीतिमौक्तिकम्" इत्याख्यम् नीतिग्रन्थम् रचनायां प्रवृत्तः।ग्रन्थेऽस्मिन् नैतिककर्त्तव्यानाम् आत्मीयनुशासनानां सदाचाराणां जीवननिर्वाहनियमानाञ्चादीनां  जीवनोपयोगितत्वानां सान्वयैः दीप्तिहिन्दीव्याख्यासहितैः शताधिकैः पद्यैः प्रस्तुतिः कृता वर्तते।
अत्र नीतयः एव मौक्तिकानि/मुक्तास्वरूपा रत्नविशेषाः,लोके मोतीपदवाच्याः) सन्ति।मुक्ता एव मौक्तिकम् इति विग्रहे विनयादिभ्यष्ठक्-अष्टाध्यायी-5/4/34) इति पाणिनिसूत्रेण स्वार्थिकठक्प्रत्ययेन "मौक्तिकम्" इति पदं सिध्यति।तस्माद् ग्रन्थोऽयं अन्वर्थनामा वर्तते "नीतिमौक्तिकम्"इति शम्।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)