विकल्पः (प्रयोगानुसारिणो धात्वर्थाः)
"वि"इत्युपसर्गपूर्वस्य "कृपू सामर्थ्ये" (भ्वादिगणीयः,आत्मनेपदी,
अकर्मकः,सेट् धातुः) घञि प्रत्यये सति विकल्पशब्दो निष्पन्नो भवति। कविकल्पद्रुमे तु "कृपु कल्पने"इति धातुर्निदिष्टो विद्यते।पुनश्च तत्र कल्पनं सामर्थ्यम् इत्यर्थनिर्देशः कृतो वर्तते।
भ्रान्तिसन्देहसंशयार्थे,विविधकल्पने,
देवतार्थे अवान्तरकल्पार्थे ज्ञानार्थे पक्षतः प्राप्त्यर्थे विभाषार्थे च
विकल्पशब्दोऽनेकार्थेषु शास्त्रेषु प्रयुक्तो वर्तते।
"विरुद्धं कल्पनम्"इति विकल्पः।तस्माद्भ्रान्तिज्ञानं विकल्पः।भ्रान्त्यर्थे देवीभागवते तदुक्तं-
"विकल्पोपहतस्त्वं वै दूरदेशमुपागतः।
न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा।।"
(देवीभागवतम्-१/१९/३२)
"विविधं कल्पनम्"इति विकल्पो नानाविधकल्पनायां प्रयुज्यते।मनुना तदुक्तं-
"प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः।
तस्य दण्डविकल्पः स्यात्तथेष्टं नृपतेस्तथा।।"
(मनुस्मृतिः-९/२२८)
विविधं कल्प्यत इति विकल्पो विविधकल्पार्थेऽवान्तरकल्पार्थे च प्राप्यते। श्रीमद्भागवतमहापुराणे तदुक्तं-
"यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते"
(श्रीमद्भागवतमहापुराणम्-१०/८५)
तस्यैव श्रीधरीटीकायां पुनस्तत्र देवतार्थे विकल्पशब्दो व्याख्यातः।श्रीधरस्वामिना तदुच्यते-
"विविधानि आधिदैवाध्यात्माधिभूतभेदेन कल्प्यन्ते इति विकल्पा देवास्तेषां कारणं वैकारिकसात्विकोऽहङ्कारश्च त्वम्"
क्वचित् शास्त्रे विविधा कल्पनेति विकल्पशब्दो ज्ञाने प्रकारतारूपविषयता भेदे वर्तते। सविकल्पकं ज्ञानं निर्विकल्पकं ज्ञानम्।
सविकल्पकं सप्रकारताकं ज्ञानं तथा निर्विकल्पकं निष्प्रकारताकं ज्ञानम् इति न्याये।एवमेव सविकल्पकसमाधिर्निर्विकल्पसमाधिभेदे
वेदान्ते।योगदर्शने तु चित्तवृत्तिभेदे विकल्पशब्दः प्रयुज्यते।तदुच्यते-
"प्रमाणविपर्ययविकल्पनिद्रास्मृतयः"
(पातञ्जलयोगदर्शनम्-१/६)
पुनस्तत्र विकल्पलक्षणं तदित्थं प्रतिपादितम्-
"शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः"
(पातञ्जलयोगदर्शनम्-१/९)
।व्याकरणशास्त्रे तु पक्षतः प्राप्तौ विकल्पो विभाषार्थे प्रयुज्यते।"न वेति विभाषा"(अष्टाध्यायी-१/१/४४) इति सूत्रव्याख्याने काशिकायां तदुच्यते-"नेति प्रतिषेधो वेति विकल्पः।तयोः प्रतिषेधविकल्पयोर्विभाषासञ्ज्ञा भवति"।विभाषाप्रकरणे प्रतिषेधविकल्पौ उपतिष्ठेते।सिद्धान्तकौमुदीवृत्तौ तदेवमुक्तम्-
"निषेधविकल्पयोर्विभाषासञ्ज्ञा स्यात्"।तत्त्वबोधिनीव्याख्यायां "विभाषाशब्दार्थो विकल्पसञ्ज्ञा" इति निर्दिश्यते।एतद्विवेचनाधारेण वक्तुं शक्नुमो वयं यद्विकल्पशब्दो नैकार्थेषु प्रयुज्यते।मेदिनीकोशेऽपि तदुक्तम्-
"विकल्पः पुंसि भ्रान्तौ च कल्पने"।
तस्माद्विकल्पशब्दस्यानेकार्थता सिध्यति।अतस्तन्मूलभूतस्य कृपोधातोरपि चानेकार्थता स्पष्टा एवेति दिक्।
Comments
Post a Comment