प्रत्ययः(प्रयोगानुसारिणो धात्वर्थाः)
प्रत्ययः-"प्रति" इत्युपसर्गपूर्वकात् "इण् गतौ ( अदादिगणीयः परस्मैपदी सकर्मकोऽनिट्) इति धातोः भावकरणादावर्थे यथायथम् "अचि प्रत्यये कृते सति निष्पन्नतामेति प्रत्ययशब्दो विभिन्नेषु शास्त्रेषु अनेकार्थको वर्तते।क्वचित् प्रत्ययशब्दो प्रकृत्युत्तरजायमानपदार्थविशेषे क्वचिद् बोधज्ञानप्रतीत्यर्थे, क्वचिद् बुद्ध्यर्थे,क्वचित् विश्वासार्थे,क्वचित् निश्चयार्थके च।
प्रत्येति पश्चादागच्छतीति प्रत्ययः ,अथ च प्रत्याय्यते अर्थो बुध्यते अनेनेति प्रत्ययः,अथ च प्रत्यायति अर्थं बोधयति यः सः प्रत्यय इति व्युत्पत्तिबलाद् व्याकरणशास्त्रे प्रत्ययशब्दः प्रकृतेरुत्तरविधीयमाने स्वार्थबोधके पदार्थविशेषे सुब्तिङ्कृत्तद्धितलक्षणे च वर्तते। तदुक्तं महाभाष्ये स्वीयमर्थं प्रत्यायतीति प्रत्ययः।भगवता पाणिनिनापि अनेकेषु सूत्रेषु एवंविधोऽर्थ एव प्रतिपादितः।तदाह- "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (अष्टाध्यायी-१/२/४५), "प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" (अष्टाध्यायी-१/२/५६) , "अणुदित्सवर्णस्य चाऽप्रत्ययः" (अष्टाध्यायी-१/१/६९) इति।तद्व्याख्याग्रन्थेषु "प्रतीयते विधीयते इति प्रत्ययः" सिद्धान्तकौमुद्याम्, "विधीयमानः प्रत्ययः"इति न्यासे, क्वचित् "स्वार्थिकाः प्रत्ययाः प्रकृत्यर्थानुवादिनः" इति वाक्यपदीये ,"प्रत्ययस्तु प्रकतिमवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेषः" इति शब्दार्थरत्ने,
"प्रत्याययन्ति सुप्तिङ्कृत्तद्धिताः प्रत्ययाः"इति बोपदेवाचार्यकृते संक्षिप्तसारव्याकरणे तथा
"स्वस्वप्रकृत्यर्थान्तरप्रत्ययायकत्वं प्रत्ययानाम् " इति लघुशब्देन्देशेखरादौ च विस्तरेणालोचितम्।क्वचित् प्रत्ययलक्षणमेवमुक्तम्-
"इतरार्थानवच्छिन्ने स्वार्थे यो बोधनाक्षमः।
तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते।।
अन्यत्र च प्रत्ययशब्दो ज्ञानार्थको वर्तते।
"सर्वे गत्यर्था धातवो ज्ञानार्थाः प्राप्त्यार्थश्च भवन्तीति महाभाष्यराद्धान्तस्वीकारात् प्रत्ययो नाम ज्ञानम्।अन्यत्र
"उच्चरितो हि सञ्ज्ञाशब्दः सञ्ज्ञिनं प्रत्याययति" इत्यत्रापि प्रत्याययति नाम ज्ञानं कारयति बोधयतीत्यर्थः।तस्मादेव प्रतीयतेऽर्थो बुध्यतेऽनेनेति प्रत्ययशब्दव्युत्पत्तिः प्रदर्शिता वर्तते।तथाहि-
"नायं लोकोSस्ति न परो न सुखं संशयात्मनः।
ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम्।।
प्रस्तुते पद्येऽस्मिन् "प्रत्ययो मोक्षलक्षणम्"
(महाभारतम्)
इति पादांशे प्रत्ययपदं ज्ञानार्थकमेव।
वैयाकरणानां मूर्धन्ये दार्शनिकग्रन्थे वाक्यपदीयेऽपि तदित्थं प्रत्ययशब्दो ज्ञानार्थकत्वेन प्रतिपादितः-
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।।
(वाक्यपदीयम्-ब्रह्मकाण्डम्-१२३)
अन्यत्रापि -
"प्रत्ययः सर्वदर्शनः"
(विष्णुसहस्रनामस्तोत्रम्-२३)
बुद्ध्यर्थे प्रत्ययशब्दो यथा-"महत्तत्वधर्मः प्रत्ययः"साङ्ख्ये।तदुक्तं साङ्ख्यकारिकायाम्-
"एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥
"प्रत्ययश्च बुद्धिरात्मगुणः" न्याये
इति।
निश्चयार्थे प्रत्ययशब्दो यथाह मनुः -
"यदि संशय एव स्यात् लिङ्गानामपि दर्शने।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः।।"
(मनुस्मृति:-८/२५३)
अन्यच्च -
"साक्षिप्रत्ययसिद्धानि कार्याणि
यदि न प्रत्ययोऽस्मासु विद्यते "इति।
विश्वासार्थेऽपि प्रत्ययशब्दो विद्यते। कविकुलगुरुणा कालिदासेन स्वविश्वविश्रुतस्य नाटकस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्के सूत्रधारोक्तौ तदुक्तम् -
"आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥"
(अभिज्ञानशाकुन्तलम् -१/२)
पुनश्च कालिदासविरचिते मालविकाग्निमित्रे सूत्रधारोक्तौ चोक्तम् -
"पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः।।"
(मालविकाग्निमित्रम्-१/२)
हेतुरन्ध्राधीनशपथाचारेषु अन्येष्वपि अनेकार्थेषु प्रत्ययशब्दो विद्यते। तदुक्तम् -
"प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु"
(अमरकोशः-३.३.१५६)
अन्यत्र चोक्तम्-
"प्रत्ययो ज्ञानरन्ध्रयोः"
अन्यच्च -
"विश्वासे शपथे हेतावाचारप्रथितत्वयोः"
(हेमचन्द्रः)
अन्यद्धि-
"प्रत्ययाः सहकारिणः"
(त्रिकाण्डशेषकोशः)
उपर्युक्तविवेचनेन स्पष्टो भवति यल्लोके प्रत्ययशब्दोऽनेकार्थको विद्यते। अतस्तन्मूलभूतस्य "इण् गतौ"इति धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति मन्मतिः।
Comments
Post a Comment