पदम्(प्रयोगानुसारिणो धात्वर्थाः)
पदम्-"पद स्थैर्ये"
(भ्वादिः,परस्मैपदी,अकर्मकः,
सेट् धातुः), "पद गतौ"(दिवादिः,आत्मनेपदी,सकर्मकः ,अनिट् धातुः) तथा "पद गतौ"(चुरादिः,आत्मनेपदी,सकर्मकः ,सेट् धातुः " इत्येतेभ्यो धातुभ्यो निष्पन्नः पदशब्दो लोकव्यवहारे शास्त्रव्यवहारे च नानार्थत्वेन प्रयोगेषु समुपलभ्यते।तद्यथा- पद्यते गम्यते बोध्यते अर्थोऽनेनेति,अथ च अर्थं पदयते अर्थात् अर्थं बोधयति यत् तत्पदम्।एवं निष्पन्नः पदम् शब्दबोधकम् इति। शास्त्रेषु क्वचित् पदशब्दः पारिभाषिकोऽपि वर्तते।
तद्यथा- व्याकरणशास्त्रे "सुप्तिङन्तं पदम्"(अष्टाध्यायी -१.४.१४), "नः क्ये"(अष्टाध्यायी -१.४.१५),
"सिति च"(अष्टाध्यायी -१.४.१६), "स्वादिष्वसर्वनामस्थाने"(अष्टाध्यायी -१.४.१७) इत्येतैः चतुर्भिः सूत्रैर्विधीयमानं पदं परिभाषिकं वर्तते।
गौतमविरचिते न्यायसूत्रेऽपि पाणिनिसम्मतं सुबन्तं तिङन्तञ्च पदमित्येव प्रकारान्तरेण प्रतिपाद्यते।तत्र चोक्तम् -"ते विभक्त्यन्ताः पदम्"(गौतमन्यायसूत्रम्-०२/०२/५५)
महाभाष्येऽति तन्मतं समर्थ्यते "विभक्त्यन्तं च पदम्" इति वचनेन।
न्यायशास्त्रेऽर्थबोधकं शक्तिविशिष्टं पदं भवति।तदुच्यते- वृत्तिमत्पदं शक्तिमत् पदम् शक्त्याश्रयं वा पदम्।
काव्यशास्त्रे वाक्यैकदसम्बद्धा वर्णाः पदम्। तदुक्तं साहित्यदर्पणे-
"वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः"
(साहित्यदर्पण:-०२/०४)
, तैत्तिरीयप्रातिशाख्ये वर्णविशेषः पदम्।तदुक्तम् "एकः वर्णः पदम्"इति।शौनककृतायां बृहद्देवतायां "वर्णसङ्घातजं पदम्" इति, न्यायमञ्जर्यां जयन्तभट्टः"वर्णसमूहः पदम्"
यजुर्वेदप्रातिशाख्ये"अर्थः पदम्"।
ऋक्संहितायाम् वाक्यबोधकं पदम्। तदुक्तं-
"चत्वारि वाक्परिमितानि पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति।।"
(ऋक्संहिता-०१/१६४/४५)
महाकविदण्डिविरचिते काव्यादर्शनामके काव्यप्रबन्धे शब्देऽपि पदप्रयोगो दृश्यते।तद्यथा- "अपादः पदसन्तानो गद्यम्"
अन्यच्च -
"शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली"
(काव्यादर्शः प्रथमः परिच्छेदः-१०)
छन्दश्शास्त्रे छन्दसां पङ्क्तिविशिष्टं श्लोकचरणं पदम्।तदुच्यते-"त्रिपदा गायत्री", "अष्टापदलेख्यैः" च।
लौकव्यवहारे पदं पादचरणाङ्घ्रिबोधकं स्थानवस्तुबोधकञ्च उच्यते।चरणबोधके पदप्रयोगो मेघदूते मेघमार्गवर्णनप्रसङ्गे यथा-
"मार्गं तावत् शृणु कथयतः तवत्प्रयाणानुरूपं,
सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयंम्।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥"
(मेघदूतम्-१३)
अन्यच्च,
"भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यति पदं पुनराश्रमेऽस्मिन्।।"
(अभिज्ञानशाकुन्तलम् -४/२०)
शक्तिग्राहकशिरोमणिलोकव्यवहारे स्थानार्थे वस्त्वर्थे चापि पदप्रयोगः समुपलभ्यते।तद्यथा-
"पदं हि सर्वत्र गुणैर्निधीयते"
अन्यच्च,
"सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः"
(अभिज्ञानशाकुन्तलम्),
तत्रैव पुनः,
"यान्त्येव गृहिणीपदं युवतयो वामाः कुलस्याधयः"
(अभिज्ञानशाकुन्तलम्)
अन्यत्रापि,
स्थानार्थे पदप्रयोगो यथा-
"एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना।
सः सर्वसमतामेत्य ब्रह्माभ्येति परं पदम्।।"
(मनुः-०२/१९५)
एवमेव अन्यत्रापि बहुषु स्थलेषु पदप्रयोगो स्थानवस्तुविषयादिष्वर्थे समुपलभ्यते।पदशब्दस्य नानार्थकतां विविधग्रन्थेषु प्रतिपाद्यते।तच्च-
"पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु"
(अग्निपुराणम् -०३/०३/९३)
अन्यच्च,
"पदम् शब्दे च वाक्ये च व्यवसायापदेशयोः।पादतचिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः।।"
(विश्वप्रकाशः)
"श्लोकपादेऽपि च क्लीबं पुल्लिङ्गे किरणे पुन:"
(मेदिनीकोशः)
वेदान्ते शाङ्करभाष्ये तु "पदं गवादिखुराङ्कितो देशः" इत्युच्यते।
पदप्रयोगोऽध्ययनार्थेऽपि भवति। तद्यथा वैदिकसाहित्ये त्रिधा वेदमन्त्राणां पाठोऽवलोक्यते।
संहितापाठः,पदपाठः,क्रमपाठश्च।
अत्र पदपाठो नाम एकोऽध्ययनविधिः इति स्वीक्रियते।
तदित्थं स्पष्टं भवति पदप्रयोगो नानार्थेषु भवति।
अतस्तन्मूलभूतस्य पदधातोरपि नानार्थकत्वं स्वयमेव सिद्धम्।यतोहि तन्मूलभूतत्वान्नानार्थकाद्धातोरेव नानार्थकबोधकं पदं सिध्यति।
Comments
Post a Comment