प्रथमोऽध्यायः-१
"प्रथमोऽध्यायः-धातुपाठेषु निहितधात्वर्थाः"
दधाति विविधानि शब्दरूपाणि विभिन्नान् शब्दार्थान् वा यः स धातुः।अथ च धीयन्ते पदार्था अस्मिन्निति विग्रहे "डुधाञ् धारणपोषणयोः" इत्यस्माज्जुहोत्यादिगणस्थाद्धातोरौणादिके "तुन्"इति प्रत्यये विहिते सति धातुशब्दः सिध्यति।यस्यार्थो भवति धारकाधारो धारणाधिकरणं वा। तदुच्यते वैद्यकग्रन्थे "धारणाद्धातवस्ते स्युः"इति।
माहेश्वरसम्प्रदायव्याकरणप्रतिपादको महामुनिराचार्यः पाणिनिः स्वके अष्टाध्यायीग्रन्थे धातोर्लक्षणमित्थं प्रत्यपादयत् -"भूवादयो धातवः"(अष्टाध्यायी -१.३.१) इति।तत्सूत्रव्याख्याने सिद्धान्तकौमुद्यां "क्रियावाचिनो भ्वादयो धातुसञ्ज्ञाः स्युः।तदेवं "क्रियावचनो धातुः","भाववचनो धातुः"इति धातोर्निष्कृष्टार्थलक्षणं परिस्फुटति।
धातूनाम् अर्था धात्वर्थाः।वैयाकरणभूषणसारे धात्वर्थलक्षणन्तु तदित्थं प्रतिपादितम्-
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।
आचार्यपाणिनिना स्वके धातुपाठे धात्वर्थनिर्देशो न कृतोऽपितु पश्चाद्वर्तिना भीमसेनाचार्येण कृत इति केषाञ्चिद्विदुषां मतम्।परमपरे बहवो विद्वांसो धात्वर्थनिर्देशं महामुनिपाणिनिकृतमेव मन्वते।ममापीदं मतं वर्तते यतोहि "मृषस्तितिक्षायाम्"(अष्टा.-१.२.२०), "तनूकरणे तक्षः"(अष्टा.-३.१.७६), "परौ भुवोऽवज्ञाने"(अष्टा.-३.३.५५), "क्षयो निवासे"(अष्टा.-६.१.२०),
"अञ्चेः पूजायाम्"(अष्टा.-७.२.५३),"लुभ विमोहने"(अष्टा.-७.२.५४),
"हेति तितिक्षायाम्"(अष्टा.-८.१.६०) इति प्रभृतिषु पाणिनिकृतेषु अष्टाध्यायीसूत्रेषु धात्वर्थनिर्देशेन विज्ञायते यद् धात्वर्थनिर्देशो भगवता पाणिनिना स्वयं विहितो नास्त्यत्र संशयः।
अस्मिन् शोधग्रन्थे पाणिनिधातुपाठस्य प्रामुख्येण प्रयोगं कृत्वा तथा मैत्रेयरक्षितस्य "धातुप्रदीपः", क्षीरस्वामिणः "क्षीरतरङ्गिणी", सायणाचार्यस्य "माधवीयधातुवृत्तिः"
बोपदेवस्य "कविकल्पद्रुमः",भट्टमल्लस्य "आख्यातचन्द्रिका" इति प्रभृतीनां धातुपाठानां आनुषाङ्गिकतया सहयोगं स्वीकृत्य मया धात्वर्थसमीक्षा विहिता।
Comments
Post a Comment