निपातः (प्रयोगानुसारिणो धात्वर्थाः)

निपातः-"नि"इत्युपसर्गपूर्वकात् "पत्लृ गतौ"(भ्वादिगणीयः,परस्मैपदी, अकर्मकः,सेट्) इति धातोः अथवा "पत गतौ"(चुरादिगणीयः, उभयपदी अकर्मकः,सेट्) इति धातोः घञा प्रत्ययेन निष्पन्नो निपातशब्दः पतनम् ,अधःपतनं, मृत्युः,शब्दशास्त्रीयसञ्ज्ञाविशेषः,
चतुर्विधशब्देषु अन्यतमः शब्दभेदः,प्रयोगश्चेति बह्वर्थबोधको भवति।
गत्यर्थबोधको निपातशब्दः पतनार्थे वर्तते।तस्मादेव वृत्तिकारेण दुर्गादासेन धात्वर्थव्याख्याने "पत्लृ गतौ"इत्यत्र "गतिरिह पतनम्" तथा "वृक्षात्पत्रं पतति" इत्युक्तम्।
अन्यत्रापि चोक्तम् -
"शिक्षा क्षयं गच्छति कालपर्ययात्  
सुबद्धमूला निपतन्ति पादपाः।     
जलं जलस्थानगतं च शुष्यति      
हुतं च दत्तं च तथैव तिष्ठति।।"
(महाकविभासकृतः-कर्णभारः-२२)
तथाहि-
"वने वा हर्म्ये वा समकरनिपातो हिमकरः"
(आनन्दलहरी/सौन्दर्यलहरी-१७)
क्वचित् पतनं नामाधोगमनम् इत्युच्यते।तस्मादेव अधःपतनार्थेऽपि निपातशब्दो वर्तते।तदुक्तं-
"क्व बत हरिणकानां जीवितं चातिलोलम्।
क्व च निशितनिपाता वज्रसाराः शरास्ते॥"
(अभिज्ञानशाकुन्तलम् -१.१०)
अन्यत्रापि-
"स्थिताः क्षणं पक्ष्मसु ताडिताधराः।
पयोधरोत्सेधनिपातचूर्णिताः।।"
(कुमारसम्भवम् -५/२४)

नितरां पतनं निपात इति विग्रहे निष्पन्नोऽयं शब्दो मृत्युदेहावसानर्थबोधको भवति। तदुक्तं-
"सङ्गरेषु निपातेषु तथापद्व्यसनेषु च "
(महाभारतम्-५/१२२)

निपातो वैयाकरणानां निकाये शब्दशास्त्रीयसञ्ज्ञाविशेषः।यश्च आचार्यपाणिनिना स्वसूत्रेषु बोधितः।तन्मते "प्राग्रीश्वरान्निपाताः" (अष्टाध्यायी -१/४/५६) इत्यतः "अधिरीश्वरे" (अष्टाध्यायी -१/४/९७) इति पर्यन्तं निपातसञ्ज्ञाधिकारः प्रदर्शितः।अर्थात् तन्मध्ये विद्यमानैः सूत्रैर्निपातसञ्ज्ञासम्बद्धानि कार्याणि भवन्ति।तद्यथा-
"चादयोऽसत्वे" (अष्टाध्यायी -१/४/५७) इति सूत्रेण अद्रव्यवाचिनश्चादयो निपातसञ्ज्ञया व्यवह्रियन्ते।सिद्धान्तकौमुद्यां तदुक्तम्-
"अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः"
पुनश्च "प्रादयः" (अष्टाध्यायी -१/४/५८) इति सूत्रेण प्रादयः असत्त्ववाचका प्रादयो निपातसंज्ञकाः कथ्यन्ते।तदुक्तं काशिकायां-
"प्रादयोऽसत्त्वे निपातसंज्ञा भवन्ति"।
केचन निपाता उपसर्गप्रतिरूपकाः, केचन विभक्तिप्रतिरूपकास्तथा केचन स्वरप्रतिरूपकाश्च भवन्ति। तदुक्तं सिद्धान्तकौमुद्याम्-
"उपसर्गविभक्तिस्वरप्रतिरूपकाश्च"
(गणसूत्रम्)।क्वचिन्निपातलक्षणमेवमुक्तम्-
"स्वार्थे शब्दान्तरार्थस्य तादात्म्येनान्वयाक्षमः।
सुबाद्यन्यो निपातोऽसौ विविधश्चादिभेदतः।।"
"उच्चावच्चेष्वर्थेषु निपतन्तीति निपाताः"इति निरूक्तवचनमादाय केचन चतुर्विधशब्देषु अन्यतमः शब्दभेदो निपात इत्यामनन्ति। तदुच्यते-"नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशीलश्चादिशब्दभेदो निपातः"। अन्यच्च-
"तद्यान्येतानि चत्वारि पदजातानि नामाख्याते उपसर्गनिपाताश्च "
(निरुक्तम्)
पुनश्च-
"अथ निपाता उच्चावच्चेष्वर्थेषु निपतन्तीति उपमार्थे वा कर्मोपसङ्ग्रहार्थे पादपूरणार्थे वा"
(निरुक्तम्)
तथाहि-
"चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः"
(निरुक्तम्)

प्रयोगार्थेऽपि निपातशब्दः समुपलभ्यते।तद्यथा-"एकविभक्ति चापूर्वनिपाते"(अष्टाध्यायी-१/२/४४) इति।अत्र निपातशब्दः प्रयोगार्थे वर्तते इति अस्य सूत्रस्य व्याख्यानेन गम्यते।एतत्सूत्रव्याख्याने सिद्धान्तकौमुद्यां तदित्थं निर्दिश्यते "विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपात" अर्थात् विग्रहे यत्पदं नियतविभक्तिकं वर्तते तस्य उपसर्जनसञ्ज्ञा भवतु परं तस्य पूर्वप्रयोगो मास्तु।

उपर्युक्तप्रमाणैर्निपातशब्दस्यानेकार्थता स्पष्टैव। अतस्तन्मूलभूतस्य पततेः धातोरपि अनेकार्थकतास्वीकारे न काचिद् विप्रतिपत्तिः स्यादिति भावः। यतोहि धातुपाठेऽर्थनिर्देशस्तु उपलक्षणमात्रमेव इति महाभाष्यादिषु ग्रन्थेषु स्थितम्।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)