वेदाङ्गेषु शिखरभूतं व्याकरणं तन्महत्वञ्च
"ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च"
(महाभाष्यम्,पस्पशाह्निकम्)
विश्वस्मिन् विश्वे सर्वैरपि ब्राह्मणैः षडङ्गसहितो ज्ञानविज्ञानमयो वेदराशिरध्येतव्य इति तेषां निष्प्रयोजनः धर्मो विद्यत इति भगवता शेषावतरेण महर्षिणा पतञ्जलिना महाभाष्यस्य आमुखभूते पश्पशाह्निके प्रतिपादितम्।तत्रापि "वेदानां रक्षार्थमध्येयं व्याकरणम्" तथा "षट्स्वङ्गेषु प्रधानं व्याकरणम्,प्रधाने च कृतो यत्नः फलवान् भवति"इति महाभाष्यप्रामाण्येन ब्रह्मात्मकशब्दराशिवेदार्थप्रतिपत्तये निखिलेषु वेदाङ्गेषु व्याकरणस्य मूर्धन्यभूतं स्थानं वर्तते।शब्दशास्त्रीये दार्शनिकग्रन्थे वाक्यपदीयब्रह्मकाण्डे भर्तृहरिरपि तदित्थं प्रतिपादयामास-
"आसन्नं ब्रह्मणस्तस्य तपसाम् उत्तमं तपः
प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः।।"
(वाक्य०-ब्रह्मका०-११)
वस्तुतः शब्दराश्यात्मकवेदार्थावबोधस्तु तावन्न भवति यावत्तत्र प्रयुक्तानां धातुप्रातिपदिकानां उपसर्गनिपाताव्ययानां सुबन्तानां तिङन्तानाम् लिङ्गवचनविभक्तीनां सन्धिसमासकारकाणां
प्रकृतिप्रत्ययानाञ्च ज्ञानं न भवति।एतदर्थं व्याकरणज्ञानम् अपेक्षितं भवति।यथोक्तं हरिणा-
"अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते।।"
(वाक्यपदीयम्-ब्र.का-१३ कारिका)
अयमभिप्रायो यत् अर्थावबोधे शब्दावबोध एव मुख्यः।यतोहि शब्दावबोधे एव तत्वावबोधोऽर्थावबोधश्चाश्रितो भवति।शब्दावबोधस्तु व्याकरणायत्तः।अतः व्याकरणं विना नहि तत्वावबोधोऽर्थावबोधश्च सम्भवति।
महाभाष्यस्य प्रथमे पस्पशाह्निकेऽपि आनुषङ्गिकप्रयोजननिरूपणप्रसङ्गे भगवता पतञ्जलिना प्रस्तावितम्-
"उत त्वः पश्यन्न ददर्श वाचम्,
उत त्वः श्रृण्वन्न श्रृणोत्येनाम्।
उतो त्वस्मै तन्वं विसस्रे ,
जायेव पत्य उशती सुवासाः।।"
(ऋ.सं-१०/७१/४)
ऋक्स
अन्यच्च,
यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्।।
(आनुषङ्गिकप्रयोजनम्-३)
"अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणी तरणम्।
भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम्॥"
यथा शरीरे मुखस्य प्रधानता वर्तते तथैव निखिलेऽपि वाङ्मये व्याकरणस्य प्रधानता वर्तते। मुखमिव प्रधानत्वाद् व्याकरणं वेदाङ्गमुखमुच्यते। तदुक्तं पाणिनिशिक्षायाम्-
"मुखं व्याकरणं स्मृतम्"(पा.शि.४२ कारिका) इति।अस्यायं भावो वर्तते यद् व्याकरणं वेदपुरुषस्य मुखं वर्तते अथ च वेदाङ्गेषु व्याकरणस्य मुखभूतं स्थानम् अर्थात् प्रधानं स्थानं विद्यते। तदुक्तं शेषावतारभूतेन भगवता पतञ्जलिना महाभाष्ये-
"षट्स्वङ्गेषु प्रधानं व्याकरणं, प्रधाने च कृतो यत्नः फलवान् भवति" इति।
अन्यच्च-
आचार्यानन्दवर्धनोऽपि स्वकीये लक्षणग्रन्थे ध्वन्यालोके शब्दानुशासनभूतस्य व्याकरणस्य महत्त्वं प्रतिपादयन् अवोचद्यत्-
"प्रथमे हि विद्वांसो वैयाकरणा व्याकरणमूलत्वात् सर्वविद्यानाम्"इति।
"व्याकरणस्य लक्षणं प्रयोजनं महत्त्वञ्च"
तत्रादौ व्याकरणलक्षणं प्रस्तूयते- किन्नाम व्याकरणम् इति जिगमिषायां ग्रन्थान्तरेषु अनेकधा व्युत्पत्तीः प्रदर्श्य व्याकरणलक्षणम् उच्यते-
"व्याक्रियन्ते व्युत्पाद्यन्ते लौकिका वैदिका उभयविधाः शब्दा अनेनेति व्याकरणम्"।
अन्यच्च-
"व्याक्रियन्ते व्युत्पाद्यन्ते निष्पाद्यन्ते प्रकृतिप्रत्ययान् विभज्य कथ्यन्ते साधुशब्दा अनेनेति व्याकरणम्।"
तथाहि-
व्याक्रियन्ते विविच्यन्ते असाधुशब्देभ्यो विविच्य कथ्यन्ते साधुशब्दा अनेनेति व्याकरणम्"।
अन्यद्धि-
व्याक्रियन्ते पृथक्क्रियन्ते असाधुशब्देभ्यः
साधुशब्दा अनेनेति व्याकरणम्"।
भगवता बादरायणेन महाभारतस्य उद्योगपर्वणि व्यकारणलक्षणम् इत्थं प्रत्यपादि-
"सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा।।"
(महाभारतम्-उद्योगपर्व)(महा.-५-४३-६२)
एतत्सर्वं समालोच्य सारभूतं पदसाधुत्वबोधकं शास्त्रम् व्याकरणम् अथ च पदसाधुत्वलक्षणं व्याकरणम् इति व्याकरणस्य निकृष्टलक्षणं स्फुटति।
"व्याकरणप्रयोजनम्"
वयं जानीम एव यत् प्रयोजनं विना लोकस्य न कस्मिन्नपि कर्मणि प्रवृत्तिः। तदुच्यते- प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते।"तस्माद् व्याकरणशास्त्रस्यापि प्रयोजनं विना न स्याद् व्याकरणाध्ययने कस्यापि प्रवृत्तिः।अतः प्रसङ्गात् व्याकरणस्य किं प्रयोजनम् इति आकाङ्क्षायां महाभाष्ये बहुधा प्रयोजनं निरूप्यते-
व्याकरणस्य साक्षात्प्रयोजनं शब्दज्ञानमेव।अतोऽस्य शास्त्रस्य अन्वर्थं नाम शब्दानुशासनम् इति सङ्गच्छते। तदुच्यते-
"शब्दानुशासनं शब्दानाम् अन्वाख्यानं वा व्याकरणम्"(महाभाष्ये))
तत्रैव मुख्यप्रयोजननिरूपणावसरे आह भगवान् पतञ्जलिः-
"रक्षोहागमलघ्वसन्देहाः प्रयोजनम्"
पुनस्तत्रैव "तेऽसुरा"इति प्रभृतीनि त्रयोदश गौणप्रयोजनानि अपि निरूपितानि सन्ति।
अपि च-
"लक्ष्यलक्षणे व्याकरणम्"(महाभाष्ये)।
अन्यत्र-
"पदसङ्केतविधानार्थं व्याकरणम्"(न्यायभाष्ये वात्स्यायन:)।
अन्यद्धि-
"व्याकरणात् पदसिद्धिः, पदसिद्धेरर्थनिर्णयो भवति, अर्थनिर्णयात् तत्त्वज्ञानम्,तत्त्वज्ञानात् परं श्रेयः"(वाक्यपदीय टीका)।
एतत्सर्वम् आलोच्य वक्तुं शक्नुमो वयं यद् लौकिकवैदिकोभयविधशब्देषु साधुत्वाऽसाधुत्वपदज्ञानार्थं, पदार्थविज्ञानार्थं च व्याकरणाध्ययनस्य सारभूतं प्रयोजनं वर्तते। यतोहि "व्याकरणं विना न केनापि लघुनोपायेन शक्याः शब्दा ज्ञातुम्"(महाभाष्ये पतञ्जलिः)।पुनस्तत्रैव-"अर्थाविज्ञाने निष्फलः शब्दप्रयोगः,तस्यार्थगत्यर्थत्वात्"
(महाभाष्ये-२.१.१)।
एतद्विवेचनेनैव व्याकरणस्य महत्त्वं अपि स्फुटति।अतः प्रसङ्गवशाद् व्याकरणमहत्त्वं प्रतिपाद्यते।
"व्याकरणमहत्त्वम्"
पदज्ञानम् अथ च शब्दज्ञानं विना न कस्यापि जनस्य पदार्थज्ञानम्(पदार्थप्रतीतिः) न सम्भवति। तथा पदार्थज्ञानं विना शाब्धबोधोऽपि न भवितुं शक्नोति।यतोहि पदार्थज्ञानं (शब्दार्थज्ञानम्) प्रति पदज्ञानं करणं(साधनम्) भवति। तदुच्यते विश्वनाथपञ्चाननभट्टाचार्येण कारिकावल्याः शब्दनामके खण्डे
"पदज्ञानं करणं द्वारं तत्र पदार्थधीः।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी।।"
(न्यायसिद्धान्तकारिकावली-शब्दखण्डः-८१)
पदशास्त्रापरनामकस्य व्याकरणशास्त्रस्य शब्दविद्याया वा महत्त्वमित्थं प्रतिपादयन् काव्यदर्शकारो दण्डी आह-
"इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।।"
(काव्यादर्शः-१-४)
अन्यच्च-
"स्थाणुरयं भारहारः किलाऽभूदधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा।।"
वाक्यपदीयकारो महावैयाकरणो भतृहरिरपि व्याकरणमहत्त्वं ध्वनयन् उवाच-
"इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः।।"
(वाक्यपदीयम्,ब्रह्मकाण्डम्,कारिका-१६)
शब्दब्रह्मणोऽर्थभावेन एव जगतः प्रक्रिया विवर्तते इति वैयाकरणानां राद्धान्तः। तदुक्तं वाक्यपदीये मङ्गलश्लोके हरिणा -
"अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।।"
(वाक्य०,ब्र०का०कारिका-१)
अन्यत्र चोक्तम्-
"अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम्।
भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम्॥"
अस्य पद्यस्यायमशयो व्याकरणाध्ययनं विना अन्यस्य कस्यापि शास्त्रस्याध्ययनं यथा भिन्नद्रोण्या(खण्डितनौकया) तरङ्गिण्या(नद्याः) तरणम्(पारगमनम्) पुनश्च भेषजम्(औषधम्) अपथ्यसहितम् इव।अर्थात् शब्दशास्त्रं व्याकरणमधीत्य यो नरः शास्त्रान्तराध्ययनं करोति, सः खण्डितनौकया नदीपारगमनरूपव्यापारे तथा अपथ्यसहितस्य औषधस्य स्वीकरणे (रोगापनयनरूपव्यापारे) सफलो न भवति।अतः शास्त्रान्तराध्ययनं व्याकरणाध्ययनपूर्वकमेव वरं(श्रेष्ठम्) भवतीत्याशयः।
एतस्मादेव भास्कराचार्येण निजग्रन्थे वेदवदनं(वेदपुरुषस्य मुखभूतस्य वेदाङ्गस्य व्याकरणशास्त्रस्य पूर्वाध्ययनं विधायैव शास्त्रान्तरस्य श्रवणाधिकारित्वं प्रतिपादितम्।तदुक्तम्-
"यो वेदवदनं सदनं हि सम्यग् ब्राह्म्याः स वेदमपि वेद किमन्यशास्त्रम्।
यस्मादतः प्रथममेतदधीत्य विद्वान् शास्त्रान्तरस्य भवति श्रवणेऽधिकारी।।"
(भास्कराचार्य:)
अस्य पद्यस्यायं भावो वर्तते यद् वेदवदनं व्याकरणं (मुखं व्याकरणं स्मृतम्) अधीत्य एव अन्यस्य शास्त्रस्य श्रोतुम् अधिकारी भवति।यतोहि व्याकरणज्ञानं विना शब्दानां प्रकृतिप्रत्ययपदप्रक्रियाज्ञानं न स्यात् तथा तज्ज्ञानं विना शब्दार्थप्रतीतिरपि न स्यात्।तस्मादेव सर्वैरपि प्रयत्नतो व्याकरणम् अवश्यम् अध्येयम्।यतोहि व्याकरणाध्ययनं विना सम्यक्तया शब्दार्थतत्त्वज्ञाने कश्चन समर्थो न भवति।अतः केनचिद् गुरुणा पित्रा वा निजः शिष्यः पुत्रो वा समुपदिष्टो यत् भवतु नाम त्वया बहुशास्त्राध्ययनं न कृतं परं तथापि त्वया शब्दशास्त्रं व्याकरणम् अवश्यमेवाध्येतव्यम्।यतोहि एतदध्ययनं विना कश्स्वचिद् नरो जनः(आत्मीयो जनः) श्वजनः(शुनो जनः),सकलम् (सम्पूर्णम्) शकलम्(खण्डम्) तथा सकृत्(एकवारम्) शकृत्(विष्ठा) इति प्रभृतिषु प्रयोगस्थलेषु शब्दार्थनिर्णये सन्देहान्वितो भ्रमितो भवति।तदुच्यते-
"यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्।।
एतत्परिशीलनेन वक्तुं शक्नुमो वयं यद् व्याकरणशास्त्रं निखिले संस्कृतवाङ्मये वेदाङ्गेषु च शिखरभूतं स्थानं समलङ्करोति नास्त्यत्र सन्देहावसरः।अतः
"षट्स्वङ्गेषु प्रधानं व्याकरणम्,प्रधाने च कृतो यत्नः फलवान् भवति" इति निश्प्रचं सिद्धमेवेति शम्।
लेखकपरिचयः-दीपककुमारचौधरी
(संस्कृतशोधार्थी दीपकवात्स्यः)
कामेश्वरसिंह-दरभङ्गा-संस्कृतविश्वविद्यालयः
(कामेश्वरनगरम्,दरभंगा,बिहारम्)
Comments
Post a Comment