वाग्देवीवन्दना
"वाग्देवीवन्दना"
शुभदे वरदे देवि वीणापुस्तकधारिणि।
पाहि त्वन्नो महामाये महामोहविनाशिनि।।
वागीश्वरि गिरां देवि वागधिष्ठातृदेवते।
वाचन्नो देहि वाग्देवि वीणापाणि सुरेश्वरि।।
हंसासने महाभागे विद्याबुद्धिप्रदायिनि।
विद्यान्नो देहि हे विद्ये विद्याप्रदे सरस्वति।।
शुभ्रवस्त्रावृतां विद्यां वीणापाणीं सरस्वतीम्।
विद्याप्रदायिनीं नौमि त्रैलोक्यहितकाङ्क्षया।।
वाग्देवीं भारतीं विद्यां श्वेताम्बरां सरस्वतीम्।
हंसासनां महाविद्याम् आश्रयेऽभीष्टसिद्धये।।
"वात्स्यकोश:"

Comments
Post a Comment