विविधशब्दशास्त्रीयविषयेषु धातोर्महन्महत्त्वम्
-
तत्र सत्स्वपि अनेकेषु धातूपसर्गनिपाताव्ययप्रकृतिप्रत्ययकारकसमासप्रभृतिषु शब्दशास्त्रीयचिन्तनेषु धात्वर्थानां समीक्षणे(विश्लेषणे) किमर्थं प्रवृत्तिः इत्याकाङ्क्षा समुदेति चेदस्याः आकाङ्क्षायाः समाधानार्थं -
१."ओङ्कारं पृच्छामः,को धातुः,किं प्रातिपदिकं, किं नामाख्यातम्,किं लिङ्गं,किं वचनं,का विभक्तिः,कः प्रत्ययः,कः स्वर उपसर्गो निपातः,किं वै व्याकरणं,को विकारः,को विकारी,कति मात्राः,कत्यक्षराः,कति पदाः,कः संयोगः,किं स्थाननादानुप्रदानानुकरणम् इति " गोपथब्राह्मणस्य अस्मिन् मन्त्रे शब्दशास्त्रीयचिन्तनं कृतं वर्तते। अस्मिन् मन्त्रे आदितः द्वितीयक्रमे "को धातुः"इति प्रश्नम् उपादाय अपि धातोर्महत्त्वं स्पष्टीकृतं तथा अन्येषां शब्दशास्त्रीयचिन्तनानाम् अपेक्षया धातोः चिन्तनस्य प्राधान्यं गरीयस्त्वञ्च।तस्मादेव प्रकृतिप्रत्ययप्रत्ययार्थादिविचारं विहाय धात्वर्थविचारो न विजृम्भित:।अतो
"धात्वर्थसमीक्षा" इति अनुसन्धानविषयो निर्धारितो वर्तते।
२."वाक्यं रसात्मकं काव्यम्"
(सा.द-प्र.परि.काव्यलक्षणम्)
इति विश्वनाथकाव्यलक्षणानुसारं रस एव आत्मा यस्य वाक्यस्य तद्वाक्यं काव्यम्।सारतो रसयुक्तं वाक्यं काव्यमिति स्फुटति।वाक्यप्रयोगे यदि तिङन्तस्य प्रयोगो न क्रियते तर्हि तद्वाक्यं पाण्डित्यपूर्णं चमत्कृत्याधायकञ्च नेति बुधैरङ्गीक्रियते।यथोक्तं- न्यायभाष्ये वात्स्यायनः-
"पदसमूहो वाक्यमर्थसमाप्तौ"इति।अस्यायं भावो यद् अर्थसमाप्तिस्तु तिङन्तपदानां व्यवहारेण(प्रयोगेण) एव जायते।तस्माद्वाक्ये काव्ये च तिङन्तस्यैव प्रधानता।वाक्यकारो वररुचिरपि वाक्यलक्षणं निरूपयन् तिङन्तस्य प्राधान्यं द्योतयति-
"एकतिङ्वाक्यम्"इति। अमरकोशकारोऽपि ब्रूते-
"सुप्तिङन्तचयो वाक्यम्"इति।तदित्थम्-"एकतिङन्तार्थमुख्यविशेष्यकं वाक्यम्"इति फलति।तिङन्तपदानां मूलन्तु धातुरेव तस्माद् धात्वर्थसमीक्षणे मदीया प्रवृत्तिः।
३."सर्वेषां कारकाणां क्रियायामेवान्वयः"इति नियमात् सर्वेषां कारकाणाम् अन्ततः क्रियायामेव योगः (सम्बन्धः) विशेषणता च भवति।
"करोति कर्तृकर्मादिव्यपदेशान् इति कारकम्" तथा "करोति क्रियां निवर्तयतीति कारकम्"इति व्युत्पत्तिबलात् "क्रियान्वयित्वं क्रियाजनकत्वं वा कारकत्वम्" इति कारकलक्षणं स्फुटति। क्रियया वाचको धातुरेव।तदुक्तं महाभाष्ये "क्रियावचनो धातुः" तथा "भाववचनो धातुः"इति। तेन हि क्रियावाचकस्य धातोरर्थानां समीक्षायाम् अस्मदीया प्रवृत्तिः समुचिता एव।
४."शब्दानाम् अनुशासनं व्याकरणम्"इति महाभाष्यकाराणां वचनम्। शब्दानां मूलं तु धातुरेव। तदुक्तं यास्कप्रणीते निर्वचनशास्त्रे निरुक्ते-"सर्वं नाम धातुजमाह"(निरुक्ते शाकटायनमतम्)-अस्यायमाशयो यत् सुबन्तेषु धातुजशब्दानामेव आधिक्यात् प्रथमतो धातुज्ञानं तदर्थपरिज्ञानञ्च आवश्यकम्।यतोहि शब्दानां प्रकृतिरूपस्य मूलभूतस्य धात्वर्थस्यैव परिज्ञानं न स्याच्चेत् कुतः शब्दार्थविज्ञानं स्यात्।अनेनैव "सकलशब्दमूलत्वाद् धात्वर्थो निरूप्यते"इति मञ्जूषायां नागेशवचनं सार्थक्यं सङ्गगच्छते।तस्मादेव धात्वर्थसमीक्षणेऽस्मत्प्रवृत्तिरिति बुध्यताम्।
५.काव्यं भावप्रधानं (भावनाप्रधानम्) भवति।तथा भावो व्याकरणतन्त्रे क्रियाभावनाव्यापारादिपदेन उच्यते। तदुक्तं भूषणकारिकायाम्-
"व्यापारो भावना सैवोत्पादना सैव च क्रिया"इति।तत्र क्रिया व्यापारो भावना वा धातोरेवार्थो विद्यते।तदुच्यते-भूषणकारिकायाम्-
"फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।।"
अथ च
"भावप्रधानमाख्यातम्"
(निरुक्तम्-१/१) इत्यत्र आख्यातपदेन धातोस्तिङन्तस्य च उभयोरेव ग्रहणं
अतः फलव्यापारवाचकस्य धातोरर्थस्य समीक्षायां मम प्रवर्तना योग्या एव वर्तते।
"भावप्रधानमाख्यातम्"
(निरुक्तम्-१/१) इत्यत्र आख्यातपदेन धातोस्तिङन्तस्य च उभयोरेव ग्रहणं वर्तते।तस्मात्प्राधान्येन तिङन्तपदानां नामपदानाञ्च मूलभूतानां प्रकृतिरूपाणां धातूनां समीक्षणं भवतु इति विचिन्त्य अस्मन्मार्गनिर्देशकानां गुरूणाम् अनुमत्या च "धात्वर्थसमीक्षा" शोधप्रस्तुतिविषयो(अनुसन्धानविषयः) निर्धारितः।
अथ च धातूनां प्रयोगेषु तदर्थेषु च बहु वैचित्र्यम् अवलोक्यते।क्वचित् उपसर्गप्रयोगबलेन अर्थपरिवर्तनं, क्वचित्तु उपसर्गप्रयोगमन्तराऽपि अर्थपरिवर्तनम्।क्वचित् तिङ्प्रत्ययेषु परस्मैपदिबोधकप्रत्ययानाम् आत्मनेपदिबोधकप्रत्ययानां प्रयोगवशाद् अर्थपरिवर्तनम्।क्वचिच्च धातूनां गणभेदकानां विकरणप्रत्ययानां भेदाद् अर्थपरिवर्तनम्।क्वचिद् आगमादेशादिबलेन अर्थपरिवर्तनम्। क्वचित् सूत्रार्थनिर्देशादपि अर्थपरिवर्तनम् अवलोक्यते।कदाचित् सकर्मकधातूनाम् अकर्मकधातुत्वेन व्यवहारः।कदाचिच्च अकर्मकधातूनामपि सकर्मकधातुत्वेन व्यवहारश्च अवलोक्यते।एते सर्वे विचारा एव "धात्वर्थसमीक्षा"इति विद्यावारिधिनिमित्तं शोधविषयचयनकाले नितरां ममान्तः करणं बुद्धितत्त्वं मनोमयूरञ्च उद्वेलयन्ति स्म।अतः गुरुणाम् अनुमत्या अयमेव "धात्वर्थसमीक्षा" इति लोकानां महान् उपयोगी मद्रुचिमान विषयो वर्तते।यद्यपि एतस्य विषयस्य समीक्षणे महान् यत्नो विधेय इति गुरूणामाशय आसीत् तथापि तेषां भृशं प्रेरणया मार्गदर्शनेन च जनोपयोगी विषयोऽयं शोधग्रन्थप्रस्तुतिविषयः निर्धारितः।
Comments
Post a Comment