विग्रहः(प्रयोगानुसारिणो धात्वर्थाः"

विग्रह:-"वि"इति उपसर्गपूर्वकात् "ग्रह उपादाने"(क्र्यादिगणीयः,सेट्, उभयपदी,सकर्मकः) इति धातोः भावकर्मादौ यथायथं घञर्थे "ग्रहवृदुनिश्चिगमश्च"
(अष्टाध्यायी-३/३/५८) इति अप्प्रत्ययेण सिद्धो भवति।विशिष्टज्ञानम्,शरीरम्,देवादिप्रतिमा, युद्धम्,विभागः,पृथक्करणं,विस्तारः,
पक्षीणां ग्रहणम्, समासादिवृत्त्यर्थबोधकवाक्यम् इत्यादीन् विविधान् अर्थान् बोधयति।तस्माद् विग्रहशब्दो बहुलार्थबोधको वर्तते।
"ग्रह उपादाने" इत्यत्र "उप"इति प्रादयः समीपार्थबोधकः तथा आदानम् इति पदं ग्रहणार्थबोधकम्।तस्मात् समीपे उपविश्य यद् ग्रहणम् तदुपादानम् उच्यते।तदुक्तम्-"उपादानं स्वीकारः"इति क्षीरतरङ्गिणी।
उपादानं नाम ग्रहणम्।"वि"इति विशेषः, ग्रहो ग्रहणं ज्ञानं वा।तस्माद् विग्रहशब्दो विशिष्टज्ञानार्थको
विशेषग्रहणार्थबोधको वा।तदुक्तं-
"अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता॥"
(वैयाकरणसिद्धान्तकारिका-१९)

शरीरेणापि कस्यापि जनस्य विषये विशिष्टं ज्ञानं भवत्येव।तस्मादेव देहगात्रशरीरार्थेऽपि विग्रहशब्दप्रयोगो दृश्यते।"विविधं सुखदुःखादिकं गृह्णाति" अथ च "विविधैः दुःखादिभिः गृह्यते" इत्यनया व्युत्पत्त्या विग्रहशब्दः शरीरार्थं बोधयति।तदुक्तं-
"त्रयी विग्रहवत्येव सममध्यात्मविद्यया"
     (मालविकाग्निमित्रम्-१/१४)
तथाहि-
"निर्वाणवैरदहनाः प्रशमादरीणां ।
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः।।"
      (वेणीसंहारनाटके-१/७)
अमरसिंहोऽपि ब्रूते-
"अङ्गं प्रतीकोऽवयवोऽपघनोथ कलेवरम्।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः।।"
(अमरकोशः-२/६/७१)

क्वचित् विग्रहशब्दो देवप्रतिमा बोधकोऽपि वर्तते।देवप्रतिष्ठापद्धतिषु "देवविग्रहं,स्नापयेत्,देवविग्रहं संस्पृशेत्, देवविग्रहं संस्थापयेत्" इत्यादिषु स्थलेषु विग्रहपदेन प्रतिमा(मूर्तिः) इत्यर्थोऽवगम्यते।तत्र देवविग्रहो नाम देवप्रतिमा।
तदुक्तं वाल्मीकिरामायणस्य अरण्यकाण्डे-
रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः।
राजा सर्वस्य लोकस्य देवानाम् इव वासवः॥
(वाल्मीकिरामायणम्-३/३७/१३)

विगृह्यन्ते शत्रवो यस्मिन्निति विग्रहे विग्रहशब्दो युद्धार्थबोधको भवति। तदुक्तं मनुस्मृतौ-
"यदा प्रहृष्टा मन्येत सर्वास्ताः प्रकृतीर्भृशम्।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्।।"
        (मनुस्मृतिः-७/१७०)
पुनस्तत्रैव,
"सन्धिञ्च विग्रहञ्चैव यानमासनमेव च।
द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा।।"
       (मनुस्मृतिः-७/१६०)
अमरसिंहोऽपि-
"राज्याङ्गानि प्रकृतयः  पौराणां श्रेणयोऽपि च।
सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः।।"
(अमरकोशः-२/८/१८)
पुनश्च -
"अस्त्रियां समरानीकरणाः कलहविग्रहौ"
(अमरकोशः-२/८/१०४)

पृथक्करणार्थे विभागार्थेऽपि विग्रहशब्दो दृश्यते।तद्यथा-समासविग्रहो नाम समस्तपदस्य पृथक्करणम् उच्यते।समस्तपदस्य अर्थनिर्देशपुरस्सरम् अवयवविभागप्रदर्शनमेव समासविग्रहे क्रियते।हितोपदेशकारस्य पं.नारायणभट्टस्यापि अयमेवाभिप्रायो वर्तते।तत्र "मित्रलाभः,सुहृद्भेद,सन्धिः, विग्रहश्च इत्येवं
 हितोपदेशग्रन्थस्तेन चतुर्धा
 विभक्तः।
तदुक्तं-
"मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च"
   (हितोपदेशः-प्रस्ताविका-९)

वैयाकरणानां निकाये समासादिवृत्त्यर्थविवरणं विग्रहपदेनोच्यते।तदुक्तं-
"वृत्त्यर्थावबोधकं वाक्यं विग्रहः"
     (सिद्धान्तकौमुदी)
पुनश्च विग्रहो द्विविधो "लौकिकोऽलौकिकश्च"
प्रकारान्तरेणापि विग्रहो द्विधा विभज्यते -स्वपदविग्रहोऽस्वपदविग्रहश्च।विग्रहेण वस्तुतः अर्थविस्तारः क्रियते।अतः विग्रहस्य पर्यायत्वेन विस्तरो,विस्तारो व्यासो वा प्रयुज्यते।अतः शब्दकोशे विस्तारार्थेऽपि विग्रहशब्दो दृश्यते।
तदुक्तं हैमकोशे-
"विग्रहो युधि विस्तारे प्रविभागशरीरयोः"
    (हेमचन्द्रः-हैमकोशः-३/८१३)
अमरकोशेऽपि-
"विस्तारो विग्रहो व्यासः सः च शब्दस्य विस्तरः"
     (अमरकोशः-३/२/२२)
क्वचित् वीनां (पक्षिणाम्) ग्रहो(ग्रहणम्) इत्यपि विग्रहपदेन निर्दिश्यते।तदेवं विवरणैः स्पष्टं भवति यद्विग्रहशब्दो बहुलार्थकः। अतः तन्मूलभूतस्य ग्रहधातोरपि बहुलार्थकत्वं स्वतः सिध्यति।यतोहि वैयाकरणानां निकाये फलं व्यापारश्च धातोरेवार्थ इति वैयाकरणाभूषणसारादौ विस्तरेण प्रपञ्चितम्।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)