"उपसर्गानुसारिणो धात्वर्थाः"-१

"उपसर्गानुसारिणो धात्वर्थाः"इति जिगमिषायां सर्वादौ किन्नामोपसर्गः इति आकाङ्क्षा समुदेति।तस्मादुपसर्गविधायकं सूत्रम् "उपसर्गाः क्रियायोगे"(अष्टाध्यायी-१/४/५९) इति स्मर्यते।यस्यायं भावः "प्रादयः क्रियायोगे उपसर्गसञ्ज्ञाः  स्युः।" ते  द्वाविंशतिः सङ्ख्यकाः प्रादयः क्रियया योगे(सम्बन्धे) उपसर्गसञ्ज्ञया व्यपदिश्यन्ते।तद्यथा-
"प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते प्रादयः।"
          प्रादीनाम्(उपसर्गानाम्) स्वतन्त्रः कश्चनार्थो न भवति।निरुक्ते तदुक्तं-"न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनाः"।शाब्दिकनये नैयायिकनये च प्रादयो(उपसर्गाः) द्योतका भवन्तीति तत्तद्ग्रन्थेषु स्फुटम्।भूषणसारे 
उपसर्गाणां द्योतकत्वं तदितरनिपानाञ्च वाचकत्वमिति न्यायमतत्वेन वर्णितम्।तदुक्तं भूषणकारिकायाम्-
"प्रादयो द्योतका येन निपाताश्चादयस्तथा"
(वैया.भू.कारिका-४२)
न्यायमते व्याकरणमते च उपसर्गानां द्योतकत्वम्।तत्र द्योतकत्वं नाम तात्पर्यग्राहककत्वम्।"तात्पर्यग्राहकत्वं द्योतकत्वम्" इत्युक्तम्।अस्यायं भावः-उपसर्गाणां स्वतन्त्रार्थो न भवति, अपितु ते यदा क्रियया युक्ताः(संयुक्ताः ,सम्बद्धाः) भवन्ति तदा धातुगर्भे सन्निहितानाम् अर्थानां द्योतकाः(प्रकाशकाः) भवन्ति।
          उपसर्गशब्दे "उप" तथा "सर्गः"इति  शब्दौ श्रूयते अर्थात् उपसर्गशब्दः उप-सर्गशब्दद्वयस्य मेलनेन सिद्ध्यति।यत्र "उपशब्दस्यार्थः समीपम्" तथा "सर्गशब्दस्यार्थः सृष्टिः"इति।अर्थात् उपसर्गाः स्वतन्त्रतया न कस्यचिदर्थस्य वाचका, अपितु ते कस्यचित् क्रियावाचकस्य धातुशब्दस्य समीपे स्थित्वा नवीनम् अर्थम् उद्भावयन्ति सम्भावयन्ति धातूनामनेकार्थत्वात्।यथा-गेहादिषु बहूनि वस्तूनि भवन्ति परं दीपकस्य(प्रकाशस्य) अभावे अन्धकारव्याप्तौ च न तेषां सत्ता(विद्यमानत्वम्) सिध्यति, न तेषां ज्ञानं भवति।गेहादिषु यथा दीपकेन  प्रकाशे सम्पादिते सति पुनस्तत्र वस्तूनि प्रतीयमानानि भवन्ति।तथैव धातूनामनेकार्थत्वात् इति महाभाष्यवचनात् धातुगर्भेऽनेकेऽर्था सन्निहिता भवन्ति उपसर्गास्तेषां द्योतकाः(तात्पर्यग्राहकाः प्रकाशकाश्च) भवन्ति।"सति तात्पर्ये सर्वे सर्वार्थवाचकाः" महाभाष्यवचनमिदमेव ध्वनयति।
          उपसर्गाणां(प्रादीनाम्) द्योतकत्वे मानम् -
"ईश्वरमनुभवति","अनुभूयते सुखम्" इत्यादिषु स्थलेषु अनुभवादिप्रतीतिर्न धात्वर्थो यतोहि "भवति","भूयते" इत्यादिष्वपि अनुभवाद्यर्थप्रतीतिः स्यात्।अनुभवादिर्नोपसर्गार्थः स्यात्,तत्र अनुभवाद्यर्थस्य अप्रकृत्यर्थतया तत्राख्यातार्थस्य अन्वयापत्तिः स्याद् यतः "प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्" इति व्युत्पत्तिस्वीकारात्,तथा "अनुगच्छति","अनुगम्यते" इत्यादिषु स्थलेषु अनुभवादिबोधापत्तिः स्यात्।अनुभवादिर्न विशिष्टार्थः(उपसर्गधातूभयसमवेतार्थः,"अनुभू"इति विशिष्टसमुदायार्थः) विशिष्टशक्तिस्वीकारे गौरवात्।तदुक्तं- विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे विनिगमनाविरहाद् अव्यवहितोत्तरत्वसम्बन्धेन अनुविशिष्टभूशब्दस्य अव्यवहितपूर्वत्वसम्बन्धेन भूशब्दविशिष्टस्य अनोर्वा वाचकत्वकल्पने गौरवस्य स्पष्टत्वात्।विशिष्टस्य प्रकृतित्वाभावेन तदर्थे प्रत्ययार्थान्वयापत्तेश्च।"
         अतोऽगत्या भूधातोरेव धातूनामनेकार्थस्य सर्वसम्मतत्वेन अनुभवार्थे शक्तिः।अनुरूपोपसर्गस्य च द्योतकत्वम् अङ्गीकरणीयम्।उपसर्गसञ्ज्ञायाः क्रियायोगे क्रियावाचकधातुत एव द्योत्यार्थविशिष्टक्रियाभानम्।
तस्माद् भूधातोरेव विद्यमानत्वादिवाचकस्य अनुभवाद्यर्थे लक्षणास्तु उपसर्गास्तत्र तात्पर्यग्राहका भवन्तु।"तात्पर्यग्राहकत्वं द्योतकत्वम्" इति भूषणसारादौ प्रपञ्चितम्।
द्योतकत्वलक्षणं तावद् "द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठवृत्त्युद्बोधकत्वम्।" तत्र स्वम् द्योतकम् अन्वादिपदम्।तत्समभिव्याहृतम् अर्थात् तत्समीपोच्चारितं पदम् "अनुभूयते" इत्यादौ "भू"आदिपदम्।तन्निष्ठा वृत्तिः अर्थात् शक्तिः अनुभवाद्यर्थनिरूपिता भ्वादौ विद्यमाना शक्तिः।तदुद्बोधकः "अन्वादिः",उद्बोधकत्वम् "अन्वादौ" इति "अनुभूयते" इत्यत्र "अनौ" द्योतकत्वलक्षणं सङ्घटते।
            "सुजनः" इत्यादौ क्रियावाचकासमभिव्याहारे उपसर्गत्वाभावाद् वाचकत्वमेव।अतएव "निर्मक्षिकम्"इत्यत्र निरित्यस्य ध्वंसवाचकतया,"उपकुम्भम्" इत्यत्र "उप"इत्यस्य समीपवाचकतया अव्ययीभावसमासः सिध्यति।एवञ्च प्रादीनां स्वरूपद्वयं क्रियायोगवत् क्रियायोगाभाववच्च।क्रियायोगवत्त्वे प्रादीनामुपसर्गत्वे तेषां द्योतकत्वं,तदभाववत्त्वे च प्रादीनाम् उपसर्गसञ्ज्ञाभावे वाचकत्वमिति केषाञ्चिन्मतं तन्नोचितं यतोहि "सुजनः" इत्यादौ यः स्वादिर्वर्तते वस्तुतः उपसर्गो नास्ति सः,अपितु उपसर्गप्रतिरूपकम् अव्ययम् अस्ति। सिद्धान्तकौमुद्यां दीक्षितेन अव्ययप्रकरणे तत्प्रतिपादितम्-
"उपसर्गविभक्तिस्वरप्रतिरूपकाश्च" 
            उपसर्गाणाम् अनुभवाद्यर्थवाचकत्वं स्वीक्रियेत चेद् "उपास्येते हरिहरौ" ,"अनुभूयते सुखम्" इत्यादिषु स्थलेषु कर्मणि लकारानापत्तिः स्याद् अर्थात् तत्र कर्मणि लकारो न सिद्ध्येत।तदुक्तं भूषणकारिकायाम्-
"द्योतकाः प्रादयो येन निपाताश्चादयस्तथा।
उपास्येते हरिहरौ लकारो दृश्यते यथा।।" 
(वैयाकरणभूषणसार:-४२)
उपर्युक्तविवेचनेन निकृष्टतयेदं सिद्ध्यति यद् उपसर्गाणां द्योतकत्वं सर्वसम्मतमेव।अन्यत्रापि तदुक्तं-
"निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः। 
द्योतकत्वात् क्रियायोगे लोकादवगता इमे।।"

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)