उपसर्गानुसरिणो धात्वर्थाः-३ -हृञ्

अन्यद्धि -
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। प्रहाराहारसंहारविहारपरिहारवत्॥"
           (भर्तृहरिकारिका)
इयमेकं कारिका पाठान्तरेण तदेवं पठ्यते-
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। नीहाराहारसंहारप्रतीहारप्रहारवत्॥"         
(मुग्धबोधव्याकरणटीकायां दुर्गादासः
)
उपसर्गसंयोगेन धातुपाठे पठितानाम् अर्थानामपेक्षया अधिका अन्येऽपि धातुगर्भे सन्निहिता अर्था द्योत्यन्ते अर्थात् प्रकाश्यन्ते।
                   "हृञ् हरणे" इति भ्वादिगणस्य द्विकर्मकोऽनिट् उभयपदी धातुः।"हरणं प्रापणं स्वीकारः स्तैन्यं नाशनञ्च इत्यर्थनिर्देशो माधवीयधातुवृत्तौ वर्तते। कविकल्पद्रुमे तु "हृञ् हृतौ "इति धातुः तथा हृतिर्देशान्तरप्रापणं तत्रार्थो निर्दिष्टो वर्तते।तदेवं सिध्यति यदयं धातुः स्वयमनेकार्थको विद्यते।पुनश्च विविधोपसर्गा इतोपि विविधार्थं द्योतयन्ति।तद्यथा-प्रसंयोगेन  कशाद्याघातार्थम् आसंयोगेन भक्षणार्थं सङ्ग्रहणार्थञ्च,समुपसर्गयोगेन समाहारार्थं वधविनाशार्थञ्च,विसंयुक्तेन क्रीडाभ्रमणार्थं,परिसहचरितेन दोषादिनिवारणार्थम्,प्रतियुक्तेन प्रत्येकहरणार्थम्,उपसंयोगेन दानोपहारार्थम्,
अपयोगेन दूरीकरणार्थम् ,
 उदुपसर्गयोगेन दृष्टान्तार्थं हृधातुर्बोधयति।एते उपसर्गाश्च तत्र द्योतका भवन्तीति भावः।प्रहारार्थे-
 "करप्रहारेण शिरश्चामरस्य पृथक्कृतम्"
      (श्रीदुर्गासप्तशती-३.१६)
आहारार्थे-
"जेमनं लेह आहारो निघासो न्याद इत्यपि।
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्॥"
(अमरकोशः-२.९.५७)
अन्यत्रापि-
"आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिकोविशेषो धर्मेण हीनाः पशुभिः समानाः॥"
(महाभारत-शान्तिपर्व-२६५/२९)
समाहारार्थे-"ऋतुसंहारः"=ऋतूनां समाहारः।ऋतुवर्णनात्मिका कालिदासकृति वेणीसंहारः=वेणीनां समाहारो बन्धो वा।भट्टनारायणस्य कृतिरियम्।
विनाशार्थे 
"रजो गुणेन भुवनं सृजामि सचराचरम्।
पालयामि च सत्वेन तमसा संहरामि च।।"
     ‌‌ (पद्मपुराणम्-ज्ञानपादः-४.४)
वधार्थे-रामः रावणकुलस्य संहारं चकार।
क्रीडाभ्रममणार्थे-
"विहारस्तु परिक्रम:"
(अमरकोशः३.२.१६)
पुनश्च-
"विहारो भ्रमणे स्कन्धे लीलायां सुगतालये"-
(मेदिनीकोशः)
अन्यत्रापि-
"वायुविहारं करवाम"
निवारणार्थे-
"क्षमैका युद्धस्य परिहारो वर्तते"
प्रत्येकहरणार्थे-
प्रतिहार:(द्वारपालः) राजसन्देशं प्रतिहरति।
दानोपहारार्थे -
उपगतो हारं इति वाक्ये हारनिकटस्थद्रव्यम्।तद्यथा-
“रत्नपुष्पोपहारेण च्छायामानर्च्च पादयोः"
( रघुवंशमहाकाव्यम् -४.८४ )
अन्यद्धि-
“उरोमुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्”
(नैषधीयचरितम्-१.४८)
दूरीकरणार्थे-
ईश्वरः भक्तकष्टम् अपहरति
चौरः धनम् अपहरति च।
दृष्टान्तार्थे-गुरुः कारकनियमान् पाठयित्वा तदुदाहरणानि उद्धरति।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)