वृत्तिः (प्रयोगानुसारिणो धात्वर्थाः)

वृत्तिः-"वृतु वर्तने"(भ्वादिगणीयाद् आत्मनेपदिनोऽकर्मकात्), "वृतु वरणे"(दिवादिगणस्थाद् आत्मनेपदिनोऽकर्मकात्), "वृतु भाषार्थे"(चुरादिगणस्थात्परस्मैपदिनः सकर्मकात्) केषाञ्चन मते "वृतु भासार्थे"(भासार्थो नाम भासा दीप्तिरर्थो यस्य सः, तस्मात् कविकल्पद्रुमे "वृतु दीप्तौ" इति पठ्यते) इत्येभ्यो धातुभ्यो भावकर्मादौ यथायथं क्तिन् प्रत्यये कृते सति निष्पन्नतामेति वृत्तिशब्दो विविधेषु शास्त्रेषु विविधार्थबोधको दृश्यते। क्वचित् जीविकाजीविकाजीवनोपायार्थे, क्वचित् सत्तास्थितिप्रवर्तनार्थे, क्वचिद् व्यापाराधेयव्यवहारेषु, क्वचित् पदपदार्थसम्बन्धशक्तिनिरन्तरता न्तःकरणावस्थाज्ञानार्थेषु क्वचित् व्याख्याटीकाविवरणवाक्यार्थेषु च वृत्तिशब्दप्रयोगः समुपलभ्यते।
जीविकाजीविकाजीवनोपायार्थेषु वृत्तिशब्दो यथा -
"जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु"
(अष्टाध्यायी-४/१/४२) इति सूत्रे।एतत्सूत्रव्याख्याने न्यासे "जीवनोपायो वृत्तिशब्देन इहोच्यते" पदमञ्जर्यां "वर्तते अनया सा वृत्तिरुपजीविका", तत्वबोधिन्यां "वर्ततेऽनया वृत्तिर्जीविका " तथा बालमनोरमायां "जीविका चेद्गम्या"इति निर्देशा लभ्यन्ते।तस्माद्वर्तते यया अनया वेति वृत्तिः जीविकाजीविकाजीवनोपायबोधिका। तदुक्तम् -
"एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शास्वती"
(मनुस्मृतिः-४/२५९)
अन्यत्र चोक्तम्-
"स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः"
(ब्रह्मवैवर्त्तपुराणम्-प्रकृतिखण्डः-४९अध्यायः)
"वर्तनं वृत्तिः" इति व्युत्पत्त्या सत्तास्थितिबोधके वृत्तिशब्दो यथा  धातुपाठे "वृतु वर्तने" इत्यत्र "वर्तनं सत्ता" इति अर्थनिर्देशो व्याख्यानाल्लभ्यते।तत्रैव "वर्तनं स्थितिः"इति क्षीरतरङ्गिण्याम् उच्यते।
प्रवर्तनार्थे वृत्तिशब्दो यथा- 
"उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति।।
(अभिज्ञानशाकुन्तलम् -४/१९)
अन्यत्र चोक्तम् -
महाभाष्यस्य प्रथमे प्रस्तावनाख्ये पश्पशाह्निके वर्णोपदेशप्रयोजननिरूपणावसरे किमर्थं वर्णानामुपदेशः कर्तव्यः इति प्रश्नस्योत्तरत्वेन भगवान् भाष्यकार आह "वृत्तिसममवायार्थं वर्णानामुपदेशः कर्तव्यः" पुनस्तत्रैव वृत्तिर्नाम शास्त्रप्रवृत्तिरिति स्वयम् अनिरूपयत्।तदुक्तम् "वृत्तिसमवायार्थ उपदेशः "(महाभाष्य-वार्तिकम्) इति शेखरादौ विस्तरेण प्रपञ्चितं वर्तते।
"वर्ततेऽअस्मिन्निति वृत्तिः"इति व्युत्पत्त्या निष्पन्नो वृत्तिशब्द आधेयवाचकः।तदुक्तम् -"व्याप्तिपञ्चकं वृत्तिः" ,"साध्याभाववद्वृत्तित्वम्"
अन्यत्र चोक्तम् -
"सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्।।"
(भाषापरिच्छेदः)
पुनश्च,
"वृत्त्याश्रयः स्फोटः" इति मञ्जूषा। वृत्तिः चित्तस्य अवस्थाविशेषो व्यापारविशेषश्च।तद्यथा-"योगश्चित्तवृत्तिनिरोधः"
(पातञ्जलयोगसूत्रम्-२)।
पुनस्तत्रैव चित्तवृत्तयः पञ्च।साङ्ख्यदर्शनेऽपि वृत्तिर्व्यापारः। तदुक्तम् -"अर्थनिकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमोऽभिभवे यः सत्वसमुद्रेकः"
(साङ्ख्यतत्वकौमुदी-५)
अन्यत्रापि-
"औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम्।
नातिश्रमापनयनाय न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥ 
(अभिज्ञानशाकुन्तलम् -५/६)
अर्थबोधं प्रति अनुकूलः कश्चन शब्दव्यापारविशेषो वृत्तिः।अभिधा लक्षणा व्यञ्जना चेति तिस्रो वृत्तयः।
तदुक्तम्-"अर्थनित्यः परीक्षेत केनचिद् वृत्तिसामान्येन"
पुनश्च 
"तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने"
(साहित्यदर्पणः-२/२०)
वेदान्ते तु अन्तःकरणादेः परिणामभेदो वृत्तिः।तदुक्तम् -
"अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकम्"
इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्बन्धार्था।
पुनश्च,
"ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता"
क्वचित् वृत्तिशब्दस्य व्यवहारार्थेऽपि प्रयोगो लभ्यते।
"गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्"
(मनुस्मृतिः-२/२०५)
अन्यत्रापि,
"शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्॥"
(रघुवंशम् -१/८8)
अन्यच्च,
"शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी,
यान्त्येवं गृहणीपदं युवतयो वामाः कुलस्याधयः।।"
(अभिज्ञानशाकुन्तलम् -४/१८)
व्याकरणशास्त्रे तु विविधार्थको भवतीति क्वचित् शब्दोच्चारणव्यापारविशेषः।तद्यथा-
"अभ्यासार्थे द्रुता वृत्तिर्मध्या वै चिन्तने स्मृता।
शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता।।"
एतादृशो भाव एव प्रकारान्तरेण निगदितो वर्तते।तद्यथा-
“द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् ।  शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥”
पुनश्च क्वचित् पदपदार्थसम्बन्धरूपा वृत्तिः सा च शक्तिव्यञ्जनाऽन्यतमा रूपा।तल्लक्षणं-"शाब्दबोधनिष्ठपदार्थोपस्थितिजनकत्वं वृत्तित्वमाहुर्वैयाकरणाः"।अस्यायं भावः-शब्दो हि येन व्यापारेण स्वकीयम् अर्थं बोधयति सा वृत्तिः।
शाब्दबोधीयकार्यकारणभावनिरूपणप्रसङ्गे मञ्जूषायां तदित्थं निरूपितम् -
"तद्धर्मावच्छिन्नशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः।"
पुनस्तत्रैव महाभाष्यवचनम् उदाहृतम्
"अत एव नागृहीतवृत्तिकस्य शाब्दबोधः"।
तच्च मञ्जूषादौ विस्तरेण प्रपञ्चितं वर्तते।
पुनश्च क्वचित् "कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्चवृत्तयः" "समर्थः पदविधिः"
अष्टाध्यायी -२/१/१)  इति महाभाष्यादिषु ग्रन्थेषु व्याख्यातम्।
 क्वचित् जहत्स्वार्थाजहत्स्वार्थत्वेन वृत्तेस्द्वैविध्यं व्याख्यातम्।तदपि "अनेकमन्यपदार्थे" (अष्टाध्यायी -२/२/२४) इति सूत्रस्य व्याख्याने समुपलभ्यते।तदुक्तम् -
"सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः वक्तव्यः"
(महाभाष्यवार्तिकम्)
पुनस्तत्रैव चोक्तम् -
"सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो न"इति।
एवम्प्रकारिकाया वृत्तेर्लक्षणमित्थं वर्तते -"परार्थाभिधानं वृत्तिः"इति।
अत एव भूषणसारादौ प्रतिपादितं सङ्गच्छते -
"बहूनां वृत्तिधर्माणां वचनैरेव साधने"
क्वचित् व्याख्याग्रन्थार्थे वृत्तिशब्दप्रयोगो लभ्यते।तद्यथा-
"सूत्रार्थविवरणं वृत्तिः"
(यशोवर्मकृतं कातन्त्रव्याकरणम्)
अत एव वृत्तित्वेन काशिकान्यासपदमञ्जरीप्रदीपादयो ग्रन्थाः वृत्तिग्रन्थत्वेन विद्वत्समाजे बहुधाद्रियन्ते।माघकाव्ये तदुक्तम्-
"अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा॥"
 (शिशुपालवधम्-२/११२)
वृत्तिकारत्वेन कात्यायनो वररुचिस्तु "त्रिमुनि व्याकरणम्"इत्यत्र महत्वपूर्णं स्थानम् आधत्ते।
पाणिनिमते "वृत्तिसर्गतायनेषु क्रमः" इति सूत्रेऽस्मिन् वृत्तिशब्दार्थो निरन्तरता वर्तते।तदुक्तं काशिकावृत्तौ- "वृत्तिरप्रतिबन्धः:" इति।महाभाष्ये तु वृत्तिर्नाम शास्त्रप्रवृत्तिरिति पूर्वमेव स्पष्टीकृतम्।
नाट्यशास्त्रेऽलङ्कारशास्त्रे च नायकादिव्यापारमादाय वृत्तिपदेन चतस्रो नाट्यवृत्तयो गृह्यन्ते।तदुक्तम् -
"श्रृङ्गारे कैशिीकी वीरे सात्‍वत्‍यारभटी पुन:। 
रसे रौद्रे च वीभत्‍से च वृत्ति: सर्वत्र भारती।। 
चतस्रो वृत्‍तयो ह्येता:  सर्वनाट्यस्‍य मातृका:। 
स्‍युर्नायकादिव्‍यापारविशेषा नाटकादिषु।।"
(साहित्‍यदर्पण:-६/१२२-१२३)
एतत्सर्वम् आदाय कोशग्रन्थेषु वृत्तिपदस्य नानार्थकता प्रदर्शिता।
तदुक्तम् -
"आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने"
(अमरकोश:-२/९)
अन्यत्र चोक्तम् -
"वृत्तौ भाष्ये तथा नामधातुपारायणादिषु"
(वामनजयादित्यकृता काशिका)
पुनश्च 
"वृत्तिर्ग्रन्थजीवनयोः"
    (मेदिनीकोशः)
एतैः प्रमाणैः सुसिद्धं भवति वृत्तिपदम् अनेकार्थबोधकम्।अतस्तन्मूलभूतस्य वृत् धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति मन्मतिः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)