"प्रयोगानुसारिणो धात्वर्थाः"

"प्रयोगानुसारिणो धात्वर्थाः"
         "प्रयोगशरणाः वैयाकरणाः"इति आभणकं बहुधा विद्वत्सभासु श्रूयते।अस्यायं भावो यद् व्याकरणशास्त्रवेदिनो विद्वांसः प्रयोगम् आधृत्य  शास्त्रप्रक्रियाम् आश्रित्य पदार्थनिर्णयं कुर्वन्ति।महाभाष्यस्य पस्पशाह्निके शेषावतारेण भगवता पतञ्जलिना प्रयोगस्य महत्वं आख्यापितम्।तत्र "शब्दज्ञाने धर्मः" आहोस्वित् "शब्दप्रयोगे धर्मः"  प्रसङ्गेऽस्मिन् बहुविधं पक्षम् उपस्थाय निजकुशाग्रबुद्ध्या न केवलं शब्दज्ञाने धर्मो न च केवलं शब्दप्रयोगे धर्मः, अपितु शब्दज्ञानपूर्वके प्रयोगे धर्मः इति  सिद्धान्तितम्।
            प्रयोगस्तु लोकाश्रितः।किं तर्हि व्याकरणशास्त्रेण क्रियते ? इति पूर्वपक्षस्य समाधानमित्थं प्रतिपादयति यल्लोके अर्थं दृष्ट्वा शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते।तदुच्यते-
"लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेणधर्मनियमः"
(महाभाष्यम्,पस्पशाह्निकम्)।
            संस्कृतभाषायाः शब्दभण्डारोऽतीव विशालोऽपरिमितश्च वर्तते।अस्याः विपुलं वाङ्मयं तेषां समेषां शब्दानां प्रयोगविषयो विद्यते। महाभाष्यस्य प्रस्तावनाभूते पस्पशाह्निकेऽअस्मिन् सन्दर्भे एको रोचकः प्रसङ्गो वर्तते यो हि प्रयोगक्षेत्रस्य विपुलतां सूचयति।यत्र पूर्वपक्षिणा उच्यते भाषायाम् एतादृशा अपि शब्दाः सन्ति।येषां शास्त्रं प्रयोगविषयो नास्ति। अथ च "सन्ति वा शब्दा अप्रयुक्ताः" इति।अस्य समाधानम् उत्तरति महाभाष्यकृदाचार्यो भगवान् पतञ्जलिः -
 "यो महान् हि शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्व्र्‌च्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः । एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम्।एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः द्र्‌श्यन्ते । तत् यथा । शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति । विकारे एनम् आर्याः भाषन्ते शवः इति । हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते । दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु । ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः द्र्‌श्यते । क्व । वेदे । यत् वः रेवतीः रेवत्यम् तत् ऊष । यत् मे नरः श्रुत्यम् ब्रह्म चक्र । यत्र नः चक्र जरसम् तनुनाम् इति । किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।
एवमेव तत्रैव महान् शब्दस्य प्रयोगविषयः प्रतिपादितस्तेनाचार्येण।
            संस्कृतभाषायाम् एतावती विपुलशब्दराशिरस्ति।यत्र धातुप्रतिपाद्या अनेके तादृशाः शब्दाः सन्ति येषाम् अनेकेऽर्था भवन्ति,ते चार्थाः संयोगादिशक्तिनियामकैर्नियन्त्रिताः भवन्ति।अथापि लक्षणावृत्तिगम्यास्तथा व्यञ्जनावृत्तिगम्याश्च भवन्ति।मञ्जूषादिग्रन्थेषु वैयाकरणा लक्षणावृत्तिं नाङ्गीकुर्वन्ति।"ननु सति तात्पर्ये सर्वे सर्वार्थवाचकाः" इति इत्यनेन महाभाष्यवचनेन वैयाकरणा वृत्तिद्वयकल्पनेगौरवभयाद् यद्यपि लक्षणावृत्तिं नाङ्गीकुर्वन्ति पुनरपि अप्रसिद्धाशक्तिरूपेण कुत्रचित् मन्यन्त एव।
          पुनश्च धातुप्रतिपाद्यानां नानार्थकशब्दानाम् अर्थो विज्ञातुं तन्मूलभूतो धात्वर्थो विज्ञातव्यः।यतोहि लोके शास्त्रेषु च एकस्य शब्दस्य बहुधा अनेकार्थेषु प्रयोगः समुपलभ्यते।अतएव शक्तिग्राहकशिरोमणित्वेन व्यवहारः कीर्त्यते।अतः प्रस्तुतशोधप्रबन्धस्य अध्यायेऽस्मिन् लोके शास्त्रेषु च  तत्तन्नानार्थकशब्दानां व्यवहारं प्रयोगञ्चावलोक्य तत्तदर्थं ज्ञातुं कश्चन यत्नो विधेय इति कृत्वा प्रयोगानुसारिणो धात्वर्थाः विविच्यन्ते।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)