सर्गः(प्रयोगानुसारिणो धात्वर्थाः "
सर्गः -सर्गशब्दः "सृज विसर्गे" (तुदादिगणीयः,परस्मैपदी, सकर्मकोऽनिट् धातुः) तथा "सृज विसर्गे" (दिवादिगणीयः,आत्मनेपदी,
सकर्मकोऽनिट् धातुः) इत्येताभ्यां धातुभ्यां घञा प्रत्ययेन निष्पन्नो भूत्वा उत्साहार्थे,निश्चयार्थे,
सृष्ट्युत्पत्तिसम्भवार्थे,त्यागनिर्मोक्षार्थे,
महाकाव्यपरिच्छेदकेऽध्यायविशेषार्थे
प्रकृतिनिसर्गस्वभावार्थे चानेकार्थेषु शास्त्रान्तरेषु प्रयुज्यते।
तत्रादौ शब्दशास्त्रे "वृत्तिसर्गतायनेषु क्रमः"(अष्टाध्यायी-०१/०३/३८) इत्यस्मिन् सूत्रे सर्गशब्द उत्साहार्थबोधको वर्तते।तदुक्तं तद्व्याख्याग्रन्थेषु काशिकासिद्धान्तकौमुदीपदमञ्जर्यादिषु "सर्ग उत्साहः"इति।निश्चयार्थे रघुवंशे यथोक्तं- गृहाण शस्त्रं यदि सर्ग एष ते,
न खल्वनिर्जित्य रघुं कृती भवान्"
(रघुवंशमहाकाव्यम्-०३/५१)
सृष्ट्युत्पत्त्यर्थे सर्गशब्दः पुराणेषु बहुधा प्रपञ्चितो विद्यते।पुराणलक्षणे यथोक्तम्-
"सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्॥"
(मत्स्यपुराणम्-४३/६४)
अन्यत्रापि चोक्तम् -
"सर्गश्चाथ विसर्गश्च वृत्ती रक्षान्तराणि च।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः।।"
(श्रीमद्भागवतमहापुराणम्-१२/७/९)
पुनश्च,
"अत्र सर्गो विसर्गश्च स्थानं पोषणमुत्तयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः।।"
श्रीमद्भागवतमहापुराणम्-०२/१०/१)
पुनस्तत्रैव-
"अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः।
भूतमात्रेन्द्रियाणां सम्भवः सर्ग उच्यते।।"
(श्रीमद्भागवतमहापुराणम्-१२/७/११)
साङ्ख्यदर्शनेऽपि सर्गपदेन सृष्ट्युत्पत्त्यर्थ एव गृह्यते।
"पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥"
(साङ्ख्यकारिका-२१)
पुनश्च-
"अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः।
ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव॥"
(साङ्ख्यकारिका-२४ )
पुनस्तत्रैव
"न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः।
लिङ्गाख्यो भावाख्यस्तस्माद्विविधः प्रवर्त्तते सर्गः॥"
(साङ्ख्यकारिका-५२)
त्यागार्थे सर्गशब्दो यथा-
"राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः।
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयो:।।"
(महाभारतम्-१३/१६२/३५)
प्रकृतिनिसर्गस्वभावार्थे सर्गशब्दो मनुस्मृतौ दृश्यते।तद्यथा-
"हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मवृतानृते।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत्।।"
(मनुस्मृति:-०१/२९)
महाकाव्यपरिच्छेदकोऽध्यायविशेषोऽपि सर्गशब्देनोच्यते। तदुक्तं भामहकृतकाव्यालङ्कारग्रन्थे
"सर्गबन्धो महाकाव्यं महताञ्च महच्च यत्"
(भामहकृतः काव्यालङ्कारः-१/१६)
पुनश्च काव्यदर्पणनामके ग्रन्थे तदित्थं निर्दिष्टम् -
"सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥
इतिहासकथोद्भूतमितरद्वा सदाश्रयम् ।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्।।"
(काव्यदर्पण:-१/१४-१५)
पुनश्च साहित्यदर्पणेऽपि महाकाव्यलक्षणे तदेवमुच्यते-
"सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः"
(साहित्यदर्पणः षष्ठः परिच्छेदः)
पुनस्तत्रैव-
"नातिस्वल्पा नातिदीर्घा सर्गा अष्टाधिका इह"
(साहित्यदर्पणः-६/५५९)
तस्मादेव नैषधीयचरितमहाकाव्यस्य अन्तिमे श्लोके महाकविश्रीहर्षो निर्दिशति-
"सर्गोऽयमादिर्गतः"इति।
तदित्थम् उपर्युक्तविवेचनेन स्पष्टं भवति सर्गशब्दः शास्त्रान्तरेषु अनेकार्थको विद्यते।तदेव अमरकोशस्य तृतीयकाण्डान्तार्गतो नानार्थवर्गोऽपि प्रमाणयति।तत्रोक्तं-
"सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु"
(अमरकोशः-३/३/२७)
पुनश्च कलिकालसर्वज्ञेन हेमचन्द्रेणापि स्वकोशग्रन्थे तदित्थं निरूपयति-
"सर्गस्त्यागस्वभावयोः।
उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु।।"
(हैमशब्दकोशः)
एतद्विवरणेन सर्गशब्दस्यानेकार्थता स्पष्टैव। अतस्तन्मूलभूतस्य सृजधातोरपि अनेकार्थस्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति दिक्।
Comments
Post a Comment