"प्रथमोऽध्यायः-धातुपाठेषु निहितधात्वर्थाः"
"प्रथमोऽध्यायः-धातुपाठेषु निहितधात्वर्थाः"
दधाति विविधानि शब्दरूपाणि विभिन्नान् शब्दार्थान् वा यः स धातुः।अथ च धीयन्ते पदार्था अस्मिन्निति विग्रहे "डुधाञ् धारणपोषणयोः" इत्यस्माज्जुहोत्यादिगणस्थाद्धातोरौणादिके "तुन्"इति प्रत्यये विहिते सति धातुशब्दः सिध्यति।यस्यार्थो भवति धारकाधारो धारणाधिकरणं वा।तदुच्यते वैद्यकग्रन्थे "धारणाद्धातवस्ते स्युः"इति।
माहेश्वरसम्प्रदायव्याकरणप्रतिपादको महामुनिराचार्यः पाणिनिः स्वके अष्टाध्यायीग्रन्थे धातोर्लक्षणमित्थं प्रत्यपादयत् -"भूवादयो धातवः"(अष्टाध्यायी -१.३.१) इति।तत्सूत्रव्याख्याने सिद्धान्तकौमुद्यां "क्रियावाचिनो भ्वादयो धातुसञ्ज्ञाः स्युः।तदेवं "क्रियावचनो धातुः","भाववचनो धातुः"इति धातोर्निष्कृष्टार्थलक्षणं परिस्फुटति।
धातूनाम् अर्था धात्वर्थाः।वैयाकरणभूषणसारे धात्वर्थलक्षणन्तु तदित्थं प्रतिपादितम्-
"फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।"
(वैयाकरणभूषणसारः,धात्वर्थनिर्णयः-०१)
अनया कारिकयेदं व्यज्यते यत् फलं व्यापारश्च द्वौ धात्वर्थौ वर्तेते।तत्र फलनिरूपितो व्यापारः,व्यापारनिरूपितं फलञ्च।भूषणकृन्मते फलं व्यापारश्च पृथक् पृथक् धात्वर्थौ वर्तेते परं नागेशेन तन्नाङ्गीक्रियते।
परमलघुमञ्जूषायां नागेशेन तदित्थं प्रतिपाद्यते-
"फलानुकूलो यत्नसहितो व्यापारो धात्वर्थः" इति (परमलघुमञ्जूषा)।
अयं धात्वर्थ एव समाहारेण व्यापारो भावना क्रिया चेति निगद्यते।तदुच्यते-
"यावत्सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥"
(वाक्यपदीयम्)
पुनस्तत्रैव-
"गुणभूतैरवयवैः समूहः क्रमजन्मनाम्।
बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते॥"
(वाक्यपदीयम्)
अन्यद्धि-
"व्यापारो भावना सैवोत्पादना सैव च क्रिया"
(वैयाकरणभूषणसारः,धात्वर्थनिर्णयः-०५)
तदिदं स्पष्टं भवति यद् वैयाकरणानां निकाये व्यापारो भावना क्रिया च धात्वर्थ एवान्तर्भवति।
आचार्यपाणिनिना स्वके धातुपाठे धात्वर्थनिर्देशो न कृतोऽपितु पश्चाद्वर्तिना भीमसेनाचार्येण कृत इति केषाञ्चिद्विदुषां मतम्।परमपरे बहवो विद्वांसो धात्वर्थनिर्देशं महामुनिपाणिनिकृतमेव मन्वते।ममापीदं मतं वर्तते यतोहि "मृषस्तितिक्षायाम्"(अष्टा.-१.२.२०), "तनूकरणे तक्षः"(अष्टा.-३.१.७६), "परौ भुवोऽवज्ञाने"(अष्टा.-३.३.५५), "क्षयो निवासे"(अष्टा.-६.१.२०),"अञ्चेः पूजायाम्"(अष्टा.-७.२.५३),"लुभ विमोहने"(अष्टा.-७.२.५४) च इति प्रभृतिषु पाणिनिकृतेषु अष्टाध्यायीसूत्रेषु धात्वर्थनिर्देशेन विज्ञायते यद् धात्वर्थनिर्देशो भगवता पाणिनिना स्वयं विहितो नास्त्यत्र संशयः।
अस्मिन् शोधग्रन्थे पाणिनिधातुपाठस्य प्रामुख्येण प्रयोगं कृत्वा तथा मैत्रेयरक्षितस्य "धातुप्रदीपः", क्षीरस्वामिणः "क्षीरतरङ्गिणी", सायणाचार्यस्य "माधवीयधातुवृत्तिः"
बोपदेवस्य "कविकल्पद्रुमः",भट्टमल्लस्य "आख्यातचन्द्रिका" इति प्रभृतीनां धातुपाठानां आनुषाङ्गिकतया सहयोगं स्वीकृत्य मया धात्वर्थसमीक्षा विहिता।
पाणिनिधातुपाठो वस्तुतस्तु सूत्रात्मकपद्धत्यां (सूत्रशैल्याम्) निर्मितो वर्तते।अनुसन्धानकाले पाणिनिधातुपाठस्य कानिचन वैशिष्ट्यानि अवलोकितानि तान्यत्र सारतः प्रस्तूयन्ते।
१.बाहुल्येन विभक्तिरहितस्य एकस्य धातोः पूर्वं प्रयोगं कृत्वा
सप्तमीविभक्तेरेकवचने तदर्थो निर्दिष्टो वर्तते।यथा-भ्वादिगणे "भू सत्तायाम्","एध वृद्धौ","स्पर्ध सङ्घर्षे" आदयः।अदादिगणे "अद भक्षणे","दुह प्रपूरणे","दिह उपचये" इत्यादयः।जुहोत्यादिगणे "ञिभी भये","ह्री लज्जायाम्","डुदाञ् दाने" इति प्रभृतयः।दिवादिगणे "षिवु तन्तुसन्ताने","ष्ठिवु निरसने ","इष गतौ"इति प्रभृतयः।स्वादिगणे "षूञ् अभिषवे","षिञ् बन्धने","वृञ् वरणे"इति आदयः। तुदादिगणे "तुद व्यथने","णुद प्रेरणे","दिश अतिसर्जने" इति आदयः।रुधादिगणे "रुधिर् आवरणे","खिद दैन्ये","विद विचारणे"इति आदयः।तनादिगणे "तनु विस्तारे","डुकृञ् करणे","मनु अवबोधने"इति प्रभृतयः।क्र्यादिगणे "डुक्रीञ् द्रव्यविनिमये","श्रीञ् पाके","क्नूञ् शब्दे"इति प्रभृतयः।
चुरादिगणे "चुर स्तेये","चिति स्मृत्याम्", "नट अवस्यन्दने" चादयः।
२.विभक्तिरहितस्य एकस्य धातोः पूर्वं प्रयोगं कृत्वा तत्पश्चात् सप्तमीविभक्तेर्द्विवचने तदर्थनिर्देश:।तद्यथा-भ्वादिगणे "वदि अभिवादनस्तुत्योः",अदादिगणे "हन् हिंसागत्योः",जुहोत्यादिगणे "हु दानाऽदनयोः",दिवादिगणे "स्रिवु गतिशोषणयोः",तुदादिगणे "ओविजी भयचलनयोः", रुधादिगणे "भुज पालनाभ्यवहारयोः", क्र्यादिगणे "री गतिशोषणयोः" तथा चुरादिगणे "लक्ष दर्शनाङ्कनयोः चादयः।
३.विभक्तिरहितस्य एकस्य धातोः पूर्वं प्रयोगं कृत्वा तत्पश्चात् सप्तमीविभक्तिबहुवचने तदर्थनिर्देशो विद्यते।तद्यथा-भ्वादिगणे "मदि स्तुतिमोदस्वप्नकान्तिगतिषु", दिवादिगणे "दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु", तुदादिगणे
"ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु", रुधादिगणे "अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु", क्र्यादिगणे
"प्लुषस्नेहनसेवनपूरणेषु" एवं चुरादिगणे "विदचेतनाख्याननिवासेषु"इति प्रभृतयः।
४.धातुपाठेऽपि क्वचिद् धातवः सविभक्तिका उक्ताः।तद्यथा-"यमोऽपरिवेषणे"(भ्वादिः), "शमोऽदर्शने"(भ्वादिः),
"रुजो भङ्गे"(तुदादिः),"भुजो कौटिल्ये"(तुदादिः),
"राधोऽकर्मकाद्वृद्धावेव"(दिवादिः), "भुवोऽवकल्कने"(चुरादिः),"कृपेश्च"(चुरादिः)।इदमत्रावधेयं यत् चकारेण पूर्वधातोरर्थोऽवकल्कनम् इत्यत्र समुच्चीयते।
५.धातुपाठे क्वचिद् धातूनाम् एकार्थम् अनेकार्थं वा उक्त्वा ततः सविभक्तिका धातव उक्ताः। तद्यथा-"मारणतोषणनिशामनेषु ज्ञा"(भ्वादिः), "कम्पने बलिः"(भ्वादिः),"जिह्वोन्मथने लडिः" (भ्वादिः)च।
६.धातुपाठे बाहुल्येन धातवोऽविभक्तिका उपदिष्टाः परम् अष्टाध्यायीसूत्रेषु ते पुनः सविभक्तिकाः कथिताः।तदित्थम्- "आङो दोऽनास्य विहरणे"(अष्टा.1.3.20), "आङो यमहन:"(अष्टा.1.3.28), "विभाषा कृवृषोः"(अष्टा.3.1.120), "आक्रोशेऽवन्योर्ग्रहः"(अष्टा.3.3.45)
"अवे ग्रहो वर्षप्रतिबन्धे"(अष्टा.3.3.51),
"परौ भुवोऽवज्ञाने"(अष्टा.3.3.55),
"अर्ह: प्रशंसायाम्"(अष्टा.3.3.134),
"राधो हिंसायाम् "(अष्टा.6.4.123) चादयः।
७.धातवोऽविभक्तिका उक्तास्तथा सप्तम्यां विभक्तौ तदर्थाश्चकारेण पृथक् पृथक् कथिताः। अर्थात् चकारेण सम्मुचितार्थनिर्देशो विद्यते। तद्यथा -"पण व्यवहारे स्तुतौ च"(भ्वादिः), "गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च"(भ्वादिः), "भदि कल्याणे सुखे च"(भ्वादिः), "षिधू शास्त्रे माङ्गल्ये च"(भ्वादिः),"ईर गतौ कम्पने च(अदादिः),
"श्रमु तपसि खेदे च"(दिवादिः), "अशू व्याप्तौ सङ्घाते च"(स्वादिः), "प्रीञ् तर्पणे कान्तौ च"(क्र्यादिः), "कल गतौ सङ्ख्याने च"(चुरादिः) चादयः।
८.क्वचित् केषाञ्चन धातूनां सविशेषणोऽर्थनिर्देशः समस्तेन(समासविधिना) व्यस्तेन(वाक्यविधिना) वा वर्तते। तद्यथा-भ्वादिगणे "स्मिङ् ईषद्धसने",डीङ् विहायसा गतौ", "वद व्यक्तायां वाचि", "त्सर छद्मगतौ", "श्वल्ल आशुगमने","रेवृ प्लवगतौ","जल्प व्यक्तायां वाचि","अत सातत्यगमने","पर्द कुत्सिते शब्दे","कर्द कुत्सिते शब्दे","गुजि अव्यक्ते शब्दे ","ह्लाद अव्यक्ते शब्दे",
"चुप मन्दायां गतौ", "म्लेच्छ अव्यक्ते शब्दे" चाद्यं।
अदादिगणे "षूङ् प्राणिगर्भविमोचने","द्रा कुत्सायां गतौ","रुदिर् अश्रुविमोचने" च।
दिवादिगणे "ष्विदा गात्रप्रक्षरणे","भ्रंशु अधः पतने" च।तुदादिगणे "तुट कलहकर्मणि",
"गु पुरीषोत्सर्गे","मृङ् प्राणत्यागे" च।क्र्यादिगणे "डुक्रीञ् द्रव्यविनिमये","जॄ वयोहानौ", "खच भूतप्रादूर्भावे" च।चुरादिगणे "क्षल शौचकर्मणि" इति प्रभृतयः।
९.क्वचित् पाणिनिधातुपाठे केचन सोपसर्गा धातवः समुपदिष्टास्तद्यथा-
(क)."आङः शसि इच्छायाम्" इति पाणिनिधातुपाठे भ्वादिगणे परस्मैपदी सकर्मकः सेट् धातुः पठ्यते।यस्यायं भावः यदाङुपसर्गपूर्वः शशिधातुरिच्छार्थको विद्यते।अत्र मानम्-
"आङः शसीति प्रयोगादयमाङ्पूर्व एव प्रयोक्तव्यः तथा च काश्यपः-अयमाङः पर एव प्रयोक्तव्य इति।सम्मतायां न च केवलो नाप्युपसर्गान्तरपूर्व" इति (माधवीयधातुवृत्तिः)।
अनेन सिद्ध्यति यदयं न केवलो धातुर्नान्योपसर्गपूर्वश्च।यतोहि अयं धातुः पाणिनिधातुपाठ एवाङुपसर्गपूर्व उपदिश्यते।कविकल्पद्रुमे तु "शसि आशिषि" इति धातुः पठ्यते।तत्र आशीरिष्टार्थशंसनमिति निर्दिश्यते। केषाञ्चिन्मते इच्छार्थे वर्तत इति दुर्गादासेन प्रतिपाद्यते।
अत्र पुनर्मानम्-
"आशंसायां भूतवच्च"(३.३.१३२) इति पाणिनिसूत्रमेव।अस्मिन् सूत्रे आङुपसर्गपूर्वः शशिधातोरिच्छार्थ एव दृश्यते।आशंसा नाम अप्राप्तस्य प्राप्तुमिच्छा।एतत्सूत्रव्याख्यायायां काशिकायां तदुच्यते-
"आशंसनमाशंसा,अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा" इति (काशिका)।
तदित्थं सिध्यति यत् शसिधातुराङ्पूर्व इच्छार्थं बोधयतीति नात्र संशयः।
(ख)."आङः शासु इच्छायाम्" इति पाणिनिधातुपाठेऽदादिगणे
आत्मनेपदी सकर्मकः सेट् इति धातुः
पठ्यते।अयमाशयो यद्-आङुपसर्गपूर्वः शासुधातुरिच्छार्थको वर्तते। कविकल्पद्रुमे च पुननारङ्पूर्वः शासु
आशिष्यर्थे वर्तते।आङ्पूर्व इति केवलानामन्यपूर्वाणाञ्च प्रयोगनिरासार्थं वर्तते।परम्-
"इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे" इति उत्तररामचरितस्य मङ्गलपद्ये आचार्यभवभूतिप्रयोगेनेदं सिद्ध्यति यदयं धातुराङ्पूर्व इति प्रायिकम्।अथवा आचार्यपाणिनिमतेऽयं धातराङ्पूर्वस्तथा केषाञ्चन मते तदतिरिक्तपूर्वोऽपि।
तत्राशीरिष्टार्थाशंसनम् इति तदर्थो निर्दिश्यते।दुर्गादासाचार्यमतानुसारेण
अन्येषामाचार्याणां मतेऽयंधातुरिच्छायामपि दृश्यते।
तदेवं सिध्यति हि-आङ्पूर्वः शासुधातुरिच्छार्थबोधको विद्यते।
(ग)."आङः क्रन्द सातत्ये" इति पाणिनिधातुपाठे चुरादिगणे उभयपदी अकर्मकः सेट् धातुरित्युपदिश्यते।सातत्यं निरन्तरं नित्यञ्चेत्यर्थः।
कविकल्पद्रुमे पुनः
"आङः क्रन्द शब्दसातत्ये" इति पठ्यते।तत्र
"शब्दसातत्यं निरन्तरशब्दक्रिया" इति दुर्गादासेन प्रतिपाद्यते।
तदेवं सिध्यति यत् आङुपसर्गपूर्वाद् क्रन्दधातुर्निरन्तरक्रियार्थे प्रयुज्यते।
(घ)."आङः षद पद्यर्थे" इति पाणिनिधातुपाठे चुरादिगणे उभयपदी सकर्मकः सेट् धातुः समुपदिश्यते।अत्र पद्यर्थो नाम पदेरर्थः।अर्थात् पदधातोः योऽर्थः स एवार्थोऽस्य धातोरिति भावः।
तस्मादयं धातुः गत्यर्थको विद्यते।यतोहि भगवता पाणिनिना स्वयमेव धातुपाठे
"पद गतौ" इति दिवादिगण आत्मनेपदी सकर्मकोऽनिट् धातुरुपदिष्टः।
"सर्वे गत्यर्था ज्ञानार्थकाः प्राप्त्यर्थकाश्च" इति महाभाष्यवचनात् समेऽपि गत्यर्थका धातवः न केवलं गत्यर्थका एव भवन्ति,अपितु ते धातवो ज्ञानार्थकाः प्राप्त्यर्थकाश्चापि भवन्ति।
अत्र प्रमाणम्-
"पद गतौ गतिर्यानं ज्ञानं च" इति (क्षीरतरङ्गिणी)।
पुनश्च-
"आङः षद पद्यर्थे।पद्यतेरर्थो गतिः" इति क्षीरस्वामी।
तदित्थं सिध्यति यद् आङुपसर्गपूर्वात् षदधातुः गतिं ज्ञानं प्राप्तिञ्च बोधयतीति मन्मतिः।
(ङ)."अनो रुध कामे" इति दिवादिगणे आत्मनेपदी सकर्मकोऽनिट् धातुः पठ्यते।अत्र कामो नाम इच्छा।
यथा-अनुरुध्यते धनं लोकः ,लोकः(संसारः) धनम् इच्छतीत्यर्थः।
अत्र मानम्-
"रुधेरनूपसृष्टस्य कामे वृत्तस्य दिवादित्वमात्मनेपदित्वं च "
इति (माधवीयधातुवृत्तिः)।
पुनश्च -
"अनुपूर्वो रुधिर् इच्छार्थे दिवादिः अनुरुध्यते" इति (क्षीरतरङ्गिणी)।
तथाहि-
"अनौ उपसर्गे रुधेः कामवृत्तेर्दिवादित्वमात्मनेपदित्वञ्च अनुरुध्यते अनुरुरुधे अनुरोद्धा अनुरोधः" इति (धातुप्रदीपः)।
(१०).केचन धातवः सोपसर्गाः(उपसर्गसहिताः) एव प्रयुज्यन्ते।उपसर्गं विहाय पृथक्तया केवलं धातवो न प्रयुज्यन्ते।तद्यथा-
(क)."इक् स्मरणे" इति अदादिगणे परस्मैपदी सकर्मकोऽनिट् धातुः पठ्यते।अयं धातुर्नित्यमेवाधिपूर्वः।
अधिग्रहणम् अन्यपूर्वस्य केवलस्य च "इक्"धातोः प्रयोगनिरासार्थमुच्यते।अत्र प्रमाणं पाणिनिसूत्रमेव-
"अधीगर्थदयेशां कर्मणि"
(अष्टाध्यायी-२.३.५२) इति पाणिनिसूत्रमेव मानम्।
एतत्सूत्रव्याख्यायां काशिकायां वृत्तौ प्रतिपाद्यते-
"अधीगर्थाः स्मरणार्थाः" इति (काशिका)।
अन्यत्र चोक्तम्-
"अधीक इति।'इक् स्मरणे' (धातुपाठः-१०४७) इत्यस्याधिपूर्वस्य ग्रहणम्। अधीगित्यनेन समानार्था अधीगर्थाः। ककारानुबन्धकरणमस्य धातोरत्रैव सूत्रे विशेषणार्थम्। अध्ययनार्थानामित्युच्यमाने सन्देहः स्यात्-कोऽयं धातुरिति। अधिपूर्वस्योच्चारणेनाधिपूर्वस्यैवास्य प्रयोग इति दर्शयति" इति (न्यासः)।
तथाहि-
"अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्" इति (पदमञ्जरी)।
अन्यद्धि-
"इक्स्मरणे॑नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः।स्मरणार्थक इति यावत् "इति (बालमनोरमा)।
पुनश्च -
"अधिशब्दोच्चारणम्इङिकावध्युपसर्गं न व्यभिचरतः॑इति ज्ञापनार्थम्" इति (तत्त्वबोधिनी)।
(ख)."इङ् अध्ययने" अदादिगण आत्मनेपदी सकर्मकोऽनिट् धातुः।अध्ययनमर्थतः शब्दतश्च गुरुतो ग्रहणम्।अयं धातुः
नित्यमधिपूर्वः प्रयुज्यते।अत्रापि प्रमाणं पाणिनिसूत्रम्-"णेरध्ययने वृत्तम्" (अष्टाध्यायी-७.२.२६) तथा "अध्ययनतोऽविप्रकृष्टाख्यानाम्" (अष्टाध्यायी-२.४.५) इत्यनयोः सूत्रयोः "इङ्" धातुरधिपूर्व
एव दृश्यते।
अन्यद्धि-
"इणो गा लुङि" (अष्टाध्यायी-२.४.४५) इति सूत्रव्याख्यायां बालमनोरमायामिदमुच्यते-
"नित्यमधिपूर्व इति।धातुपाठे वचनमिदम्।अधीते इत्यत्र धातुरुपसर्गं न व्यभिचरतीति भूवादिसूत्रे भाष्ये"।
तथाहि-
"इङिकावध्युपसर्गतो न व्यभिचरतः" इति वचनम्।
(ग)."पृङ् व्यायामे" इति तुदादिगणेऽनिट् आत्मनेपदी अकर्मको धातुरुपदिश्यते।
अत्र व्यायामो नामोद्योगो व्यापारश्च।तन्निगदितम्-"व्यायाम उद्योगः" इति (क्षीरतरङ्गिणी)।
पुनस्तत्रैव-
"व्याप्रियते, वृत्तौ विग्रहणात् व्यापृतः व्यापारः" इति (क्षीरतरङ्गिणी)।
कविकल्पद्रुमे "पृ व्यायामके" इत्युच्यते।तत्र "व्यायामको व्यापारः" इत्यर्थनिर्देशः क्रियते।पृधातुः प्रायशः 'वि' तथा 'आ' इत्युपसर्गद्वयपूर्व एव प्रयुज्यते।तदुक्तम्-
"प्रायेणायं व्याङ्पूर्वः,व्याप्रियत इति
(माधवीयधातुवृत्तिः)।यथा-धर्म्मे व्याप्रियते सुधीः,विद्वान् धर्मविषयकं व्यापारम् उद्योगं वा करोतीत्यर्थः।
(घ)."शब्द उपसर्गादाविष्कारे च" इति चुरादिगणे परस्मैपदी सेट् धातुर्लभ्यते।
केवलः(उपसर्गरहितः) अयं धातुः शब्दकरणेऽर्थे वर्तते।यथा-
शब्दयति शब्दं ध्वनिं वा करोतीत्यर्थः।
उपसर्गसहितोऽयं धातुराविष्कारार्थे लभ्यते।चकाराद्भाषणेऽपि।
अत्र मानम्- "प्रतिशब्दयति गिरिः 'प्रतिश्रुत्कामाऽऽविष्करोति' इत्यर्थः विशब्दयति योगविभागादाविष्कारे चेत्यनुपसर्गादपीति नन्दी-शब्दयति दौर्गाणां शब्द इत्येकं सूत्रम्, शब्दक्रियायामित्यर्थः,तत उपसर्गाद् आविष्कार इति चन्द्रः प्रातिपदिकाद्धत्वर्थे (10295) इत्यनेनैव साधयति" इति (क्षीरतरङ्गिणी)।
(ङ)."स्खदिर् अवपरिभ्याञ्च" इति भ्वादिगण आत्मनेपदी सकर्मकः सेट् धातुरुपदिश्यते।
केषाञ्चिन्मतेऽयं धातुः विदारणार्थे,अपरेषां मते विद्रावणार्थे परेषां मते हिंसायाञ्च वर्तते।तदत्र प्रमाणम्-
"खदनं विदारणम्" इति (क्षीरस्वामी)।
अन्यद्धि-
"स्खदनं विद्रावणम्" इति (माधवीयधातुवृत्तिकारः)।
केचन "स्खद स्खदने इति प्राञ्च:" इति ब्रुवन्ति।तत्र "स्खदनं स्थैर्य्यम् इति (विलोचनरामौ)।
अन्यद्धि-
स्खदनं पाटनम् इति (गोविन्दः)।
तथाहि-
"स्खदनं क्लेशोत्पादनम्" इति (गोयीचन्द्रः)।
पुनश्च-
"स्खदनं हिंसा" इति (रमानाथः)।
(च)."उच्छी विवासे" इति भ्वादिगणे तुदादिगणे च परस्मैपदी सकर्मकः सेट्) धातुरुपदिश्यते।"विवास:" इत्यनेन बन्धो विनाशः (समाप्ति:) अतिक्रमणञ्चावबुध्यन्ते।
कविकल्पद्रुमे तु उच्छी बन्धे समापने अतिक्रमे वर्जने चेति पठ्यते।
अन्यद्धि-
"समाप्तिर्विवासः" इति माधवीयधातुवृत्तिकारो जगाद।
पुनश्च-
"विवासो विनाशः समाप्तिरित्यर्थः"
इति क्षीरस्वामी ब्रूते।
तथाहि-
"विवासोऽतिक्रमः" इति (क्षीरतरङ्गिणी)।
विपूर्वश्चायं प्रायः प्रयुज्यत इति पुरुषकारस्य मतमिदं वर्तते।
यथा-“भरण्यां व्युष्टायामुषसि जनयासास तनयम्”
इत्यत्र व्युष्टायां समाप्तायामित्यर्थः" इति दुर्गादासो निर्दिशति।
(११).केषाञ्चन धातूनां पृथगर्थं नोक्त्वा बहूनां धातूनामुच्चारणं विधाय समुदायेऽर्थनिर्देशो विद्यते।तद्यथा-
(१).ककि वकि श्वकि त्रकि ढौकृ त्रौकृ ष्वस्क वस्क मस्क टिकृ टीकृ तिकृ तीकृ रघि लघि गत्यर्थाः।
(२).उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि श्लगि इगि रिगि गत्यर्थाः।
(३).वञ्चु चञ्चु तञ्चु त्वञ्चु म्रुचु म्लुञ्चु म्रुचु म्लुचु गत्यर्थाः।
(४).गज गजि गृज गृजि मुज मुजि शब्दार्थाः।
(५).तिपि तेपृ ष्टिपृ ष्टेपृ क्षरणार्थाः।
(६).त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसार्थाः।
(७).उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः।
(८).हिवि दिवि धिवि जिवि प्रीणनार्थाः।
(९).रिवि रवि धवि गत्यर्थाः।
(१२).केचन धातवोऽनेकेषु गणेषु समुपलभ्यन्ते।तेषु पठितेषु क्वचिद्धात्वर्थः समानः क्वचित् पृथगर्थः।
(क). समानानुपूर्विकत्वे समानार्थः परं स्वरूपभेदः-
(धातुपाठे समानुपूर्विकत्वे समानार्थे निर्दिष्टे सत्यपि गणकार्यानन्तरं प्रयोगे स्वरूपभेदः।धातुपाठे पृथक्पृथग्धातुगणेषु समानार्थे धातूपदिष्टे सत्यपि स्वरूपभेदो दृश्यते।यथा-"पुष पुष्टौ" इति
भ्वादि-दिवादि-क्र्यादि-चुरादिगणेषु पठ्यते,परं "पोषति,पुष्यति,पुष्णाति,पोषयति" इति स्वरूपभेदस्तत्तद्गणविकरणाज्जायते।पुनश्च भू सत्तायाम्"(भ्वादिगणः, परस्मैपदी),"भूवोऽवकल्कने"(चुरादिगणः,परस्मैपदी),"भू प्राप्तौ"(चुरादिगणः,आत्मनेपदी) इत्युपदिश्यन्ते।भवति,भावयति,भाव्यते इति तेषां स्वरूपभेदो दृश्यते।एवमेव "ऋ गतिप्रापणयोः" (भ्वादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।यस्य लटि लकारे 'यच्छति' इति रूपम्।
"ऋ गतौ" (जुहोत्यादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः)।यस्य लटि लकारे इयर्तीति रूपम्।
(ख).समानानुपूर्विकत्वेऽपि पृथगर्थः स्वरूपभेदश्च।
धातुपाठे धातूनाम् आनुपूर्विकत्वं समानं परं पृथक्पृथगर्थनिर्देशः तत्स्वरूपभेदश्च।तद्यथा-
१."विद ज्ञाने" इति अदादिस्थः परस्मैपदी सकर्मकः सेट् धातुः।यथा-वेत्ति।
२"विद सत्तायाम्" इति दिवादिस्थ आत्मनेपदी अनिट् धातुः, कविकल्पद्रुमे पुनः "विद भावे" इति।तत्र भावो नाम सत्ता विद्यमानतैव।यथा-विद्यते।
३."विद विचारणे"इति रुधादिस्थ आत्मनेपदी सकर्मकोऽनिट् धातुः,कविकल्पद्रुमे च "विद मीमांसे"इति।तत्र मीमांसा नाम विचारणमेव।यथा-विन्ते।अत्र मानम्-
४."विद चेतनाख्याननिवासेषु"इति चुरादिस्थ आत्मनेपदी सेट् धातुर्वर्तते।कविकल्पद्रुमे तु "विद चेतनाख्यानवासवादे"इति।तत्र चेतना नाम ज्ञानं,वादो नाम स्थैर्यम् इति।यथा-वेदयति।
"सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे।
विन्दति विन्दते प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात्।।
(वैयाकरणसिद्धान्तकौमुदी,चुरादिप्रकरणम्)
(ग)असमानापूर्विकत्वे पृथगर्थः स्वरूपभेदश्च-
"विद्लृ लाभे "इति तुदादिगण उभयपदी सकर्मकोऽनिट् धातुः।
यथा-विन्दति,विन्दते।
(घ).असमानानुपूर्विकत्वे समानं स्वरूपं पृथगर्थश्च।
(ङ).असमानानुपूर्विकत्वे समानार्थः, स्वरूपभेदश्च।
यथा-"अट गतौ"(भ्वादिगणः, परस्मैपदी,सकर्मकः,सेट् धातुः)
अटि गतौ(भ्वादिगण,आत्मनेपदी, सकर्मकः सेट् धातुः) च।एवमेव "अठ अठि गतौ"
(१३).हिन्दीभाषायां प्रयुक्तायाः "ढूंढना" इति क्रियाया मूलभूतः "ढुढि अन्वेषणे" इति धातुः काशकृत्स्नधातुपाठे समुपलभ्यते।
"अन्वेषणे ढुण्ढिरथ(ढुढिरथ) प्रथितोऽस्तु धातुः"इति।
"सर्वार्थढुण्ढितया ढुण्ढिनाम इति निर्वचनेऽपि स्मयते।"
(स्कन्दपुराणम्,काशीखण्डः)
कविकल्पद्रुमेऽपि "ढुण्ढ अन्वेषणे" (भ्वादिगणः परस्मैपदी सकर्मकः सेट्) इति धातुरुपदिश्यते।तद्यथा- लोको धनं ढुण्ढति ,धनान्वेषणं करोतीत्यर्थः।
तदित्थं स्पष्टं भवति यत् संस्कृतभाषायां पठितस्य धातोरन्यस्यां भाषायां प्रभावो वर्तते।
(१४)क्वचिद् धात्वर्थनिर्देशनं न क्रियते।यथा-"कगे नोच्यते" इति।अत्र मानम्-"अत्र मैत्रेयः अस्यायमर्थ इति नोच्यते क्रियासामान्यमर्थ इत्यर्थः इह शास्त्र कगे नोच्यते इत्येके स्वामी तु अस्यायमर्थ इति नोच्यते अनेकार्थत्वात् इति, नोच्यत इति, योर्थस्तत्रार्थे कगे इत्येके कगेत्युक्तत्वात्क्रियासामान्यमस्यार्थ इत्याहान्ते" इति (माधवीयधातुवृत्तिः)।
अन्यद्धि-
"अस्यायमर्थ इति नोच्यतेऽनेकार्थत्वात्
नोच्यत इति योऽथस्तत्रार्थे कगिरित्येके" इति (क्षीरतरङ्गिणी)।
तथाहि-
"अस्यायमर्थ इति नोच्यते । क्रियासामान्यमस्यार्थ इति यावत् । इह शास्त्रे नोच्यत इत्येके" इति धातुप्रदीपः।
धातुपाठे यदर्थनिर्देशो दृश्यते तत् केषाञ्चिद् धातूनां धात्वर्थ एवात्र समासतो विचार्यते।तद्यथा-
"शासु अनुशिष्टौ" इति अदादिगणीयः, परस्मैपदी द्विकर्मकः सेट् धातुः इति पाणिनिधातुपाठे पठ्यते।अनुशिष्टिर्नामानुशासनम्।
अनुशासनपदेन नियोगः(आज्ञा आदेशो वा) ,उपदेशः(याथार्थ्यज्ञापनं कर्त्तव्यनिरूपणं वा)
गृह्यते।तस्मादेव
"अथ शब्दानुशासनम्"(महाभाष्यम्),
अथ योगानुशासनम् (योगसूत्रम्),
नामलिङ्गानुशासनम्(अमरकोशः) इत्यादीनि शास्त्रवाक्यानि सार्थक्यम् आवहन्ति।भाष्यप्रदीपोद्द्योते नागेशस्तदाह-
"अनुशिष्यन्तेऽसाधुशब्देभ्यो विविच्य बोध्यन्तेऽनेनेति करणल्युड़न्ततया शास्त्रपदेन सामानाधिकरण्यम्" इति
(भाष्यप्रदीपोद्द्योतः)
पुनश्च-
“अथ शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्" इति
(महाभाष्ये पतञ्जलिः)।
तथाहि-
“अथ योगनुशासनम्"(पातञ्जलसूत्रम्-१.१.१)
योगोऽनुशिष्यतेऽनेन तादृशं शास्त्रमधिकृतम् इति।
अन्यत्र चोक्तम्-
“नामलिङ्गानुशासनम्" इति (अमरः)।
अत्र पुनर्मानम्
"अनुशिष्टिर्विविच्य ज्ञापनम्"
इति (माधवीयधातुवृत्तिः)।
अनया माधवीयधातुवृत्तिव्याख्यया अनुशिष्टि:(अनुशासनम्) नामोपदेशः इत्यर्थः फलति।
अन्यद्धि-
"अनुशिष्टिर्नियोगः" इति (क्षीरतरङ्गिणी)।
अनया क्षीरतरङ्गिणीव्याख्यया अनुशिष्टि:(अनुशासनम्) नामादेशो नियोगकरणञ्च।
कविकल्पद्रुमकारस्यायमेवाभिप्रायः स्यात्तस्मात्तत्र "शासु शासने" इति निर्दिश्यते।
पाणिनिधातुपाठे "वगि गतौ" इत्युपदिश्यते।
माधवीयधातुवृत्तौ तु "वङ्गि गतिवैकल्ये रूढ:" इति निर्दिश्यते।कविकल्पद्रुमे पुनः "वगि खञ्जे" (भ्वादिगणः परस्मैपदी अकर्मकः सेट्) इति धातुः निर्दिश्यते।तदित्थं वगिधातुः पाणिनिधातुपाठे गमनार्थे,माधवीयधातुवृत्तौ गत्यक्षमतायां तथा कविकल्पद्रुमे खञ्जनार्थे(विकलाङ्गतया गमनाक्षमतायाम्) समुपदिश्यते।
पाणिनिधातुपाठे "तगि गतौ" इति धातुरुपदिश्यते।माधवीयायां धातुवृत्तौ "तगि स्खलने" रूढः इति सूच्यते।कविकल्पद्रुमे तु "तगि स्खलने कम्पे गतौ" (भ्वादिगणः परस्मैपदी सकर्मकोऽकर्मकश्च सेट्) इति धातुः पठ्यते।स्खलने कम्पे चायं धातुरकर्मकस्तथा गतौ सकर्मको वर्तते।
पाणिनिधातुपाठे "बुक्क भषणे"(भ्वादिगणः परस्मैपदी अकर्मकः सेट्) इति धातुरुपदिश्यते।अत्र भषणं शुनो ध्वनिरुच्यते।तदुच्यते-"भषणमिह श्वरवः" इति (माधवीयधातुवृत्तिः)।
अन्यद्धि -
"बुक्क श्वादिशब्दे" इति (कविकल्पद्रुमः)।
तथाहि-
चुरादिपक्षे कथने भ्वादिपक्षे कुक्कुरादिशब्देऽयमिति (रमानाथः)।
यथा-बुक्कति श्वा,कुक्कुरः शब्दं करोतीत्यर्थः।
"गर्ज शब्दे"(भ्वादिगणः परस्मैपदी अकर्मकः सेट्) इति धातुर्निर्दिश्यते। कविकल्पद्रुमे तु "गर्ज ऊर्जाशब्दे" इति दृश्यते।तत्र ऊर्जा बलमित्यर्थोऽङ्गीक्रियते।
तस्माद्गर्जधात्वर्थो बलपूर्वकं शब्दकरणमित्यर्थो भवति।तद्यथा-
सिंहो गर्जति,वनराजो बलपूर्वकं शब्दं करोतीत्यर्थः।
अन्यत्र चोक्तम्-
"गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्"
(श्रीदुर्गासप्तशती-३.३८)
तथाहि-
"शरदि गर्जति न वर्षति, वर्षति वर्षासु निःस्वनो मेघः" (उद्भटः)।
"अघि गत्याक्षेपे इति भ्वादिगणीय आत्मनेपदी सेट्।
"आक्षेपो निन्दा,गतौ गमनारम्भे चेति स्वामी" इति (माधवीयधातुवृत्तिः)।
"गत्याक्षेपो वेगगतिर्गमनारम्भो वा"
इति (क्षीरस्वामी)।
कविकल्पद्रुमे तु "अघि निन्दायाम् आरम्भे,जवे च" लभ्यते।तत्र जवो नाम वेगगतिरित्यर्थनिर्देशो दृश्यते।यथा-
अङ्घते वायुर्वेगेन गच्छतीत्यर्थः।
"रण शब्दार्थः" इति भ्वादिगणः परस्मैपदी अकर्मकः सेट् धातुः वर्तते।
"रण रुति" इति कविकल्पद्रुमे पठ्यते।तत्र "रुति शब्दे" इत्यर्थनिर्देशः क्रियते।
पाणिनिधातुपाठे "रुच दीप्तावभिप्रीतौ च" इति भ्वादिगण आत्मनेपदी अकर्मकः सेट् धातुरुपदिश्यते।अत्र दीप्तिः प्रकाशस्तथा
अभिप्रीतिर्नामाभिलाषा कामनेच्छा वा। क्षीरस्वामी तदाह-
"अभिप्रीतिरभिलाषः" इति।
कविकल्पद्रुमे पुनः "रुच प्रीतिप्रकाशयोः" इति पठ्यते।प्रीतिरिह अनुरागविशेषः" इति तदर्थो निर्दिश्यते।
"अन्यकर्तृकोऽभिलाषो रुचिः" इति काशिकायामुच्यते।
"अत सातत्यगमने" इति भ्वादिगणः परस्मैपदी सेट् धातुः निर्दिश्यते।
सातत्यं नाम निरन्तरं नित्यं वा।गमनं नाम उत्तरदेशसंयोगानक्रिया।तस्मात् सातत्यगमनं नित्यगमनार्थम् निरन्तरोत्तरदेशप्रापणञ्च बोधयति।तदुच्यते-"सातत्यगमनं सन्ततगमनम्" इति (माधवीयधातुवृत्तिः)।
अन्यद्धि-
"सातत्येन गमनं नित्यगतिः" इति (क्षीरतरङ्गिणी)।
कविकल्पद्रुमे "अत सातत्यगते" इति पठ्यते।सातत्यगतं नैरन्तर्य्येण भ्रमणं प्रापणञ्च।यथा-अतति वायुः।अतति सूर्य्यः, गगनं प्राप्नोतीत्यर्थः।
"रेवृ प्लवगतौ" इति भ्वादिगण आत्मनेपदी अकर्मकः सेट् धातुः पठ्यते।अत्र प्लवगतिर्नाम प्लुतिगतिः।प्लुतिगतिररऌथात् प्लवेन गमनम् उत्प्लुत्यगमनमित्यर्थः।यथा-रेवते कपिः, उत्प्लुत्य गच्छतीत्यर्थः।
धातुपाठे "स्मृ आध्याने" इति भ्वादिगणे परस्मैपदी सकर्मकः सेट् धातुः पठ्यते।
कविकल्पद्रुमे तु "स्मृ स्मृतौ" इति लभ्यते।अत्राध्यानं नाम स्मरणम्। स्मृतिर्ज्ञानविशेषार्थः।
माधवीयधातुवृत्तौ
"आध्यानमुत्कण्ठापूर्वकं स्मरणम्" इत्यर्थो निर्दिश्यते।क्षीरतरङ्गिण्यां
"आध्यानमुत्कण्ठा" तथा धातुप्रदीपे तु
"आध्यानमुत्कण्ठास्मरणम्" इति च व्याख्यायते।
पाणिनिधातुपाठे "हिल भावकरणे" इति तुदादिगणः परस्मैपदी अकर्मकः सेट् धातुः पठ्यते।अत्र भावकरणं नामाभिप्रायसूचनम्।अत्रामरसिंहवचनमपि प्रमाणभूतं वर्तते।तद्यथा-
"भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु"
(अमरकोशः-३.३.२१८)
कविकल्पद्रुमे "हिल हावकृतौ" इति दृश्यते।हावकृतिर्नाम हावकरणमुच्यते।तद्धि स्त्रीणां शृङ्गारभावजः चेष्टाभेदो भवति।अत्र मानम्-
"स्त्रीणां विलासबिम्बोकविभ्रमा ललितं तथा।
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।।"
(अमरकोशः-१.७.३३)।
अतएवोच्यते "हावास्ते विलासादयो मताः”(भरतधृतवाक्यम्)।
अन्यत्र चोक्तम्-
“ग्रीवा-रेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत्।
भावादीषत्प्रकाशो यः स हाव इति कथ्यते।।”
(उज्वलमणिः-रूपगोस्वामी)।
पाणिनिधातुपाठे "गडि वदनैकदेशे" इति भ्वादिगणीयोऽकर्मकः परस्मैपदी सेट् धातुः पठ्यते।इह वदनैकदेशारम्भलक्षणा क्रिया वदनैकशब्देनोच्यते।
तस्मादत्र वदनैकदेशो हि नाम गण्डगतसंहननक्रियायामित्यर्थः।
कविकल्पद्रुमे पुनः "गडि गण्डे" इति पठ्यते।तत्र "गण्ड: कपोलविषयक्रिया" इति तदर्थो निर्दिश्यते।तथा च "यत्र द्रव्यनिर्द्देशस्तत्र तन्निष्ठक्रियाविशेषो लक्ष्यते"इति मैत्रयवोपदेवावुचतुः।
कैश्चिदयं धातुर्न मन्यते।तदाह-
"केचित्तु गण्ड इतिशब्दस्य व्युत्पत्त्यर्थमेवायं धातुर्मन्तव्यो नत्वस्यान्यत्रप्रयोगः इत्याह" इतिदुर्गादासः।
तदित्थं गण्डतीत्युक्ते गण्डव्यापारं कपोलक्रियां वा करोतीत्यर्थः।
"ऊर्ज बलप्राणनयोः" इति चुरादिगण उभयपदी अकर्मकः सेट् धातुरुपदिश्यते। अत्र प्राणनं नाम जीवनमित्यर्थः।यथा-
जन ऊर्जयति, जीवति बली स्याद्वेत्यर्थः।
"षिधू शास्त्रे माङ्गल्ये च" इति भ्वादिगणः परस्मैपदी सेट् धातुः।अत्र शास्त्रं नाम शासनमिति मैत्रेयशाकटायनौ,शास्त्रं नाम शिष्टिरिति चन्द्रदेवस्तथा शास्त्रं नाम शास्त्रविषयं शासनम् एवं मङ्गलं नाम मङ्गलविषया क्रियेति क्षीरस्वामी।
कविकल्पद्रुमे तु धातुरयं शिवे शास्त्रे च निर्दिष्टो वर्तते।तत्र शिवो नाम मङ्गलं तथा शास्त्रं नामानुशासनम्।अयं धातुः शासनार्थे सकर्मको मङ्गलार्थे चाकर्मको विद्यते।
"फक्क नीचैर्गतौ" इति भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः पठ्यते।अत्र नीचैर्गतिर्नाम मन्दगमनम् असद्व्यवहारो वेति क्षीरस्वामी निगदति।यथा-शठः फक्कति कुत्सितं व्यवहरतीत्यर्थः। वृद्धः फक्वति मन्दं गच्छतीत्यर्थः।
"पुर अग्रगमने" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुरुपदिश्यते।"अग्रगमनम्" इह भावार्थकेना ल्युट्प्रत्ययेन निष्पन्नम्। तस्मात् अग्रगमनं नामाग्रतो गतिः अग्रगतिर्वेत्यर्थाः।
कविकल्पद्रुमकारस्तदाह-"पुर अग्रगत्याम्" इति।
यथा-पुरति ज्येष्ठः।कनिष्ठस्य अग्रे गच्छतीत्यर्थः।
पाणिनिधातुपाठे "दिह उपचये" इति अदादिगणोऽनिट्।उभयपदी धातुः पठ्यते।अयं धातुः सकर्मकोऽकर्मकश्च वर्तते।यदा "उपचयः" इत्यनेन "लेपनम्" इत्यर्थो गृह्यते।तदायं धातुः सकर्मकः।यदा पुनः "उपचयः" इत्यनेन "वृद्धिः" इत्यर्थो गृह्यते।तदायं धातुरकर्मकश्च।लेपनार्थे मानम्-"उपचयोऽत्र लेपः" इति (क्षीरतरङ्गिणी)।
तथाहि -
"दिह लिपि" इति (कविकल्पद्रुमः)।देग्धि सौधं सुधया लेपकः। उपचितं(लेपनम्) करोतीत्यर्थः।
वृद्ध्यर्थे मानम्-
"दिह उपचये इति प्राञ्चः।उपचयो वृद्धिस्तत्करणञ्च" इति
(शब्दकल्पद्रुमः)।
यथा-देग्धि दिग्धे देहः प्रतिदिनमुपचितः (वृद्धियुतः) स्यादित्यर्थः।
अन्यत्रापि दृश्यते-
"शक्त्युपचये केचित्परस्य व्यसनेऽपरे"
(शिशुपालवधम्-२.५७)
तथाहि-
"तदेतेषामस्मत्पुत्त्राणां ज्ञानोपचये भवन्तः प्रमाणम्” इति (हितोपदेशे कथामुखम्)
"फल निष्पत्तौ" इति भ्वादिगणीयः
परस्मैपदी अकर्मकः सेट् धातुः पठ्यते।निष्पत्तिरिह सिद्धिर्निष्पादना वेत्यर्थः।तदाह-
"निष्पत्तिः सिद्धिः"इति (क्षीरतरङ्गिणी)।
यथा-श्रमः फलति,श्रमः सिद्धो भवतीत्यर्थः।कार्यं फलति,कार्यनिष्पत्तिर्भवतीत्यर्थः।
अन्यत्रापि निगदितम्-
नैवाकृतिः फलति नैव कुलं न शीलं,
विद्या न चापि न च यत्नकृतापि सेवा।
भाग्यानि पूर्वतपसा खलु सञ्चितानि,
काले फलन्ति पुरुषस्य यथैव वृक्षाः।।
(भर्तृहरिनीतिशतकम्-१९)
"डुक्रीञ् द्रव्यविनिमयः" इति क्र्यादिगण उभयपदी सकर्मकोऽनिट् धातुर्वर्तते।अत्र द्रव्येण द्रव्यस्य वा विनिमयः(परिवर्तनम्) इति द्रव्यविनिमय उच्यते।अस्यायं भावः-एकस्य द्रव्यस्य(पदार्थस्य वस्तुनो वा) प्रदानमाध्यमेन अन्यस्य द्रव्यस्य स्वीकरणं भवति।तदेवम् द्रव्येण द्रव्यपरिवर्तनमेव द्रव्यविनिमयो भवति।तदुच्यते-
"विनिमयः परिवर्तः" इति (क्षीरतरङ्गिणी)।
कविकल्पद्रुमे "द्रव्यपर्यये" इति धातुः पठ्यते।तत्रापि द्रव्येण द्रव्यस्य वा पर्ययः(परिवर्तनम्) इति द्रव्यपर्यय इत्यर्थो गम्यते।तत्र "पर्ययः परीवर्त्तः" इति तदर्थो निर्दिश्यते।यथा-
क्रीणाति क्रीणीते वा धान्यं धनेन लोकः,धनरूपद्रव्यप्रदानेन धान्यरूपद्रव्यादानं करोति।सारतो द्रव्यपरिवर्तनं करोतीत्यर्थः।
"नट अवस्यन्दने" इति चुरादिगण उभयपदी सेट् धातुरुपदिश्यते।
अत्रावस्यन्दनं नाम नृत्यं भ्रंशनञ्च।
तदुच्यते-
"अवस्यन्दनं नाट्यम्" इति (माधवीयधातुवृत्तिः)
नाट्यपदेन नृत्यं बुध्यते।नृत्यमपीह साभिनयनर्तनमेव।
तथा "अवस्यन्दनं भ्रंशनम्" इति (क्षीरतरङ्गिणी)।
भ्रंशो नामाधःपतनमित्यर्थः।
"जासिनिप्रहणनाटक्राथपिषां हिंसायाम्" (अष्टाध्यायी-२.३.५६) इति पाणिनिसूत्रेऽपि अस्यैव धातोर्ग्रहणं भवति।अत्र मानम्-
"नट अवस्यन्दने चुरादिः,'नट नृतौ' इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशाद् इति (पदमञ्जरी)।
तथाहि-
"नट अवस्कन्दने चुरादिः" इति (सिद्धान्तकौमुदी)।
अन्यद्धि-
'नट नृत्तौ' इति तु न गृह्यते,नाटेति दीर्घोच्चारणादिति भावः। चौरस्योन्नाटनमिति। उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः" (बालमनोरमा)।
पुनश्च-
"नट नृत्तौ इति तु गृह्यते, दीर्घनिर्देशादितिभावः"(तत्त्वबोधिनी)।
"कृष विलेखने"(परस्मैपदी सकर्मकोऽनिट्)इति धातुर्भ्वादिगणेऽवलोक्यते।अत्र विलेखनं नामाकर्षणम्।आ समन्तात् कर्षणम् लाङ्गलादिना भूमेः कर्षणम्,
एकत्र स्थितस्य वस्तुनो बलेनान्यत्र नयनं वेत्यर्थः।तदुच्यते-
"विलेखनमिहाकर्षणम्" इति (माधवीयधातुवृत्तिः)।
तथाहि-"विलेखनं हलोत्किरणम्" इति (क्षीरतरङ्गिणी)।
अन्यत्र चोक्तम्-
"कृष आकृषि विलेखने च" इति (कविकल्पद्रुमः)।तत्र "आकृषि आकर्षणे" इत्यर्थो लभ्यते।
भूमिकर्षणे कृषिधातुर्यथा-कृषकः भूमिं कर्षति,कृषको हलेन भूमिकर्षणं करोतीत्यर्थः।
बलादाकर्षणे कृषिधातुर्यथा-
तुरगा रथं कर्षन्ति,अश्वा बलपूर्वकमेकस्मात् स्थानाद् अन्यं स्थानं प्रति नयन्तीत्यर्थः।मार्कण्डेयपुराणे देवीमाहात्म्ये यथोक्तम्-
"केशाकर्षणनिर्धूतगौरवा मागमिष्यसि”
(श्रीदुर्गासप्तशती-५.७४)
"कठि शोके" इति भ्वादिगण आत्मनेपदी सेट् धातुरुपदिश्यते।अत्र शोको नामाध्यानम्।
माधवीयधातुवृत्तिकारस्तदाह-
"इह शोक आध्यानम्" इति (माधवः)।
पुनश्च-
"शोकोऽत्राध्यानम्" इति (क्षीरस्वामी)।
आध्यानञ्चोत्कण्ठापूर्वकं स्मरणम्।तदुच्यते-
"आध्यानमुत्कण्ठापूर्वकं स्मरणम्" इति (माधवीयधातुवृत्तिः)।
अन्यत्र चोक्तम्-
"आध्यानमुत्कण्ठा" इति (क्षीरतरङ्गिणी)।
तथाहि-
"आध्यानमुत्कण्ठास्मरणम्" इति (धातुप्रदीपः)।
तदेवं कठिधातुः शोकार्थे आध्यानार्थे
(उत्कण्ठापूर्वकस्मरणार्थे चिन्तनार्थे वा) प्रयुज्यते।
"भडि परिभाषणे" इति भ्वादिगण आत्मनेपदी सेट् धातुरस्ति।परितो भाषणमिह परिभाषणमुच्यते।
परिभाषणपदेन परिहासोऽवबुध्यते। अमरकोशे तु सनिन्द उपालम्भनं परिभाषणमुच्यते।तदाह अमरसिंहः-
"यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्"
(अमरकोशः १.६.१४)
तदित्थम् उपालम्भो दुर्व्वादः।निन्दया सह वर्त्तमानो य उपालम्भस्तत्र सनिन्दः परिभाषणम्।यथा-
भण्डते परिभाषणम् उपहासं निन्दापूर्वकमुपालम्भनं वा करोतीत्यर्थः।
मानञ्चात्र पुनः-
"परिभाषणं सनिन्दोपालम्भे नियमेऽपि च"
(मेदिनीकोशः)।
"तुडि तोडने" इति भ्वादिगण आत्मनेपदी सकर्मकः सेट् धातुः पठ्यते।इह तोडनं नाम हिंसनं पृथक्करणञ्च। तदाह-
"तोडनं दारणं हिंसनं च" इति (माधवीयधातुवृत्तिः)।
तथाहि-
"तोडनं हिंसा" इति (क्षीरतरङ्गिणी)।
पुनस्तत्रैव-
"तोडनं भेदः पृथक्करणं वा" इति
(क्षीरतरङ्गिणी)।
कविकल्पद्रुमे तु "तुडि वधे" इति दृश्यते।तत्र "वधो निष्पीडनम्" इति रमानाथो निगदति तथा "वधो द्विधाकरणम्" इति गोविन्दभट्टो निर्दिशति।
"भू सत्तायाम्" इति प्रथमपाठः प्राथम्येनोपदेशश्च पूर्वेषामनुरोधेन भूशब्दस्य सत्ताख्यब्रह्मवाचकत्वेन मङ्गलरूपेण वा कृतः स्यात्।सत्ता नामात्र आत्मधारणम्। तदुच्यते -
"सत्तेहात्मभरणम्।यदाह हरिः-आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते इति। हेलाराजश्च: 'अस्ति आत्मानं बिभर्त्ति सत्तां भावयतीति यावत्' इति। कैयटकारोपि: 'आत्मभरणवचनो भवति' इति। नैरुक्ताश्च: 'अस्तीत्युत्पन्नस्यात्मधारणमाचष्टे' इति (माधवीयधातुवृत्तिः)।
भू इति अविभक्तिकोऽयं निर्देशो भ्रान्तिनिरासार्थं, छान्दसो वा सुलुक्।यतोहि "छन्दोवत् सूत्राणि भवन्ति" (महाभाष्यम्-१.१.१) इति निर्दिश्यते।सतो भावः सत्ता अस्तित्वमित्यर्थः।
भावो धात्वर्थसामान्यमिति यावत्।यदाहुः-
'सा नित्या सा महानात्मा तामाहुस्त्वतलादयः।
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते।।
तां प्रतिपदिकार्थं च धात्वर्थं च प्रचक्षते।।
(वाक्यपदीयम्- ३.१.34-35)
केषाञ्चन मते सा जातिरित्यर्थः यद् वैशेषिकम् -सामान्यं द्विविधम्।परमपरञ्च।परं सत्ता महाविषयत्वात् इति ( प्रशस्तपादभाष्यम् उद्देश्प्रकरणम्)।अपि च -धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते। यथा-यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयोक्तव्य इति। अत एव माङ्गलिकत्वाच्च पूर्वमस्य प्रयोगः।धातूनामर्थनिर्देशोऽयं निदर्शनार्थ इति सौनागाः यदाहुः-
"क्रियावाचित्वमाख्यातुमेकोऽत्रार्थः प्रदर्शितः।
प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः।।"
भूधातुः क्वचिद् अस्त्यर्थे वर्तते।यथा- बहूनि धनान्यस्य भवन्ति, सन्तीत्यर्थः।क्वाप्यभूतप्रादुर्भावेऽपि दृश्यते।यथा-क्षीरभोजिन्याः श्रुतन्धरः पुत्रो भवति, जायत इत्यर्थः। क्वचिद् अभूततद्भावात्मके सम्पद्यर्थेऽप्यवलोक्यते।तद्धि-पटोऽशुक्लः शुक्लो भवति,सम्पद्यत इत्यर्थः। अपि च तत्तदुपसर्गवशाद् धातोः स सोऽर्थः प्रकाश्यते यथा प्रभवतीति स्वाम्यर्थः,प्रथमत उपलम्भश्च। पराभवति,परिभवति, अभिभवति इति प्रथमतः तिरस्कारः,सम्भवतीति तन्मात्रार्थः, अनुभवतीति संवेदनम्, विभवतीति व्याप्तिः,आभवतीति भागावगतिः।तदित्थं धातूनामनेकार्थत्वं स्पष्टमेवाभाति।
एतत्सर्वम् अस्य शोधप्रबन्धस्य "उपसर्गानुसारिणो धात्वर्थाः " "प्रयोगानुसारिणो धात्वर्थाः" च इत्यावयोरध्याययोर्मया प्रतिपादयिष्यत इति शम्।
Comments
Post a Comment