अर्थः(प्रयोगानुसारिणो धात्वर्थाः)

"अर्थ उपयाच्ञायाम्" इत्यस्माच्चुरादिगणस्थाद्धातोर्घञा प्रत्ययेन सिध्यति अर्थपदम्।यद्धि शब्दप्रतिप्रतिपाद्येऽभिधेये तथा धनसम्पद्वस्तु-विषय-हेतुकारणनिमित्त-निवृत्ति-याचना-प्रयोजनादिषु विविधेषु अर्थेषु प्रयुज्यते।शब्दप्रतिपाद्ये अर्थो नाम शब्दशक्त्या बोध्यः पदार्थविशेषः। तद्यथा- "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्"(अष्टाध्यायी-१/२/४५) , "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" (अष्टाध्यायी--१/२/५६) इति प्रभृतिषु महर्षिपाणिनिकृत्सु सूत्रेषु तथा "सिद्धे शब्दार्थसम्बन्धे"(वार्तिकम्-१) एवम् "अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्" इत्यादिषु कात्यायनमुनिप्रोक्तेषु वार्तिकेषु शब्दानां प्रतिपाद्योऽभिधेयो विषयविशेषश्चार्थः।यास्कप्रणीते निरुक्तेऽपि तदुच्यते -
"स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा।।"
(निरुक्तम्-०१/१८)
साहित्यदर्पणेऽपि कविराजो विश्वनाथोऽपि ब्रूते "अर्थोऽपि त्रिविधो वाच्यो लक्ष्यो व्यङ्ग्यश्च" इति। महाकविकालिदासविरचिते
रघुवंशमहाकाव्यस्य मङ्गलाचरणभूते प्रथमे पद्ये तदित्थम् उच्यते-"वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये"
(रघुवंशम् -०१/०१)
तथाहि- "भारवेरर्थगौरवम्" इति सूक्तेऽपि अर्थपदेन शब्दप्रतिपाद्योऽभिधेयविषयविशेष एव।
         धनादिषु चार्थेषु अर्थशब्दप्रयोगः-"तृतीया तत्कृतार्थेन गुणवचनेन"(अष्टाध्यायी-२/१/३०) इति पाणिनिसूत्रे "अर्थाच्चासन्निहिते" इति वार्तिके समुपलभ्यते।
धनसम्पदो महत्त्वं ध्वनयन् हितोपदेशेऽपि अर्थेन बलवान् सर्वः अर्थाद्भवति पण्डितम् इति भावपरकं पद्यम् उदाहरति श्रीनारायणपण्डितः। तद्यथा-
"यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः॥"
  (हितोपदेशः-१२०)
पुनस्तत्रैव,
"अर्थनाशं मनस्तापं गृहे दुश्चरितानि च। वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्।।"
(हितोपदेश:-१२७)
अन्यत्रापि,
"अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्‌जीवलोकस्य सुखानि राजन्‌॥"
 (विदूरनीतिः)
तथाहि,
"अर्थस्योपार्जने क्लेशस्ततोऽपि परिरक्षणे"
शाकुन्तलेऽपि चतुर्थाङ्के
"अर्थो हि कन्या परकीय एव "
(अभिज्ञानशाकुन्तलम् -४/२४)
इति प्रभृतिषु उदाहरणेषु धनसम्पद्वस्तुबोधकेऽर्थशब्दप्रयोगो वर्तते।
पुरुषार्थेऽपि अर्थप्रयोगो दृश्यते।
"धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्।।"
       (चाणक्यनीति:-१३/१०)
अन्यत्र चोक्तम् 
"धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्"
        (चरकसंहिता)
तथाहि-
"धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च।
प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम्।।"
(भामहकाव्यालङ्कारः-१.२)
पुनश्च,
"धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्।
पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते।।"
पुनरन्यत्र,
"इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः।"
      (वेदान्तपरिभाषा)
इन्द्रियविषयभेदेऽपि अर्थशब्दप्रयोगस्तद्यथा-
इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्
(तर्कसङ्ग्रहः)
तथाहि -
"इन्द्रियार्थेषु सर्व्वेषु न प्रसज्जेत कामतः।
अपि स्वदेहात् किमुतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः।।"
( रघुवंशम्-१४/३५)
अन्यत्र चोक्तम् -
"इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते"
(वाक्यपदीयम्-०३/०१/३०)
पुनस्त्रैव
"इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं 
क्वचित्।
यद्यदा यदनुग्राहि तत्तदा तत्र साधनम्।।"
(वाक्यपदीयम्-०३/०७/१२)
शास्त्रविधिबोधकेऽर्थप्रयोगः- अर्थशास्त्रम् (Economic), अर्थविज्ञानम्(Semasiology) अर्थवादः(Monetarism)
हेतुनिमित्तबोधके प्रयोजनार्थे चार्थशब्दप्रयोगो बहुधा समुपलभ्यते।तद्यथा-
"तसौ मत्वर्थे"
(अष्टाध्यायी-१/४/१९)
चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः 
(२/१/३६)
इत्यनयोः सूत्रयोस्तथा "अर्थेन नित्यसमासो विशेष्यनिघ्नता चेति वक्तव्यम्"इति वार्तिके समुपलभ्यते। अन्यत्र- "द्विजार्थः सूपः, द्विजार्था यवागूःद्विजार्थं पयः" इत्यादिषु उदाहरणेषु तथान्यत्रापि
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।
(श्रीमद्भगवद्गीता-०१/०९)
पुनस्तत्रैव,
"यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।"
(श्रीमद्भगवद्गीता-०३/०९)
तथाहि संयोगादिष्वपि पठितो योऽर्थशब्दस्तस्यापि प्रयोजनबोधकत्वमेव वाक्यपदीयमञ्जूषादिग्रन्थेषु सूचितम्।तच्च-
"संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य सन्निधिः।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।।"
(वाक्यपदीयम्-३१७-३१८)
इति।
तदित्थं स्पष्टं भवति यदर्थपदं विविधपदार्थबोधकम्।तदुक्तम्- अमरकोशेऽपि-
"अर्थोऽभिधेयैरेववस्तुप्रयोजननिवृत्तषु"
(अमरकोशः-३/३/९३)
अन्यत्रापि चोक्तम् -
"अर्थः प्रकारे विषये व्यवहारे प्रयोजने।
अभिधेये धने शास्त्रे वस्तुहेतुनिवृत्तिषु।।"
तदेवमर्थपदस्य नानार्थकता प्रदर्शिता।तस्मात्तन्मूलभूतस्यार्थधातोरपि चानेकार्थस्वीकारे न काचिद्विप्रतिपत्तिः स्यादिति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)