"उपसर्गानुसारिणो धात्वर्थाः-२
उपसर्गाणां त्रिधा प्रवृत्तिः शास्त्रेषु निर्दिष्टा।तदुक्तं-
"धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते।
तमेव विशिनष्ट्यन्य उपसर्गगतस्त्रिधा।।"
उपसर्गाणाम् तिस्रोऽवस्था गतयो प्रवृत्तयो वा भवन्तीति कारिकार्थाः।ताश्च का इति चेत्-
१."धात्वर्थं बाधते कश्चित्"- अस्यायमभिप्रायो वर्तते यत् कश्चन उपसर्गस्तादृशो भवति यो हि धात्वर्थं बाधते अर्थात् धातुपाठे धातोरुक्तार्थस्य बाधं करोति।तद्यथा-
दानार्थे पठितस्य "डुदाञ् दाने"इति धातोः "आङ्"इति उपसर्गयोगेन दानार्थस्य बाधो भवति तथा आदानार्थस्य ग्रहणार्थकस्य च प्रतीतिर्भवति।एवमेव गतिनिवृत्तर्थकस्य "ष्ठा गतिनिवृत्तौ" इति धातोः "प्र"इति उपसर्गसंयोगेन गतिनिवृत्तिरूपस्य धात्वर्थस्य बाधो गतिक्रिया च ध्वन्यते।तदुक्तं -
"तिष्ठति प्रतिष्ठते इति तिष्ठतीति व्रजिक्रियायाः निवृत्तिः। प्रतिष्ठत इति व्रजिक्रिया गम्यते।"
एवमेवान्यत्रापि विज्ञेयम्।
२."कश्चित्तमेवानुवर्तते"-अस्यायमाशयो यत् कश्चन उपसर्गस्तादृशो भवति यो हि धातुपाठे धातोरुक्तार्थस्य एव अनुवर्तनं करोति अर्थात् धातुपाठे श्रुतार्थस्य एव कथनं करोति।तद्यथा-प्राणिगर्भविमोचनार्थकस्य
"षूङ् प्राणिगर्भविमोचने"इति धातोः "प्र"इति उपसर्गयोगेन तदेवार्थप्रतीतिर्भवति।
३."तमेव विशिनष्ट्यन्यः"-अस्यायं भावो यत् कश्चन उपसर्गस्तादृशो भवति यो हि धातुपाठे धातोरुक्तार्थस्य एव विशेषणीभवति अर्थात् धातुपाठे धातोरुक्तार्थस्य विशेष्यतां द्योतयति।तद्यथा-नम्रतापूर्वकस्य शब्दव्यापारस्य "णम प्रहत्वे शब्दे"इति धातोः "प्र"इति उपसर्गसंयोगेन नम्रतापूर्वकशब्दव्यापारस्यार्थस्य प्रकृष्टत्वबोधो भवति।
Comments
Post a Comment