"योग: कर्मसु कौशलम्"

लेखको-दीपकवात्स्य:
                  
                       "योग: कर्मसु कौशलम्"
             मानवमात्रस्य जीवनस्योद्देश्यम् भवति पुरुषार्थचतुष्टयसम्पादनम्। पुरुषार्थेषु "धर्मार्थकाममोक्षा:"समायान्ति।एतैर्विना मानवजीवनस्य नास्ति किमप्यौचित्यमित्यस्माकं शास्त्रेषु भृशं वर्णितं वर्तते।उक्तञ्च हितोपदेशे नारायणपण्डितेन -
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्।।(मित्रलाभ:)
            एतेषु प्रथम: पुरुषार्थो भवति धर्म:।यस्य प्रमुखं साधनं भवति धर्म:।धर्मसाधनं तु शरीरं विद्यते।
उक्तञ्च कविकुलगुरुकालिदासेन स्वीये कुमारसम्भवे महाकाव्ये-"शरीरमाद्यं खलु धर्मसाधनम्"इति।अनया भणित्या सिध्यते यद्धर्मस्य प्रमुखं साधनं भवति शरीरम्।अथ च वक्तुं शक्नुमो वयं यत् पुरुषार्थानामवाप्तये स्वस्थशरीरस्य नितान्तमावश्यकता वर्तते।यतोहि स्वस्थे शरीर एव स्वस्थमस्तिष्कस्य अथ च स्वस्थचेतसो निर्मितिर्भवति तथा स्वस्थमनसा एव धर्मादिक्रिया: सम्पादयितुं शक्यन्ते,नान्यथा।अत: स्वास्थ्यं परमावश्यकं वर्तते।अस्माभि: स्वास्थ्यविषये जागरुकतया भाव्यते।तत्संरक्षणार्थं शारीरिकं योगो व्यायामाश्च क्रियन्ते। एतेषु योग: प्रामुख्यं भजते।उक्तं हि श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन-
"योग: कर्मसु कौशलम्"
(श्रीमद्भगवद्गीता-2/50)
अन्यत्र चोक्तं
"नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्"
             (महाभारतं शल्यपर्व)
           अत एवं वक्तुं शक्नुमो वयं यत् स्वास्थ्यसंरक्षणार्थं योगात्परं नास्ति कश्चिदुपाय: श्रेयस्कर:।अतोऽत्र योगस्वरूपो निरूप्यते।
             योगशब्द: "युजसमाधौ","युजिर् योगे",
"युज् सम्पर्चने","युज् संयमने" इत्येतेभ्यश्चतुर्भ्यो धातुभ्यो घञा निष्पद्यते।यस्यार्था भवन्ति-समाधि: संयोग: संयमनञ्च।
योगशास्त्रेऽपि योगशब्दस्यार्थ: समाधिमूलक एव स्वीकृतो वर्तते।
यथोक्तं व्यासभाष्ये-"योगःसमाधिः"इति।
भगवता पतञ्जलिनापि योगसूत्रे तदित्थमुच्यते-
  "योगश्चित्तवृत्तिनिरोध:"(यो.सू.-1/2)
चित्तस्य वृत्तीनां निरोध एव योग:।स च निरोध: अभ्यासवैराग्याभ्यां सम्भवति।यथोक्तं योगसूत्रे-
        "अभ्यासवैराग्याभ्याञ्च तन्निरोध:"
चित्तवृत्तिनिरोधरूपं योगत्वमवाप्तुं निरतं दीर्घकालं यावच्छ्रद्धापूर्वकमभ्यासस्य साधनायाश्चावश्यकता भवति।उक्तञ्च योगसूत्रे-
  "स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमि:"

          योगस्याष्टावङ्गानि सन्ति।तानि च अष्टावङ्गानि अधोनिरूपितानि वर्तन्ते।तद्यथा-
१.यम:, २.नियम:, ३.आसनं, ४.प्राणायाम:, ५.प्रत्याहार:,६.धारणा, ७.ध्यानं, ८.समाधिश्च।तेषां स्वरूपाणि अधोनिर्दिष्टानि वर्तन्ते-
१.यम:-"अहिंसासत्याऽस्तेयब्रह्मचर्याऽपरिग्रहा यमा:"।
अहिंसादय: पञ्चप्रकारका भवन्ति यमा:।
२नियम:-"शौचसन्तोषतप:स्वाध्यायेश्वरप्रणिधानानि नियमा:"।
शौचादय: पञ्चसङ्ख्याका भवन्ति नियमा:।
३.आसनम्-"स्थिरसुखमासनम्"।
आसनस्यानेके प्रकारा वर्तन्ते।तद्यथा-वृक्षासनं पद्मासनं वकासनं धनुरासनं कर्कोटकासनम् इत्यादीनि।
४.प्राणायाम:-"तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायाम:"।
तच्च कुम्भकपूरकरेचका:।
५.प्रत्याहार:-"स्वस्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकार इन्द्रियाणां प्रत्याहार:"।
६.धारणा-"देशबन्धचित्तस्य धारणा"(यो.सू.-3/1)
७.ध्यानम्-"तत्र प्रत्ययैकतानता ध्यानम्"(यो.सू.-3/2)
८.समाधि:-"समाधिस्तु द्विविध: सविकल्पको निर्विकल्पकश्च"
                 अस्माकं संस्कृतजगति पञ्चकोशात्मकविकासस्यावधारणा वर्तते।शरीरं प्राणा: मनो बुद्धिरात्मा च पञ्चकोशाङ्गानि वर्तन्ते। एतेषु आत्मा सूक्ष्मतम:।यदा एतेषां समेषामङ्गानामेकस्मिन् बिन्दौ एकस्मिन्नेव काले एवोपस्थितिर्जायते तदैव योगस्य स्थितिर्भवति।उक्तञ्च श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन-
     "समत्वं योग उच्यते"
(श्रीमद्भगवद्गीता-2/48)
                 योग: सम्पूर्णं जीवनदर्शनम् आत्मानुशासनम् विशिष्टा जीवनपद्धतिश्च।योगो व्याधिमुक्तस्य समाधियुक्तस्य च जीवनस्य सङ्कल्पना वर्तते।योगमाध्यमेन प्राणवायुं वशीकृत्य सम्पूर्णमारोग्यमवाप्तुं शक्यते।
               परमयोगी शिवो योगशास्त्रपरम्परायां प्राथम्येन परिगण्यते।परं महाभारते योगशास्त्रस्य आदिप्रवक्तृत्वेन हिरण्यगर्भाचार्य: स्मर्यते।यथोक्तं-
"साङ्ख्यस्य वक्ता कपिल: परमर्षि: स उच्यते।
हिरण्यगर्भो योगस्य वक्ता नान्य: पुरातन:।।"
              पूर्ववर्तिनामाचार्याणां योगशास्त्रस्योपरि लिखितग्रन्थाभावान्महर्षिपतञ्जलिरेव पातञ्जलयोगसूत्रस्य कर्ता प्रणेता च मन्यते। उक्तञ्च-
"योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।"
                योगसूत्रस्य प्रथमसूत्रे प्रयुक्तानुशासनपदेन महर्षिपतञ्जलिरपि निर्दिशति यत् पूर्वोपदिष्टसिद्धान्तानामेव अनुशासनम् अत्र वर्णितं वर्तते।पुनरपि महामुनिपतञ्जलिमते "योगश्चित्तवृत्तिनिरोध:"(यो.सू.-1/2) इति वर्तते योगस्वरूपम्।
                 सर्वप्रथमं पञ्चानां यमानां पञ्चानां नियमानाञ्च पालनपूर्वकम् आसनसिद्धिर्विधातव्या भवति।ततो नाडीशुद्धिं विधाय प्राणायामादीनां सम्यगभ्यासेन च योगसिद्धिर्भवति।तदर्थं वासनाक्षयोऽपेक्षितो भवति।यथोक्तं मुक्तिकोपनिषदि-
      "वासनाक्षयाद्योगसिद्धि:"
                  योगसिद्ध्या विविधशारीरिकमानसिकबौद्धिकादीनां व्याधीनां क्षयो भवति।येन मानव: सर्वविधस्वस्थो भवति।यथोक्तं स्वस्थस्य लक्षणम् आयुर्वेदादिग्रन्थेषु -
"समदोष: समाग्निश्च समधातुमलक्रिय:।
प्रसन्नात्मेन्द्रियमना: स्वस्थ इत्यभिधीयते।।"
एवं स्वस्थे शरीरे सर्वविधविकास: सम्पादयितुं शक्यते।अतो भणितिरेषा "योग: कर्मसु कौशलम्" इति सार्थकतां भजते।योगेन चित्तादीनां विकारोऽपि शाम्यतेऽतो मानवानां सर्वविधविकाससम्पादनार्थं नास्ति मन्मतौ कश्चिदुपायश्श्रेयस्कर:।यथोक्तं वात्स्यकोशे-
"योगेन शाम्यते चित्तं नाश्यन्ते व्याधयो ध्रुवम्।
सिद्धये पुरुषार्थानां योगात्परन्न साधनम्।।
सुशाम्यति मनो योग: पाति च धर्मसाधनम्।
प्राप्तये पुरुषार्थानां योगाद्वरन्न साधनम्।।
सकलव्याधिनाशाय गात्राणां परिपुष्टये।
रोधाय चित्तवृत्तीनां योगस्साधनमुच्यते।।
      यथोक्तञ्च महाभारतस्य शल्यपर्वणि
 "नास्ति योगसमं बलम्" इति शम् ।
   दीपककुमारचौधरी
संस्कृतशोधार्थी(दीपकवात्स्यः)
सुरभारतीसमुपासका:
स्वच्छभाषाभियानम्

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)