अन्वयः (प्रयोगानुसारिणो धात्वर्थाः)
अन्वयः-"अनु" उपसर्गपूर्वकाद् "इण् गतौ" (अदादिगणीयः, परस्मैपदी,सकर्मकः,अनिट् धातुः) इत्यस्माद्धातोर्भावे कर्तरि च अच्प्रत्यये सति निष्पद्यते अन्वयशब्दः।यश्च संस्कृतवाङ्मये वंशवंशपरम्परासन्तति-
प्रत्यक्षानुगत-पदद्वयपारस्परिकसम्बन्ध-अर्थबोधविधि-न्यायशास्त्रीयविधिप्रभृतिषु
विविधेषु अर्थेषु प्रयुज्यते।
वंशकुलार्थेऽन्वयशब्दप्रयोगो कविकुलगुरुकालिदासविरचिते रघुवंशमहाकाव्ये समुपलभ्यते।तदाह-
"तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव।।"
(रघुवंशमहाकाव्यम् -०१/११)
पुनस्तत्रैव वंशपरम्परार्थेऽपि प्रयोगः समुपलभ्यते।तद्यथा-
"रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्"
(रघुवंशमहाकाव्यम् -०१/०९)
वंशजातपुत्रपौत्रादिषु अर्थेषु मनुस्मृतौ- "योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय:।।
(मनुस्मृतिः-०२/१६८)
इन्द्रियम् अन्वेति इति व्युत्पत्त्या निष्पन्नोऽन्वयशब्दः प्रत्यक्षार्थबोधको भवति।तदाह-
"निरन्वयं भवेत्स्तेयम्"
(मनुस्मृतिः-०८/३३२)
अनुगतमात्रे च भागवतपुराणेऽन्वयशब्दो दृश्यते। तत्रोच्यते-
"जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट्,
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा,
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि।।"
(श्रीमद्भागवतमहापुराणम्-०१/०१/०१)
शब्दानां परस्परम् अर्थानुगमनम् अन्वयः।तद्यथा-"अयं घृतघटः" इत्यादिषु।अत्र पदानां परस्पराकाङ्क्षा योग्यता च अन्वयो भवति।तत्रान्वयो नाम पदानां नाम स्वोपस्थाप्यपदार्थानां वा परस्परसम्बन्धो भवति।काव्यशास्त्रे शिक्षाशास्त्रे च दण्डान्वयः खण्डान्वयश्च पद्यपाठविधिर्वर्तते।
तदुच्यते-
"विशेषणं पुरस्कृत्य विशेष्यं तदनन्तरम्।
कर्तृकर्मक्रियायुक्तमेतदन्वयलक्षणम्।।"
न्यायशास्त्रे च "तत्सत्त्वे तत्सत्ता अन्वयः" इति न्यायशास्त्रीयविधिविशेषः।।
इत्थम् अन्वयशब्दो विविधार्थकः।तस्मात्तन्मूलत्वात् "इण्" धातुरपि विविधार्थको भवतीति स्पष्टं भवति।
Comments
Post a Comment