श्रीरामचन्द्राष्टकम्
"श्रीरामचन्द्राष्टकम्"
कौसल्येयो महासत्त्वो महदिक्ष्वाकुवंशजः।
अन्तेवासी वशिष्ठस्य रामो दशरथात्मजः।।
कौसल्येयो महासत्त्वो महदिक्ष्वाकुवंशजः।
अन्तेवासी वशिष्ठस्य रामो दशरथात्मजः।।
अहिल्योद्धारको देवो लोककल्याणकारकः।
विश्वामित्रक्रतोस्त्राता सीताचित्तापहारकः।।
विश्वामित्रक्रतोस्त्राता सीताचित्तापहारकः।।
जघन्यताडकाहन्ता मुनिकार्यप्रसाधकः।
ऋषिकुलान्वयत्राता देवानां हर्षकारकः।।
महाबली महावीरो मनस्वी लोकनायकः।
महाबाहुर्महासेनो महारिदलनाशकः।।
ऋषिकुलान्वयत्राता देवानां हर्षकारकः।।
महाबली महावीरो मनस्वी लोकनायकः।
महाबाहुर्महासेनो महारिदलनाशकः।।
विश्वकल्याणकारी च सुरलोकाभयङ्करः।
रामेश्वरो महासत्त्वो महायोगी शुभङ्करः।।
प्रजानां भरणाच्छ्रीमां भरतो भरताग्रजः।
लोकानां रञ्जनाद्राजा रामो लक्ष्मणपूर्वजः।।
योगिषु रमणाद्रामो विभीषणद्विभीषणः।
रमापतिः सदा पातु दिव्यजन्मा सुलक्षणः।।
योगिणां रमणाधारो विष्णोरंशो रघूत्तमः।
प्रजानां भरणाच्छ्रीमां भरतो भरताग्रजः।
लोकानां रञ्जनाद्राजा रामो लक्ष्मणपूर्वजः।।
योगिषु रमणाद्रामो विभीषणद्विभीषणः।
रमापतिः सदा पातु दिव्यजन्मा सुलक्षणः।।
योगिणां रमणाधारो विष्णोरंशो रघूत्तमः।
पुराणपुरुषो रामो मर्यादापुरुषोत्तमः।।
एतद्वात्स्यकृतं स्तोत्रं रामाष्टकं पठेन्नरः।
हरतु सकलारिष्टं साक्षात्तस्य हरिहरः।।
(वात्स्यकृतं श्रीरामचन्द्राष्टकं रामचन्द्रार्पणमस्तु)
रचनाकारः-दीपकवात्स्यः
एतद्वात्स्यकृतं स्तोत्रं रामाष्टकं पठेन्नरः।
हरतु सकलारिष्टं साक्षात्तस्य हरिहरः।।
(वात्स्यकृतं श्रीरामचन्द्राष्टकं रामचन्द्रार्पणमस्तु)
रचनाकारः-दीपकवात्स्यः
Comments
Post a Comment