योगः (प्रयोगानुसारिणो धात्वर्थाः)

योगः -"युज समाधौ"(दिवादिगणीयः आत्मनेपदी अकर्मकः अनिट्), "युजिर् योगे"(रुधादिगणीयः उभयपदी सकर्मकः अनिट्), "युज संयमने"(चुरादिगणीयः उभयपदी सकर्मकः सेट्) इति धातूनां भावादौ यथायथं घञि प्रत्यये सति निष्पन्नो योगशब्दो ध्यानसमाध्यर्थे  योगसंयोगार्थे ऐक्यमेलनार्थे अलब्धलाभार्थे युक्त्युपायसाधनार्थे सम्बन्धार्थे  अवयवार्थनिरूपितशब्दार्थशक्तिभेदे सूत्रशास्त्रभेदे च शास्त्रान्तरेषु विविधार्थबोधको दृश्यते।
युज्यतेऽनेनेति व्युत्पत्त्या निष्पन्नो योगशब्दो ध्यानसमाधियुक्त्युपायसाधनार्थं बोधयति।तत्रादौ ध्यानसमाध्यर्थे चित्तैकाग्र्यं योगपदेन व्यपदिश्यते। तदुक्तं पातञ्जलयोगदर्शनस्य समाधिपादे-"योगश्चित्तवृत्तिनिरोधः"
(पातञ्जलयोगसूत्रम्-१.१.२) इति।तत्रैव व्यासभाष्ये "योगः समाधिः" इत्युक्तम्।एतन्मतमेव कविकल्पद्रुमेऽपि समुपलभ्यते। तत्रोच्यते "युज समाधौ" इति तत्र "समाधिश्चित्तवृत्तिनिरोधः"इति।पुनश्च कविकल्पद्रुमे "युज युतौ"इति धातूल्लेखः कृतः।युतिर्नाम योगः संयोगो मेलनम् ऐक्यमेव।तदित्थं योगपदेन संयोगो मेलनम् ऐक्यञ्चेति फलितार्थो भवति।
तस्मात् जीवपरमात्मनोः संयोगो मेलनमैक्यभावश्च योगः।तदुक्तं योगयाज्ञवल्क्ये- 
"संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः"
(योगयाज्ञवल्क्यम्-१/४३)
एतदेव प्रकारान्तरेण क्वचिदुक्तम्-
"संयोगं योगमित्याहुर्जीवात्मपरमात्मनोः"इति ।
श्रीमद्भगवद्गीतायान्तु योगेश्वरश्रीकृष्णेन सिद्धासिद्ध्योः सुखदुःखयोर्भावाभावयोर्वा साम्यावस्था योगलक्षणमुक्तम्। तदुच्यते-
"योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।"
(श्रीमद्भगवद्गीता-२/४८)
पुनश्च-
"तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम्।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा।।"
     (श्रीमद्भगवद्गीता-६/२३)
पुनश्च तत्रैव कार्यकुशलता योगपदेन निर्दिष्टा।तदुक्तम्-
"बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।"
    (श्रीमद्भगवद्गीता-२/५०)
व्याकरणशास्त्रीयसूत्रेषु बाहुल्येन 
योगशब्दः सम्बन्धार्थे प्रयुक्तो दृश्यते। तद्यथा-
"अन्तरं बहिर्योगोपसंव्यानयोः"
(अष्टाध्यायी-१/१/३६), "षष्ठी स्थाने योगा"(अष्टाध्यायी-१/१/४९) ,
"उपसर्गाः क्रियायोगे"(अष्टाध्यायी-१/४/५९),
"तेन सहेति तुल्ययोगे"(अष्टाध्यायी-२/२/२८),
"लुब्योगाप्रख्यानात्"
(अष्टाध्यायी-१/२/५४),
"नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च"(अष्टाध्यायी-२/३/१६),
"पुंयोगादाख्यायाम्"
(अष्टाध्यायी-४/१/४८) इत्यादीनां पाणिनिसूत्राणां न्यासबालमनोरमातत्वबोधिनीव्याख्यासु व्याख्याकृद्भिराचार्यैः योगशब्दस्य सम्बन्धोऽर्थः प्रदर्शितः।
"अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि"इति वार्तिकेऽपि स एवार्थो निर्दिष्टो वर्तते।
क्वचिद्व्याकरणनिकाये अवयवशक्तिर्योगः
नागेशभट्टेन परमलघुमञ्जूषायां शक्तिनिरूपणे "सा च शक्तिस्त्रिधा।रूढिर्योगो योगरूढिश्च"इति प्रतिपादितम्।पुनस्तत्रैव "शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः,यथा पाचकादौ" इति प्रतिपादितम्।अतस्तन्मते योगशब्देन योगशक्तिर्योगशब्दो योगार्थश्च गृह्यते।
"लुब्योगाप्रख्यानात्"(अष्टाध्यायी-१/२/५४)
"योगप्रमाणे च तदभावेऽदर्शनं स्यात्"
(अष्टाध्यायी-१/२/५५) इत्यनयोः सूत्रयोर्बालमनोरमायां योगशब्दस्य अवयवार्थोऽर्थः प्रदर्शितः।येन वाक्यं युज्यते स योगः इति कृत्वा 
भाष्ये कुत्रचिद् योगशब्दार्थः सूत्रं शास्त्रञ्च स्वीक्रियते।तन्मते " न तर्हि अयं योगो वक्तव्यः" , "योगविभागः क्रियते" "योगविभागादिष्टसिद्धिः"
("विभाषा जसि"-अष्टाध्यायी-१/१/३२) इत्यादिषु भाष्यप्रमाणवचनेषु योगशब्देन सूत्रं शास्त्रञ्चार्थो स्वीकृतः।अन्यथा चेत् तत्र काल्पनिकापत्तिरुत्पद्येत अनादित्वञ्च न सिध्येत।
ज्योतिश्शास्त्रेऽपि चन्द्रसूर्ययोः युतिर्योगः,वारतिथिसंयोगो योगः।तिथिनक्षत्रयोः सङ्गमो योगश्च कथ्यते।
ग्रहराशिभावेषु तिथिनक्षत्रमुहूर्तेषु च कश्चन विशिष्टः सम्बन्धो योगः।
अलब्धस्यलाभो योगः।
येन आत्मा परमात्मनि युज्यते स योगः।येन दर्शनेन  चित्तविकारानपहृत्य चिदानन्दात्मदर्शन विधीयते।अत्र योगशब्दो योगदर्शनबोधको भवति।यद्धि आत्मदर्शनसाधनं वर्तते।तदुक्तं-
"इज्याध्ययनदानानि तपः स्वाध्यायकर्मणी।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम्।।"
अन्यच्च,
"योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।"
तथाहि,
"हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः"
पुनश्च,
"भक्तियोगः क्रियायोगः चर्यायोगस्तथैव च।
कर्मयोगो हठो मन्त्रो ज्ञानयोगो लयस्तथा।।
अद्वैतो लक्ष्ययोगश्च सिद्धिर्ब्रह्म तथा शिवः।
वासनाध्यानयोगौ च सर्वे सूत्रेषु दर्शिताः।।"
     (योगसूत्रसारः-४६-४७)
अतएव श्रीमद्भगवद्गीतायाः प्रत्येकम् अध्यायानां नामसु योगशब्दप्रयोगः सार्थकत्वं भजते।एतेन ज्ञायते यत् योगशब्दो युक्त्युपायसाधनेष्वपि वर्तते।
तदुक्तं रघुवंशे-
"वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्"
(रघुवंशम् -१/६)
तदित्थं विवचनेन स्पष्टं भवति यल्लोके शास्त्रे च योगशब्दो विविधार्थबोधको वर्तते।तदुक्तम् अमरकोशकारोऽपि-
"योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु"
(अमरकोशः -३/३/२८)
अतस्तन्मूलभूतस्य युज् धातोरपि अनेकार्थकतास्वीकारे न काचिद् विभाति विप्रतिपत्तिः।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)