मातृस्तवनदशकम्

"मातृस्तवनदशकम्"
त्वमेव पाठ्यञ्च पठ्यं त्वमेव,
त्वमेव नाट्यञ्च नृत्यं त्वमेव।
त्वमेव गीतञ्च गानं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।१।।
त्वमेव लक्ष्यञ्च चिन्त्यं त्वमेव,
त्वमेव सेव्यञ्च ध्येयं त्वमेव।
त्वमेव लेख्यञ्च काव्यं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।२।।
त्वमेव रक्तञ्च जीवस्त्वमेव,
त्वमेव बन्धुश्च मित्रं त्वमेव
त्वमेव विद्या च वेद्यं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।३।।
त्वमेव चित्तञ्च बुद्धिस्त्वमेव,
त्वमेव सत्त्वञ्च शक्तिस्त्वमेव।
त्वमेव कीर्तिश्च कान्तिस्त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।४।।
त्वमेव धर्मश्च कर्म त्वमेव
त्वमेव धार्यञ्च कार्यं त्वमेव।
त्वमेव पुण्यञ्च दृष्टं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।५।।
त्वमेव भक्ष्यञ्च भोज्यं त्वमेव,
त्वमेव पेयञ्च लेह्यं त्वमेव।
त्वमेव हृद्यञ्च हार्दं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।६।।
त्वमेव वित्तञ्च सम्पत्त्वमेव,
त्वमेव दत्तञ्च दानं त्वमेव।
त्वमेव शस्त्रञ्च शास्त्रं त्वमेव,
त्वमेव सर्वं मम देवि!देवि।।७।।
त्वमेव कामश्च मोक्षस्त्वमेव,
त्वमेव माया च मोहस्त्वमेव।
त्वमेव जुष्यञ्च हव्यं त्वमेव
त्वमेव सर्वं मम देवि!देवि।।8।।
त्वमेव वस्त्रञ्च भूषा त्वमेव,
त्वमेव गन्धश्च रागस्त्वमेव।
त्वमेव गात्रञ्च रूपं त्वमेव
त्वमेव सर्वं मम देवि!देवि।।9।।
त्वमेव पूज्यञ्च पुष्पं त्वमेव,
त्वमेव दीपश्च वर्त्तिस्त्वमेव।
त्वमेव दीव्यञ्च भव्यं त्वमेव
त्वमेव सर्वं मम देवि!देवि।।10।‌।
          "वात्स्यकोशः"। रचनाकारः-दीपकवात्स्यः
(दीपककुमारचौधरी)

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)