परस्मैपदात्मनेपदानुसारिणो धात्वर्थाः

              वैयाकरणानां निकाये निकृष्टतया अखण्डवाक्यस्फोटस्यैव प्राधान्यम्।वाक्यं तु "एकतिङ् वाक्यम्" इति वार्तिककारोक्तवाक्यलक्षणानुसारम् एकतिङन्तार्थविशेष्यकं वाक्यम् इति फलितार्थो भवति।अर्थात् वाक्ये तिङन्तपदं प्राधान्यं भजते।तिङ्प्रत्ययास्तु अष्टादशसङ्ख्यका धातुभ्यो लकारस्थाने विधीयन्ते। तदुक्तम्-
"तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्"
                 (अष्टाध्यायी-३.४.७८)
अयमाशयः-लकारस्थाने तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् एतेऽष्टादश आदेशाः भवन्ति।एतेषु अष्टादशसु नवसङ्ख्यकाः परस्मैपदसञ्ज्ञाकास्तवा नवात्मनेपदसञ्ज्ञका भवन्ति।तदुक्तम्- "लः  परस्मैपदम्" (अष्टाध्यायी-३.४.८१) इति सूत्रानुसारं पूर्वं लादेशाः समेऽपि अष्टादश तिङ्प्रत्ययाः परस्मैपदसञ्ज्ञां लभन्ते परं "तङानावात्मनेपदम्"(अष्टाध्यायी-१.४.१००)  इति सूत्रानुसारं तं प्रबाध्य नवसङ्ख्यकास्तङ्प्रत्ययाः
(त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्) तु आत्मनेपदसञ्ज्ञां लभन्ते।आत्मनेपदारिक्ता अवशिष्टा नवसङ्ख्यकाः  तिबादिप्रत्ययाः
(तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्) परस्मैपदसञ्ज्ञां विन्दन्ति।
इमे तिङ्प्रत्ययाः धातोः प्रकृतिं(स्वरूपम्) दृष्ट्वा परस्मैपदात्मनेपदाभ्यां द्विधा विभज्यन्ते।तस्माद् धातुरपि परस्मैपदात्मनेपदसञ्ज्ञां प्राप्नोति।
को धातुः परस्मैपदी कश्च धातुरात्मनेपदी इति जिगमिषायामुच्यते-
"अनुदात्तङित आत्मनेपदम्"
(अष्टाध्यायी-१.३.१२)
वृत्तिः-"अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्"
(लघुसिद्धान्तकौमुदी) अर्थात् यस्मिन् धातौ अनुदात्तस्याचः तथा ङकारस्य इत्-सञ्ज्ञा भवति तस्माद् धातोरात्मनेपदप्रत्यया विधीयन्ते।तस्मादेव धातोः आनः (शानच्कानचौ) प्रत्ययश्च विधीयते।तद्यथा-"एध वृद्धौ","आस उपवेशने" "वस आच्छादने" इत्यादीनां धातूनाम् अनुदात्तस्याकरस्य इत्सञ्ज्ञकत्वादेतेभ्य आत्मनेपदप्रत्यया भवन्ति तथैते धातवः स्वयं आत्मनेपदिनो भवन्ति।पुनश्च-
"षूङ् प्राणिगर्भविमोचने" "शीङ् स्वप्ने" "माङ् माने"इत्यादिषु धातुषु ङकारस्य इत्-सञ्ज्ञाकारणादेतेभ्योऽपि आत्मनेपदप्रत्ययाः भवन्ति तथैते धातवः आत्मनेपदिनो कथ्यन्ते।
   
         "स्वरितञितः कर्त्रभिप्राये क्रियाफले"
(अष्टाध्यायी-१.३.७२) 
एतद्वृत्तिः-"स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले"(सिद्धान्तकौमुदी)
अस्यायं भावः-येषु धातुषु स्वरितस्वरस्य ञकारस्य च इत्-सञ्ज्ञा भवति तथा क्रियाफलं कर्त्रभिप्रायम् (क्रियाफलं कर्तारम् अभिप्रैति प्राप्नोति वा) तेभ्यो धातुभ्य आत्मनेपदप्रत्ययास्तथा तेषां धातूनाम् आत्मनेपदसञ्ज्ञाः।यदि क्रियाफलं कर्त्रभिप्रायम् न भवति तत्र परस्मैपदप्रत्ययास्तथा तेषां धातूनां परस्मैपदसञ्ज्ञाः।तद्यथा-"डुपचष् पाके" "टुयाचृ याच्ञायाम्" इत्यादिषु धातुषु स्वरितस्वरस्य 'इत्' अभवत् तथा "णीञ् प्रापणे" "डुकृञ् करणे" इत्यादिषु धातुषु ञकारस्य 'इत्' अभवत्।अतः एतेभ्यो धातुभ्यः कर्तृगामिनि क्रियाफले आत्मनेपदित्वं तथा तदतिरिक्ते क्रियाफले परस्मैपदित्वम्।अर्थात् एतेषां धातूनाम्  क्रियाफलमादाय आत्मनेपदत्वम् परस्मैपदत्वञ्चोभयमपि सिद्ध्यति।तस्मादेते धातव उभयपदिनो भवन्ति।
पुनश्च-"शेषात्कर्तरि परस्मैपदम्"(अष्टाध्यायी-१.३.७८)
एतद्वृत्तिः-
"आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात्"(सिद्धान्तकौमुदी)।
अर्थात् "उक्तादन्यः शेषः"इति नियमात् अवशिष्टेभ्यो धातुभ्यः कर्तरि वाच्ये परस्मैपदप्रत्ययाः तथा तेषां धातूनाम् परस्मैपदसञ्ज्ञाश्च विधीयन्ते।   
             इदमत्र सारभूतं बोध्यम्-
परस्मै परार्थं परलोकं परोद्देश्यार्थफलकं वा पदम् परस्मैपदम् इति विग्रहे अलुकि समासे सति परस्मैपदं तथा
आत्मने आत्मार्थफलबोधनाय निजोद्देश्यार्थफलकं वा पदम् आत्मनेपदम् इति विग्रहे अलुक्समासे सति आत्मनेपदं सिध्यति।यद्यपि परस्मैपदिनस्तथा आत्मनेपदिनः प्रत्ययाः साक्षात् धात्वर्थं न वदति तथापि धातोः परस्मैपदिस्वरूपं तथात्मनेपदिस्वरूपं दृष्ट्वा कश्चन विशिष्टार्थबोधो भवत्येव।

१."भवति,भावयति,भावयते च" इति प्रभृतीन् अनेकविधान् प्रयोगान् दृष्ट्वा संशयोद्भवति यद् भवतीत्यादौ को धातुः कश्च तस्यार्थो वेति।यतोहि भूधातुस्त्रिषु गणेषु भिन्नेषु भिन्नेष्वर्थेषु लभ्यते।तद्यथा -
(क)."भू सत्तायाम्" इति भ्वादिगणीयः परस्मैपदी अकर्मकः सेट् धातुः।
(ख)."भू प्राप्तौ" इति चुरादिगणीय आत्मनेपदी सकर्मकः सेट् धातुः।
अयं धातुरात्मनेपदी वर्तते।तदुच्यते-
"भू प्राप्तावात्मनेपदी" इति (क्षीरतरङ्गिणी धातुप्रदीपश्च)।
(ग)."भुवोऽवकल्कने" इति कल्पद्रुमे तु "भू शुद्धिन्तयोः मिश्रणे च" इति चुरादिगणीयः परस्मैपदी सकर्मकः सेटः धातुश्च।
इत्येतादृशे संशयस्थले धातोः परस्मैपदात्मनेपदोभयपदात्मकस्वरूपं बुद्धौ स्वरूपम् अवधार्य पूर्वं धातोर्निर्धारणं ततस्तदर्थनिर्णयं च कुर्वन्ति लौकिकाः।तद्यथा-
"भवति" इति भ्वादिगणीयः परस्मैपदी प्रयोगः सत्तार्थकः,"भावयति" इति चुरादिगणीयः परस्मैपदी प्रयोगोऽवकल्कनार्थकस्तथा "भावयते" इति चुरादिगणीय आत्मनेपदी प्रयोगः प्राप्त्यर्थकश्च विद्यन्ते।

२."अञ्चति,अञ्चते,अञ्चयति,अञ्चयते" च इत्यनेकविधान् प्रयोगान् अवलोक्य पुनर्जिज्ञास्ते, यदत्र को धातुः कश्च पुनस्तदर्थः।यतोहि अञ्चुधातुरेकाधिकगणेऽनेकार्थेषु लभ्यते।तद्यथा-
(क)."अञ्चु गतिपूजनयोः" इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।
(ख)."अञ्चु गतौ याचने च" भ्वादिगणीय उभयपदी सकर्मकः सेट् धातुः।
(ग)."अञ्चु विशेषणे" इति चुरादिगणीय उभयपदी सकर्मकः सेट् धातुश्च।तत्र "विशेषणम् अतिशयः"इति (क्षीरतरङ्गिणी) तथा "विशेषणं व्यावर्तनम्" इति (माधवीयधातुवृत्तिः)।
तदित्थम् अञ्चुधातोरात्मनेपदादिस्वरूपं सम्यग् विचार्य धातुनिर्धारणं तदर्थनिर्णयश्च कुर्वन्ति विज्ञाः।
"अञ्चति" इति भ्वादिगणीयः परस्मैपदी प्रयोगः गतिपूजनार्थकः,,
"अञ्चति,अञ्चते" वेति भ्वादिगणीय उभयपदी गतियाचनार्थकस्तथा "अञ्चयति,अञ्चयते" वेति चुरादिगणीयः विशेषणार्थकाः सन्ति।

३.कन्दति कन्दते च इति द्विविधं प्रयोगं वीक्ष्य पुनः संशयः समुदेति।यदत्र को धातुः कश्च तदर्थः।यतोहि धातुपाठे भ्वादिगणे वारद्वयं भिन्ने-भिन्नेऽर्थे कदिधातुरवलोक्यते।तद्यथा-
(क)."कदि आह्वाने रोदने च" इति भ्वादिगणः परस्मैपदी सकर्मकोऽकर्मकश्च सेट् धातुः।अयं धातुराह्वाने सकर्मकः रोदनेऽकर्मकश्च विद्यते।
(ख)."कदि वैक्लव्ये" इति भ्वादिगण
आत्मनेपदी अकर्मकः सेट् धातुश्च।
तदित्थं कन्दतीत्यादौ कदिधातोः परस्मैपदात्मनेपदधातुस्वरूपं विमृश्य तदर्थो निर्णीयते।
"कन्दति" इति परस्मैपदी प्रयोगः आह्वानार्थो रोदनार्थश्च।
"कन्दते" इति आत्मनेपदी प्रयोगो वैकलव्यार्थो विद्यते।
एवमेवान्यत्रापि विज्ञेयम्।

भगवता पाणिनिना स्वसूत्रैः केषाञ्चन परस्मैपदिनां धातूनाम् आत्मनेपदिधातुत्वेनोपदेशस्तथात्मनेपदिनां धातूनां परस्मैपदिधातुत्वेनोपदेशस्तदर्थनिर्देशश्च क्रियते।तद्यथा-
१."व्याङ्परिभ्यो रमः" (अष्टाध्यायी-१.३.८३) तथा 
"उपाच्च" (अष्टाध्यायी-१.३.८३) इति सूत्राभ्यां
"रमु क्रीडायाम्" इति धातोः अनुदात्तेत्त्वाद् 
आत्मनेपदे प्राप्ते व्याङ्पर्युपपूर्वेभ्यः रमधातोः परस्मैपदं विधीयते।तदाह-
"वि आङ् परि इत्येवम्पूर्वाद् रमतेः परस्मैपदं भवति।विरमति,आरमति परिरमति" इति (काशिका) तथा
"उपपूर्वाद् रमतेः परस्मैपदं भवति।"
देवदत्तमुपरमति,यज्ञदत्तमुपरमतीति (काशिका)।
तदेवं रमुधातोः परस्मैपदिनम् आत्मनेपदिनञ्च प्रयोगं समवलोक्य बुधैर्व्याकरणैस्तदर्थनिर्णयः कार्यः।
वस्तुतः"रमु क्रीडायाम्" इति भ्वादिगणीयोऽकर्मकोऽनिट् धातुरात्मनेपदी वर्तते।परं व्याङ्पर्युपपूर्वेभ्यः परस्मैपदी भवति। तद्यथा-
विरमति-अध्ययनाद्विरमति अध्ययनाद् निवृत्तो भवति।
आरमति-प्रारब्धकर्मणो विरतो भवति।
परिरमति-सर्वतो भावेन कार्यान्निवृत्तो भवति।
उपरमति-विनष्टो भवतीति।

२."विपराभ्यां जेः"(अष्टाध्यायी-१.३.१९) इति सूत्रेण विपूर्वात् परापूर्वाच्च जिधातोः परस्मैपदित्वेऽपि आत्मनेपदी भवति।
तदाह-
"विपरापूर्वाज् जयतेर्धातोरात्मनेपदं भवति।विजयते,पराजयते" इति (काशिका)।
"जि जयेऽभिभवश्च" इति भ्वादिगणीयः परस्मैपदी अकर्मक सकर्मकश्चानिट् धातुः।
इह जय उत्कर्षप्राप्तिः।उत्कर्षप्राप्त्यर्थेऽयं धातुरकर्मकः।अभिभवो नाम न्यूनीकरणं न्यूनीभवनञ्च।अभिभवार्थे पुनर्जिधातुः सकर्मकः।तदाह देवः-
"जयिर्जयाभिभवयोराद्येर्थेऽसावकर्मकः। उत्कर्षप्राप्तिराद्योर्थोऽद्वितीयेर्थे सकर्मक।।(दैवम्)।
जिधातुरुत्कर्षेऽकर्मको यथा-
"जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः"
(भर्तृहरिनीतिशतकम्)
तथाहि-
  "नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्।
 नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति॥"
(काव्यप्रकाश:-१.१,मङ्गलश्लोकः)
अन्यत्रापि-
"जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः।।"
(कादम्बरी-मङ्गलश्लोकः-२)
पुनस्तत्रैव-
"जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया। 
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्धिन्नमिवास्त्रपाटलम्।।"
(कादम्बरी-मङ्गलश्लोकः-३)
पुनरभिभवार्थे जिधातुः सकर्मको वर्तते। तद्यथा-
"मखैरसङ्ख्यैरजयत् सुरालयम"इति 
(कादम्बरी-कथामुखम्-श्लोकः-१५)
वस्तुतो जिधातोः परस्मैपदित्वेऽपि "विपराभ्यां जेः" इति सूत्रेण आत्मनेपदित्वं विधीयते।तद्यथा-विजयते इति उत्कृष्टो भवतीत्यर्थः।
पराजयते इति निकृष्टो भवतीत्यर्थः।
अभिभवार्थको जिधातुः द्विकर्मकत्वेनापि स्मर्यते।
"अकथितं च" (अष्टाध्यायी-१.४.५१) इति सूत्रव्याख्यायां सिद्धान्तकौमुद्यां तदाह-
"दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥"
        (सिद्धान्तकौमुदी)
तदुदाहरणं यथा-"शतं जयति देवदत्तम्" इति।
तदित्थं जिधातोः आत्मनेपदिनं परस्मैपदिनञ्च प्रयोगम् अवलोक्य तदर्थनिर्धारणं कर्तुं शक्यते।

३."वेः शब्दकर्मणः"
(अष्टाध्यायी-१.३.३४) इति सूत्रेण 
शब्दकर्मणः वेः कृञः आत्मनेपदं भवति।शब्दः कर्मपदमस्ति' इत्युक्ते यत्र क्रियायाः कर्मपदम् शब्दध्वनिरूपेण भवति।तत्र विपूर्वकस्य" डुकृञ् करणे" (तनादिगण उभयपदी सकर्मकः सेट्)
 इत्यस्य धातोरात्मनेपदं भवति।यथा-स्वरान् विकुरुते (उच्चारयतीत्यर्थः)।अन्येषु अर्थेषु तु उभयपदमेव भवति।यथा-कामः चित्तं विकरोति विकुरुते वा (विचलितं करोति इत्यर्थः)।
तदुक्तम्-
कृञ इत्यनुवर्तते।विपूर्वात् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी न क्रियावचनः।क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्।शब्दकर्मण इति किम् ? विकरोति पयः" इति (काशिका)

४."अकर्मकाच्च" (अष्टाध्यायी-१.३.३५) इति सूत्रेण यदि कृधातुरकर्मकेऽर्थे प्रयुज्यते तर्हि उभयपदित्वे सत्यपि
"वि"इत्युपसर्गपूर्वात् कृधातोरात्मनेपदं भवति।उच्यते हि-
"विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति" इति (काशिका)।
यथा-छात्रा विकुर्वते,विकारं लभन्त इत्यर्थः।
तदेवं कृधातोरात्मनेपदं परस्मैपदञ्च दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

५."वेः पादविहरणे"
(अष्टाध्यायी-१.३.४१) इत्यनेन सूत्रेण विपूर्वात् "क्रमु पादविक्षेपे"(भ्वादिगणीयः परस्मैपदी सकर्मकः सेट्)
 इति धातोः 'पादैः विहरणम्' इत्यस्मिन्नर्थे (पादन्यासार्थे) आत्मनेपदप्रत्ययाः भवन्ति।तदुच्यते-
"विपूर्वात् क्रमतेः पादविहरणेऽर्थे वर्तमानादात्मनेपदं भवति।विहरणं विक्षेपः सुष्ठु विक्रमते।साधु विक्रमते। अश्वादीनां गतिविशेषो विक्रमणमुच्यते।यद्यपि क्रमिः पादविहरण एव पठ्यते क्रमु पादविक्षेपे इति,तथाप्यनेकार्थत्वाद् धातूनामेवमुक्तम् इति (काशिका)

६."वृत्तिसर्गतायनेषु क्रमः"(अष्टाध्यायी-१.३.३८) इति पाणिनिसूत्रेण "क्रमु पादविक्षेपे"
(भ्वादिगणीयः परस्मैपदी सकर्मकः सेट्) इति धातोः परस्मैपदित्वे सत्यपि वृत्तिसर्गतायनेषु अर्थेषु आत्मनेपदित्वं विधीयते।तत्र वृत्तिर्नाम अप्रतिबन्धो निरन्तरता च,सर्गो नाम उत्साहः तथा तायनं नाम स्फीतता विस्तारो वृद्धिश्च इत्येतेऽर्थाः गृह्यन्ते।तदाह दीक्षितः-
"वृत्तिरप्रतिबन्धः।ऋचि क्रमते बुद्धिः, न प्रतिहन्यत इत्यर्थः।सर्ग उत्साहः। अध्ययनाय क्रमते, उत्सहते इत्यर्थः। क्रमन्तेऽस्मिन् शास्त्राणि,स्फीतानि भवन्तीत्यर्थः।"

७.उपपराभ्याम्" (१.३.३९)
इति सूत्रेण "उप-परा"इत्युपसर्गद्वयपूर्वात् क्रमधातोरात्मनेपदं विधीयते नान्यपूर्वादिति नियमः क्रियते।
तदाह-"वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात्"इति (काशिका)।
यथा-उपक्रमते प्रवर्तत इत्यर्थः।
पराक्रमते उत्सहते इत्यर्थः।

८."आङ उद्गमने"(अष्टाध्यायी-१.३.४०)
इति सूत्रेणोद्गमनार्थे क्रमधातोरात्मनेपदविधानं क्रियते।तदुच्यते-
"आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति" इति (काशिका)।
यथा-आक्रमते सूर्यः,उदयत इत्यर्थः ।
एवं हि आत्मनेपदस्य परस्मैपदस्य च प्रयोगं दृष्ट्वा क्रमधातोरर्थः सारल्येन निर्णेतुं शक्यते।

९."गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः"(अष्टाध्यायी-१.३.३२) इति सूत्रेण
"डुकृञ् करणे" (तनादिगण उभयपदी सकर्मकः सेट्) इति धातोरुभयपदित्वेऽपि 
 गन्धनादिष्वर्थेषु आत्मनेपदविधानं क्रियते।तदुच्यते काशिकायां-
"कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। गन्धनादिष्वर्थेषु वर्तमानात् करोतेरात्मनेपदं भवति" इति (काशिका)।गन्धनादयोऽर्थास्तावदत्र विचार्यन्ते।तद्यथा-
(क)."गन्धनम्"-गन्धनं नामानुपस्थितौ अपशब्दप्रयोगो हिंसा सूचनं परदोषाविष्करणञ्च।तदाह-
"गन्धनं हिंसा। उत्कुरुते सूचयतीत्यर्थः।सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव" इति (सिद्धान्तकौमुदी)
तथाहि-
"गन्धनं हिंसेति।गन्ध अर्दने।अर्द हिंसायामित्युक्तेरिति भावः। सूचयतीति।परदोषमाविषकरोतीत्यर्थ इति (बालमनोरमा)।

(ख)."अवक्षेपणम्"- अवक्षेपणम् भर्त्सनम्।यथा-श्येनो वर्तिकामुदाकुरुते।भर्त्सयतीत्यर्थः।तत्र 
वर्तिका शकुनिविशेषः।

(ग)."सेवनम्"-सेवनं नाम सेवा अनुवृत्तिश्च। तद्यथा-हरिमुपकुरुते,सेवत इत्यर्थः।

(घ)."साहसिक्यम्"-साहसिक्यं साहसं कर्म, बलात्कार इत्यर्थः।तदाह-
"साहसप्रवृत्तिविषयीकरोतीत्यर्थः।सहसा वर्तते साहसिकः।ओजस्सहोऽम्भसा वर्तते॑ इति ठक्।तस्य कर्म असमीक्ष्यकरणं साहसिक्यम् इति (बालमनोरमा)।
यथा-
परदारान्प्रकुरुते,भर्त्सयतीत्यर्थः।तेषु सहसा प्रवर्तत अर्थात् बलात्कारं कुरुत इति भावः।

(ङ)."प्रतियत्नः"-प्रतियत्नो गुणान्तराधानम्। तद्यथा-
एधोदकस्योपस्कुरुते गुणमाधत्ते।तदाह-
"काष्ठस्य शोषणादिगुणाधानम्।दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम्" इति (बालमनोरमा)।

(च)."प्रकथनम्"-प्रकथनं हि
प्रकृष्टेन कथनं करोति।यथा-
गाथाः प्रकुरुते प्रकथयतीत्यर्थः,
जनापवादान् प्रकुरुते प्रकर्षेण कथयतीत्यर्थः।

(छ)."उपयोगः"-उपयोजनम् उपयोगः प्रयुज्यते इत्यर्थः।यथा-
शतं प्रकुरुते।सहस्रं प्रकुरुते। धर्मार्थं शतं सहस्रं वा विनियुङ्क्त इत्यर्थः।

१०."अनुपराभ्यां कृञः" (अष्टाध्यायी-१.३.७९) इत्यनेन सूत्रेण "अनु-परा" इत्युपसर्गद्वयपूर्वात् कृधातोः
कर्त्रभिप्राये क्रियाफले गन्धनादिष्वर्थेषु परस्मैपदं विधीयते।निगद्यते हि-
"कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्,तदपवादः परस्मैपदं विधीयते।अनु परा इत्येवम्पूर्वात् करोतेः परस्मैपदं भवति" इति (काशिका)। तद्यथा-
(क).अनुकरोति अनुकरणं करोति,सदृशं करोतीत्यर्थः।
(ख).पराकरोति-प्रत्याख्याति (प्रत्याख्यानं करोति),दूरं करोतीत्यर्थः।
तदित्थं कृधातोः आत्मनेपदिनः परस्मैपदिनः स्वरूपं दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

११."प्रकाशनस्थेयाख्ययोश्च" (अष्टाध्यायी-१.३.२३) इति सूत्रेण "ष्ठा गतिनिवृतौ" (भ्वादिगणीयः, परस्मैपदी अकर्मकोऽनिट्) इति धातोः परस्मैपदित्वेऽपि प्रकाशनार्थे स्थेयाख्यार्थे चात्मनेपदविधानं क्रियते।
तत्र प्रकाशनं नाम स्वाभिप्रायोक्तिः। तदुच्यते-
"स्वाभिप्रायकथनं प्रकाशनम्"इति (काशिका)
अन्यच्च-
"प्रकाशनं स्वाभिप्रायाविष्करणम्"इति (बालमनोरमा)।
तथाहि -
"प्रकाशनं ज्ञापनम्" इति (तत्त्वबोधिनी)।यथा-
तिष्ठते कन्या छात्रेभ्यः,तिष्ठते वृषली ग्रामपुत्रेभ्यः।प्रकाशयत्यात्मानमित्यर्थः।

पुनस्तत्र विवादे निर्णयप्रदानं नाम स्थेयाख्या।तदुक्तम्-
"स्थेयस्याख्या स्थेयाख्या। तिष्ठन्त्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेय इति प्रसिद्धः,तस्य प्रतिपत्त्यर्थमाख्याग्रहणम्" इति (काशिका)।विवाद इत्युक्ते 
सन्देहविषये निर्णेता इति।निश्चेता, प्रमाणभूत इत्यर्थः।आख्यम् अर्थात् अभिधानम्।
यथा-संशय्य कर्णादिषु तिष्ठते यः। कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः।
तदेवं ष्ठाधातोरात्मनेपदपरस्मैपदप्रयोगं दृष्ट्वा तदर्थनिर्णयं कर्तुं शक्यते।

१२."नेर्विशः" (अष्टाध्यायी-१.३.१७) इति सूत्रेणानेन निरुपसर्गपूर्वस्य "विश प्रवेशने" इत्यस्य तुदादिगणस्य सकर्मकस्यानिटो धातोः परस्मैपदित्वेऽपि आत्मनेपदं विधीयते।
तदुच्यते-
"शेषात् कर्तरि० १.३.७८ इति परस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेःपरस्माद् विश आत्मनेपदं भवति। निविशते निविशन्ते इति (काशिका)।
तथाहि-
"निपूर्वाद्विशः आत्मनेपदं स्यादित्यर्थः"
इति (सुधाटीका)।
यथा-निविशते इत्युक्ते अन्तर्गच्छति / अदृश्यो भवतीति भावः।
एवं हि विशधातोरात्मनेपदपरस्मैपदरूपं निरीक्ष्य तदर्थं निर्णेतुं शक्यते।

१३."अधेः प्रसहने" (अष्टाध्यायी-१.३.३३)
इत्यनेन सूत्रेणाधिपूर्वात् कृधातोरुभयपदित्वेऽपि प्रसहनेऽर्थे आत्मनेपदं सम्पाद्यते।तदुक्तम्-
"अधिपूर्वात् करोतेः प्रसहने वर्तमानादात्मनेपदं भवति" इति (काशिका)।तत्र प्रसहनं नामापराजयः विजयावाप्तिश्च।तदाह-
"प्रसहनमभिभवः, अपराजयो वा"इति (काशिका)।
अन्यच्च-
"प्रसहनं क्षमाऽभिभवश्च।षह मर्षणेऽभिभवे चेति पाठाद् इति 
(सिद्धान्तकौमुदी)।
यथा-शत्रुमधिकुरुते।क्षमत इत्यर्थः, अभिभवतीति भावः।
तदेवं कृधातोरात्मनेपदिरूपं
परस्मैपदिरूपञ्चावलोक्य तदर्थनिर्णयं कर्तुं शक्यते।

१४."परिव्यवेभ्यः क्रियः"
(अष्टाध्यायी-१.३.१८) इति सूत्रेण
"डुक्रीञ् द्रव्यविनिमये" (क्र्यादिगणः सकर्मकोऽनिट्) इति 
धातोरुभयपदित्वेऽपि "परि-वि-अव" इत्युपसर्गत्रपूर्वस्य आत्मनेपदविधानं क्रियते।तदुच्यते काशिकायां-
"डुक्रीञ् द्रव्यविनिमये ञित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम्, अकर्त्रभिप्रायार्थोऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। द्रव्यस्य विनिमय इति द्रव्यविनिमयः।तत्र विनिमयो नाम परीवर्तः।अत्र प्रमाणं 
कविकल्पद्रुमे "डुक्रीञ् द्रव्यपर्याये" इति धातुपाठो वर्तते।तत्र "पर्यायो परीवर्तः" इति (दुर्गादासः)।तस्माद् द्रव्यविनिमयो नाम मूल्यदानेन द्रव्यग्रहणम् अथवा निजं वस्तु प्रदाय अन्यस्य वस्तुनो ग्रहणमिति भावः।यथा-'परिक्रीणीते' इत्यस्य
प्राप्नोति लभते वार्थः।
'विक्रीणीते' अर्थात् धनं स्वीकृत्य वस्तु ददातीत्यर्थः।'अवक्रीणीते '
उत्कोचं ददाति भ्रष्टाचारेण धनं ददात्यर्थः।
तस्मादित्थं क्रीधातोरात्मनेपदिनंं परस्मैपदिनञ्च प्रयोगम् अवेक्ष्य तदर्थनिर्धारणं कर्तुं शक्यते।

१५."समवप्रविभ्यः स्थः"
(अष्टाध्यायी-१.३.२२) इत्यनेन सूत्रेण
"सम्-अव-प्र-वि" इत्युपसर्गचतुष्टयपूर्वात् "ष्ठा गतिनिवृतौ" इत्यस्माद् भ्वादिगणस्थाद् अकर्मकोऽनिटो धातोः परस्मैपदित्वे सत्यपि आत्मनेपदप्रत्ययविधानं क्रियते।तदुक्तम्-
"सम् अव प्र वि इत्येवम्पूर्वात् तिष्ठतेरात्मनेपदं भवति" इति (काशिका)।यथा-
सन्तिष्ठते अर्थात् "समाप्तं भवति" इति (बालमनोरमा)।
अवतिष्ठते (स्थिरो भवति),
प्रतिष्ठते (स्थापितो भवति निर्गच्छति वार्थः),
वितिष्ठते (स्थिरो भवति)।

अस्मिन् सूत्रे "आङः स्थः प्रतिज्ञान इति वक्तव्यम्"
 इति वार्तिकं पठ्यते।अनेन वार्तिकेन आङुपसर्गपूर्वः ष्ठाधातोः प्रतिज्ञार्थे आत्मनेपदं सम्पाद्यते।तदाह सिद्धान्तकौमुद्याम्- "आङः प्रतिज्ञायामुपसंख्यानम् (वार्तिकम्)। शब्दं नित्यमातिष्ठते,नित्यत्वेन प्रतिजानीत इत्यर्थः इति (सिद्धान्तकौमुदी)।

१६."उदोऽनूर्ध्वकर्मणि"
(अष्टाध्यायी-१.३.२४) इत्यनेन सूत्रेण उदुपसर्गात् स्थाधातोः परस्मैपदित्वेऽपि
 अनूर्ध्वकर्मण्यर्थे आत्मनेपदं विधीयते।
तन्निगद्यते-
"उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति।कर्मशब्दः क्रियावाची।अनूर्ध्वकर्मविशिष्टात् क्रियावचनात् तिष्ठतेरात्मनेपदं भवति"इति (काशिका)।तत्र किं नाम अनूर्ध्वकर्मेति जिज्ञासायामुच्यते-
"ऊर्ध्वदेशसंयोगानुकूला क्रिया ऊर्ध्वकर्म।तद्भिन्नमनूर्ध्वकर्म"इति (बालमनोरमा)।
एतद्धि आत्मनेपदविधानम् ईहायामेव भवतु।तदुच्यते-
"उद ईहायामिति वक्तव्यम्" इति (वार्तिकम्)।अत्रेहा नाम कायचेष्टा
शारीरिकचेष्टा वा।तदाह-"ईहा कायपरिस्पन्दः"इति (बालमनोरमा)।
यथा-गेह उत्तिष्ठते।कुटुम्ब उत्तिष्ठते। तदर्थं यतत इत्यर्थः।

"उपात् देवपूजा-सङ्गतिकरण-मित्रकरण-पथिष्विति वाच्यम्" इति वार्तिकेन उपपूर्वकात् स्थाधातोः देवपूजा-सङ्गतिकरण-मित्रकरण-पथिषु अर्थेषु आत्मनेपदं विधीयते।

(क)देवपूजायाम्(देवस्य पूजेति देवपूजा)-"आदित्यमुतिष्ठते",
अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः।

(ख).सङ्गतिकरणे(सङ्गतिकरणमुपश्लेषः)-"गङ्गा यमुनामुपतिष्ठते।गङ्गानदी यमुनानदीम् उपश्लिष्यतीत्यर्थः।
 महामात्रानुपतिष्ठते।
(ग).मित्रकरणे-महामात्रानुपतिष्ठते,
मित्रीकरोतीत्यर्थः।
(घ).पथि-अयं पन्थाः स्रुघ्नमुपतिष्ठते, प्राप्नोतीत्यर्थः।

"वा लिप्सायामिति वक्तव्यम्"इति वार्तिकेन उपपूर्वकात् स्थाधातोः लिप्सार्थे विकल्पेन आत्मनेपदं विधीयते।लब्धुमिच्छा नाम लिप्सा।
यथा-
भिक्षुकः प्रभुमुपतिष्ठते उपतिष्ठति वा, लिप्सया उपगच्छतीत्यर्थः।

१७."अकर्मकाच्च" (अष्टाध्यायी-१.३.२६)
इति सूत्रेण उपपूर्वात् तिष्ठतेरकर्मकाद्
अकर्मकक्रियावचनादात्मनेपदं भवति।यथा-यावद्भुक्तमुपतिष्ठते, यावदोदनमुपतिष्ठते वा
भोजनेभोजने सन्निधीयत इत्यर्थः।
भोजनकाले उपतिष्ठते,सन्निहितो भवतीत्यर्थः
तदित्थं स्थाधातोरात्मनेपदिनं परस्मैपदिनञ्च प्रयोगं समवलोक्य बुधैर्व्याकरणैस्तदर्थनिर्णयः कार्यः।

१८."उद्विभ्यां तपः"(अष्टाध्यायी-१.३.२७) इति सूत्रेण "तप सन्तापे" इति धातोः परस्मैपदित्वेऽपि "उद्-वि" इत्युपसर्गद्वयपूर्वादकर्मकादात्मनेपदं विधीयते।तन्निर्दिश्यते-"उद् वि इत्येवम्पूर्वात् तपतेरकर्मकक्रियावचनादात्मनेपदं भवति।उत्तपते,वितपते।दीप्यत इत्यर्थः"इति (काशिका)।
 अत्रेदं ध्यातव्यं यद्-इदञ्चात्मनेपदविधानम् उद्विपूर्वाद् अकर्मकादेव तपधातोः क्रियते न तु सकर्मकात्।तस्मादेव "सुवर्णकारः सुवर्णमुत्तपति","सविता पृष्ठं वितपति" इत्यादिषु प्रदेशेषु आत्मनेपदविधान्न भवति।
तदुच्यते-
"अकर्मकादित्येव-"उत्तपति सुवर्णं सुवर्णकारः","वितपति पृष्ठं सविता" इति (काशिका)।
तस्मादिदमत्र ज्ञायते यत् तपधातोरात्मनेपदिनं परस्मैपदिनञ्च प्रयोगम् अवेक्ष्य तदर्थं निर्णेतुं शक्यते।

१९."आङो यमहनः"
 (अष्टाध्यायी-१.३.२८) इत्यनेन सूत्रेण आङुपसर्गपूर्वयोः "यम उपरमे" "हन हिंसागत्योः" इत्यनयोर्द्वयोः धात्वोः पयस्मैपदित्वेऽपि अकर्मकप्रयोगे आत्मनेपदं भवति।तदुच्यते-
"अकर्मकादिति वर्तते।यम उपरमे,हन हिंसागत्योः इति परस्मैपदिनौ। ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति" इति (काशिका)।तत्रोपरमणं नाम निवृत्तिः।
केचनात्र स्वाङ्गकर्मकादित्येव आत्मनेपदमिच्छन्ति।तदाह दीक्षितः-
"अकर्मकात्स्वाङ्गकर्मकादित्येव"इति (सिद्धान्तकौमुदी)।
यथा-"आयच्छते" इत्युक्ते रज्जुर्दीर्घीभवतीत्यर्थः,दीर्घीकरोति पादमिति वा।
"आहते" हन्तीत्यर्थः,स्वोदरमिति शेषः।
तदेवं यमधातोः हनधातोश्च परस्मैपदम् आत्मनेपदञ्च प्रयोगं समवलोक्य बुधैर्व्याकरणैस्तदर्थनिर्णयः कार्यः।

२०."समुदाङ्भ्यो यमोऽग्रन्थे"
(अष्टाध्यायी-१.३.७५) इत्यनेन पाणिनिसूत्रेण "सम्-उद्-आङ्" इत्युपसर्गत्रयपूर्वात् यमधातोरग्रन्थार्थे कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति।उच्यते हि-
"कर्त्रभिप्राय इति वर्तते।सम् उद् आङ्इत्येवम्पूर्वाद् यमेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति, ग्रन्थविषयश्चेत् प्रयोगो न भवति" इति (काशिका)।यथा-
१.व्रीहीन् संयच्छते सङ्गृह्णातीत्यर्थः।
२.भारमुद्यच्छते उद्गृह्णातीत्यर्थः।
३.वस्त्रमायच्छते कटादौ निबध्नातीत्यर्थः।
अत्रेदं ध्यातव्यं वर्तते यद्-
आङ्पूर्वादकर्मकाद् "आङो यमहनः" (१.३.२८) इत्यनेन सूत्रेण सिद्धमेवात्मनेपदम्,सकर्मकार्थमिदं पुनर्ग्रहणमत्र विद्यते।
तदिदं यमधातोः परस्मैपदात्मकम् आत्मनेपदात्मकं प्रयोगं समवलोक्य बुधैर्व्याकरणैस्तदर्थो निर्णेयः।

२१."निसमुपविभ्यो ह्वः" 
(अष्टाध्यायी-१.३.३०) इत्यनेन सूत्रेण 
"ह्वेञ् स्पर्धायां शब्दे च" इति धातोः उभयपदित्वेऽपि
"नि-सम्-उप-वि" इत्युपसर्गचतुष्टयपूर्वात् ह्वेधातोरात्मनेपदं विधीयते। तन्निगद्यते-
"नि सम् उप वि इत्येवम्पूर्वाद् ह्वयतेर्धातोरात्मनेपदं भवति।निह्वयते, संह्वयते,उपह्वयते,विह्वयते। अकर्त्रभिप्रायार्थोऽयमारम्भः।अन्यत्र हि ञित्त्वात् सिद्धमेवात्मनेपदम्" इति (काशिका)।
निह्वयते,संह्वयते,उपह्वयते,विह्वयते इति समेषाम् आवाहनं करोतीत्यर्थः।

२२."स्पर्द्धायामाङः"(अष्टाध्यायी-१.३.३१) इति सूत्रेण आङुपसर्गपूर्वात् स्पर्धायां ह्वेधातोरात्मनेपदं विधीयते।तदुच्यते-
"स्पर्धायां विषय आङ्पूर्वाद् ह्वयतेरात्मनेपदं भवति। स्पर्धा नाम संघर्षः,पराभिभवेच्छा, स विषयो धात्वर्थस्य। धातुस्तु शब्दक्रिय एव। मल्लो मल्लमाह्वयते। छात्रश्छात्रमाह्वयते। स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः" इति (काशिका)।
तथाहि -
"कृष्णश्चाणूरमाह्वयते" इति (सिद्धान्तकौमुदी)।
तदिदं ह्वेधातोरात्मनेपदं परस्मैपदञ्चावलोक्य तदर्थनिर्धारणं कर्तुं शक्यते।

२३."अपह्नवे ज्ञः" (अष्टाध्यायी-१.३.४४) इति पाणिनिसूत्रेण ज्ञाधातोरुभयपदित्वेऽपि अपह्नवेऽर्थे आत्मनेपदं विधीयते।उक्तञ्च-
"शेषात् कर्तरि परस्मैपदे प्राप्ते जानातेरपह्नवे वर्तमानादात्मनेपदं भवति" इति (काशिका)।अत्रापह्नवो नाम अपह्नुतिरपलापो वा।
यथा-शतमपजानीते, सहस्त्रमपजानीते अपलपतीत्यर्थः। 

२४."अकर्मकाच्च"(अष्टाध्यायी-१.३.४५) इति सूत्रेण अकर्मकात् ज्ञाधातोरात्मनेपदविधानं क्रियते। तदुक्तं-
"जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति"इति (काशिका)।यथा-
सर्पिषो जानीते,सर्पिषो उपायेन प्रवर्तते इत्यर्थः।अत्र ज्ञाधातुः प्रवृत्त्यर्थे वर्तते।
एवं हि ज्ञाधातोरात्मनेपदं परस्मैपदञ्च दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

२५."समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः'
(अष्टाध्यायी-१.३.२९) इति सूत्रेण समुपसर्गपूर्वेभ्यः
१."गम्लृ गतौ",
२."ऋच्छ् गतीन्द्रियप्रलयमूर्तिभावेषु",
(अत्र गतिर्यानं,इन्द्रियप्रलयो नाम मोहः,मूर्तिभावो नाम कठिनीभावश्च),
३."प्रच्छ ज्ञीप्सायाम्"(अत्र ज्ञीप्सा नाम जिज्ञासा ज्ञातुमिच्छा वा),
४."स्वृ शब्दोपतापयोः,
५."ऋ गतिप्रापणयोः",
६."श्रु श्रवणे" ,
७."विद ज्ञाने" चेतेभ्यो धातुभ्योऽअकर्मकेऽर्थे आत्मनेपदं विधीयते।तदुक्तम् -
"अकर्मकादिति वर्तते। शेषात् कर्तरि परस्मैपदे प्राप्ते संपूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति" (काशिका)।यथा-
१.सङ्गच्छते-सङ्गतो भवति,
२.समृच्छते-मिलति, संगतो भवति वा
३.सम्पृच्छते- समीचीनतया प्रश्नं करोति।
४.संस्वरते-मिलित्वा गायति, रुग्णो भवति वा।
५.समरन्त-मिलति, संगतो भवति।
६.संशृणुते-सूक्ष्मरूपेण शृणोति,
७.संवित्ते-सम्यग्रूपेण जानाति।
धातोरर्थान्तरेण,कर्मणो धात्वर्थेनोपसङ्ग्रहात्, कर्मणोऽविवक्षया वा एतेषामकर्मकत्वात्।

"दृशेश्चेति वक्तव्यम्" इति वार्तिकेन समुपसर्गात् परः "दृशिर् प्रेक्षणे" इति धातुः अपि अकर्मकेऽअर्थे आत्मनेपदी ज्ञातव्यः।यथा -संपश्यते-चिन्तयति, निरीक्षत इत्यर्थः।

२६."भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः" (अष्टाध्यायी-१.३.४७)
इत्यनेन पाणिनिसूत्रेण वदधातोः परस्मैपदित्वेऽपि भासन-उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु अर्थेषु आत्मनेपदित्वं विधीयते।
तद्व्याख्यायते-
"शेषात् कर्तरि परस्मैपदे (१.३.७८) प्राप्ते भासनादिषु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति" इति (काशिका)।
इह भासनं दीप्तिः, उपसम्भाषणमुपसान्त्वनं,ज्ञानं सम्यगवबोधः,यत्न उत्साहः, विमतिर्नानामतिः,उपमन्त्रणं रहस्युपच्छन्दनम् उपसान्त्वनमुपच्छन्दनञ्च।

१.भासनं दीप्तिः-वदते चार्वी लोकायते,भासमानो दीप्यमानः तत्र पदार्थान् व्यक्तीकरोतीत्यर्थः।
२.उपसम्भाषा नाम उपसान्त्वनम्। कर्मकरानुपवदते,उपसान्त्वयतीत्यर्थः।
३.ज्ञानं सम्यगवबोधः-वदते चार्वी लोकायते।जानाति वदितुमित्यर्थः।
४.यत्न उत्साहः-क्षेत्रे वदते,गेहे वदते। तद्विषयमुत्साहमाविष्करोतीत्यर्थः।
५.विमतिर्नानामतिः-क्षेत्रे विवदन्ते,गेहे विवदन्ते।विमतिपतिता विचित्रं भाषन्त इत्यर्थः।
६.उपमन्त्रणं रहस्युपच्छन्दनम्- कुलभार्यामुपवदते,परदारानुपवदते।उपच्छन्दयतीत्यर्थः।

२७."व्यक्तवाचां समुच्चारणे"
(अष्टाध्यायी-१.३.४८) इति सूत्रेण 
वदधातोः परस्मैपदित्वेऽपि व्यक्तवाचां समुच्चारणेऽर्थे आत्मनेपदं भवति।तत्र व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दा येषामिति विग्रहेण 
"व्यक्तवाचो नाम स्पष्टवक्तारो मनुष्यास्तथा समुच्चारणं नाम सहोच्चारणं सम्भूयोच्चारणं वेति।तदुच्यते-
"वद इति वर्तते।व्यक्तवाचां समुच्चारणं सहोच्चारणम्,तत्र वर्तमानाद् वदतेरात्मनेपदं भवति।ननु वद व्यक्तायां वाचि इत्येव पठ्यते तत्र किं व्यक्तवाचामिति विशेषणेन? प्रसिद्ध्युपसङ्ग्रहार्थमेतत्।व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः,तेषां समुच्चारणे यथा स्यात् इति (काशिका)।
तथाहि-
"यद्यपि कुक्कुटादिरुतमपिस्वरूपे व्यक्तम्-अस्येदं रुतमस्येदमिति।मनुष्यवाक्तु व्यक्ततरा भवति,वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च,अतस्त एव गृह्यन्ते।शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्,न स्वभाविकमिति न तेषां ग्रहणम्" इति पदमञ्जरी।
अन्यद्धि-
"मनुष्याणां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात्" इति (सिद्धान्तकौमुदी)।
तद्यथा-संप्रवदन्ते ब्राह्मणाः,संप्रवदन्ते क्षत्रियाः सम्भूय उच्चारयन्ति अर्थात् सहोच्चारणं कुर्वन्तीत्यर्थः।

२८."अपाद्वदः" (अष्टाध्यायी-१.३.७३)
इत्यनेन सूत्रेण "अप" इत्युपसर्गपूर्वात् वदधातोः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति।तदुक्तम्-
"अपपूर्वाद् वदतेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति।धनकामो न्यायमपवदते। न्यायापवादेन धनमर्जयिष्यामीति मन्यते" इति (काशिका)।
तदित्थं वदधातोरात्मनेपदिनं परस्मैपदिनञ्च प्रयोगम् अवेक्ष्य तदर्थनिर्धारणं कर्तुं शक्यते।
"सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः"
(अष्टाध्यायी-१.३.३६) इति पाणिनिसूत्रेण "णीञ् प्रापणे" इति धातोरुभयपदित्वेऽपि सम्मानन-उत्सञ्जन-आचार्यकरण-
ज्ञान-भृति-विगणन-व्ययेषु अर्थेषु आत्मनेपदित्वं विधीयते।तदुच्यते-
"णीञ् प्रापणे अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। णीञ् प्रापणे इत्येतस्माद् धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु" इति (काशिका)।तद्यथा-
(क).सम्माननं पूजनम्।यथा-
नयते चार्वी लोकायते।चार्वी बुद्धिः तत्संबन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्ति।
(ख).उत्सञ्जनम्-उत्क्षेपणम्।यथा-
माणवकमुदानयते,उत्क्षिपतीत्यर्थः।
(ग).आचार्यकरणम्-आचार्यक्रिया।यथा-माणवकमुपनयते, आत्मानमाचार्यीकुर्वन् माणवकमात्मसमीपं प्रापयतीत्यर्थः। 
(घ).ज्ञानम्-प्रमेयनिश्चयः।यथा-नयते चार्वी लोकायते।तत्र प्रमेयं निश्चिनोतीत्यर्थः।
(ङ). भृति:-वेतनम्।यथा-कर्मकरानुपनयते,भृतिदानेन समीपं करोतीत्यर्थः।
(च).विगणनम्-ऋणादेर्निर्यातनम्।यथा- मद्राः करं विनयन्ते, निर्यातयन्तीत्यर्थः।
(छ).व्ययः-धर्मादिषु विनियोगः।यथा-शतं विनयते,सहस्रं विनयते। धर्माद्यर्थं शतं सहस्रं वा विनियुङ्क्त इत्यर्थः।
तदित्थं नीधातोः परस्मैपदिनम् आत्मनेपदिनञ्च प्रयोगं दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

२९."आङो दोऽनास्यविहरणे"(अष्टाध्यायी-१.३.२०) इत्यनेन सूत्रेण "डुदाञ् दाने"इति धातोरुभयपदित्वेऽपि 
आङुपसर्गपूर्वाद् अनास्यविहरणेर्थे( मुखोद्घाटनाद् भिन्नार्थे मुखविकसनादन्यार्थे वा) आत्मनेपदं सम्पाद्यते।तदुक्तम्-
"अकर्त्रभिप्रायार्थोऽयमारम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति" इति (काशिका)।
पुनश्च-
"ददातेर्मुखविकसनादन्यत्र" इति (सिद्धान्तकौमुदी)।
यथा-विद्यामादत्ते गृह्णातीत्यर्थः।

३०."क्रीडोऽनुसम्परिभ्यश्च"(अष्टाध्यायी-१.३.२१) इति पाणिनिसूत्रेण "क्रीडृ विहारे" इति धातोः परस्मैपदित्वे सत्यपि"अनु-सम्-परि" इत्युपसर्गत्रयपूर्वाद् आत्मनेपदित्वं विधीयते।उच्यते हि-
"क्रीडृ विहारे एतस्माद् अनु सम् परीत्येवम्पूर्वाद् आङ्पूर्वाच्चात्मनेपदं भवति"इति (काशिका)।

चकाराद् आङः खल्वपि इति वचनेन आङुपसर्गपूर्वात् क्रीडधातोरपि आत्मनेपदित्वं स्यादिति भावः।तद्यथा-
अनुक्रीडते,सङ्क्रीडते,परिक्रीडते
आक्रीडते इति समेषां क्रीडतीत्यर्थः।

३१."अभिप्रत्यतिभ्यः क्षिपः" (अष्टाध्यायी-१.३.८०) इति सूत्रेण "अभि-प्रति-अति" इत्युपसर्गत्रयपूर्वात् "क्षिप प्रेरणे" इति धातोः कर्त्रभिप्राये क्रियाफले परस्मैपदित्वं सम्पाद्यते।तदाह-
"क्षिप प्रेरणे स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवंपूर्वात् क्षिपः परस्मैपदं भवति" इति (काशिका)।
१.अभिक्षिपति-अभिभूतम् आक्षेपं वा करोति।
२.प्रतिक्षिपति-अपसारयति,दूरं करोति।
३.अतिक्षिपति-निवारणं करोति।
तदित्थं क्षिपधातोः प्रयोगं दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

३२."प्राद्वहः" (अष्टाध्यायी-१.३.८१) इति पाणिनिसूत्रेण 'प्र' इत्युपसर्गपूर्वात् "वह
 प्रापणे" इति धातोरुभययपदित्वेऽपि परस्मैपदविधानं क्रियते।उच्यते हि-
"वह प्रापणे स्वरितेत्।तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते।प्रपूर्वाद् वहतेः परस्मैपदं भवति" इति (काशिका)।यथा-
प्रवहति अर्थात् देशान्तरं प्राप्नोति एकस्मात् स्थानात् अन्यं स्थानं गच्छतीत्यर्थः।

३३."परेर्मृषः" (अष्टाध्यायी-१.३.८२) इति सूत्रेण परिपूर्वात् "मृष तितिक्षायाम्" इति दिवादिगणयधातोरुभयपदित्वे सत्यपि कर्त्रभिप्राये क्रियाफले परस्मैपदित्वं सम्पाद्यते।तदुच्यते-
"मृष तितिक्षायाम् स्वरितेत्। ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति" इति (काशिका)।
अत्र तितिक्षा नाम क्षमा अर्थात् सहनमिति भावः।यथा-परिमृष्यति
सर्वतोभावेन क्षमादानं करोति।

३४."बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः"
(अष्टाध्यायी-१.३.८६) इत्यनेन सूत्रेण 
"बुध अवगमने","युध सम्प्रहारे","णश अदर्शने","जनी प्रादुर्भावे","इङ् अध्ययने","प्रुङ् गतौ","द्रु गतौ","स्रु" गतौ इत्येतेभ्यः ण्यन्तेभ्यो धातुभ्य: कर्त्रभिप्राये क्रियाफले आत्मनेपदित्वे सत्यपि परस्मैपदित्वं साध्यते।तदुच्यते काशिकायां-
"णिचश्च(१.३.७४) इति कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते।
'बुध-युध- नश-जन-इङ्-प्रु-द्रु-स्रु' इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। (क).बोधयति-विकासयति प्रेरयति।
(ख).योधयति-युद्धार्थं प्रेरयति।
(ग).नाशयति-नष्टं कर्तुं प्रेरयति।
(घ).जनयति-प्रादुर्भावार्थं प्रेरयति।
(ङ).अध्यापयति-अध्येतुं प्रेरयति,बोधयति।
(च).प्रावयति-प्रापयतीत्यर्थः
(छ).द्रावयति-विलापयतीत्यर्थः।
(ज).स्रावयति-स्यन्दयतीत्यर्थः।

३५."निगरणचलनार्थेभ्यश्च"
(अष्टाध्यायी-१.३.८७) इति सूत्रेण ण्यन्तेभ्यो निगरणार्थकेभ्यः चलनार्थकेभ्यो धातुभ्यः परस्मैपदं भवति।उच्यते हि-
कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। निगरणम् अभ्यवहारः।चलनं कम्पनम्।अत्र अभ्यवहारेण गिलनं भोजनं भक्षणञ्च बोध्यम्
निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति" इति (काशिका)।
(१)निगरणार्थकधातवः-
(क).निगारयति-"गृ निगरणे"
(ख).आशयति-"अश भोजने"। (ग).भोजयति-"भुज पालनाभ्यवहारयोः। 
 "अदेः प्रतिषेधो वक्तव्यः"
"आदिखाद्योर्नेति प्रतिषिद्धम्"
 इति वार्तिकद्वयेन प्रतिषेधाद् भक्षणार्थकयोरदधातोः खादृधातोश्चात्र ग्रहणं न भवति।
(२).चलनार्थकधातवः-
(क)चलयति-"चल कम्पने"। 
(ख).चोपयति-"चुप मन्दायां गतौ"। (ग).कम्पयति-"कपि चलने"।


३६."सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः"
(अष्टाध्यायी-१.३.३६) इति पाणिनिसूत्रेण "णीञ् प्रापणे" इति धातोरुभयपदित्वेऽपि सम्मानन-उत्सञ्जन-आचार्यकरण-
ज्ञान-भृति-विगणन-व्ययेषु अर्थेषु आत्मनेपदित्वं विधीयते।तदुच्यते-
"णीञ् प्रापणे अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। णीञ् प्रापणे इत्येतस्माद् धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु" इति (काशिका)।तद्यथा-
(क).सम्माननं पूजनम्।यथा-
नयते चार्वी लोकायते।चार्वी बुद्धिः तत्संबन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्ति।
(ख).उत्सञ्जनम्-उत्क्षेपणम्।यथा-
माणवकमुदानयते,उत्क्षिपतीत्यर्थः।
(ग).आचार्यकरणम्-आचार्यक्रिया।यथा-माणवकमुपनयते, आत्मानमाचार्यीकुर्वन् माणवकमात्मसमीपं प्रापयतीत्यर्थः। 
(घ).ज्ञानम्-प्रमेयनिश्चयः।यथा-नयते चार्वी लोकायते।तत्र प्रमेयं निश्चिनोतीत्यर्थः।
(ङ). भृति:-वेतनम्।यथा-कर्मकरानुपनयते,भृतिदानेन समीपं करोतीत्यर्थः।
(च).विगणनम्-ऋणादेर्निर्यातनम्।यथा- मद्राः करं विनयन्ते, निर्यातयन्तीत्यर्थः।
(छ).व्ययः-धर्मादिषु विनियोगः।यथा-शतं विनयते,सहस्रं विनयते। धर्माद्यर्थं शतं सहस्रं वा विनियुङ्क्त इत्यर्थः।
तदित्थं नीधातोः परस्मैपदिनम् आत्मनेपदिनञ्च प्रयोगं दृष्ट्वा तदर्थं निर्णेतुं शक्यते।

३७."लियः सम्माननशालीनीकरणयोश्च"
(अष्टाध्यायी-१.३.७०)
इति सूत्रेण "लीङ् श्लेषणे" इति दिवादिगणस्थः, "ली श्लेषणे" इति क्र्यादिगणस्थश्चाभ्यां ण्यन्ताभ्यां धातुभ्यां सम्मानन-शालीनीकरणयोरर्थयोः प्रलम्भनेऽर्थे चात्मनेपदं विधीयते।तदुच्यते-
"णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः।लीङ् श्लेषणे इति दिवादौ पठ्यते, ली श्लेषणे इति च क्र्यादौ।विशेषाभावाद् द्वयोरपि ग्रहणम्।लियो ण्यन्तात् सन्मानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति, 
च शब्दात् प्रलम्भने च" इति (काशिका)।तद्यथा
(क.)सम्माननं पूजनम्-
जटाभिरालापयते,पूजां समधिगच्छतीत्यर्थः।
(ख).शालीनीकरणं न्यग्भावनम् अभिभवश्च।श्येनो वर्तिकामुल्लापयते,न्यक्करोतीत्यर्थोऽभिभवतीत्यर्थो वा।
(ग).प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम्।
कस्त्वा मुल्लापयते, विसंवादयतीत्यर्थः।
तदित्थं परस्मैपदिनम् आत्मनेपदिनञ्च प्रयोगं दृष्ट्वा विद्वांसः तदर्थं निर्णेतुं शक्नुवन्ति।

३८."गृधिवञ्च्योः प्रलम्भने"(अष्टाध्यायी-१.३.६९)
इति सूत्रेण ण्यन्ताभ्यां "गृधु-वञ्चुधातुभ्यां प्रलम्भनेऽर्थे आत्मनेपदं भवति।अत्र प्रलम्भनं नाम विसंवादनं मिथ्याफलाख्यानं प्रतारणञ्च।तदुक्तम् -"णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः।गृधु अभिकाङ्क्षायाम्,वञ्चु गतौ इत्येतयोर्ण्यन्तयोः प्रलम्भने वर्तमानयोरात्मनेपदं भवति।प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम्" इति (काशिका)।
तथाहि-
"प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत्"इति (सिद्धान्तकौमुदी)।
यथा-माणवकं गर्धयते माणवकं वञ्चयते वा, माणवकं विसंवादयतीत्यर्थः प्रतारयतीत्यर्थो वा।

इदमत्र ध्येयं "गृधु अभिकाङ्क्षायाम्" इति
 दिवादिगणः परस्मैपदी सकर्मकः सेट् धातुः।कविकल्पद्रुमे तु "गृधु लिप्से" इति पठ्यते।
"वञ्चु गतौ" इति भ्वादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।अनयोः प्रलम्भने अर्थात् प्रतारणे वृत्तिः धातोरनेकर्थत्वाद्भवति।तदाह-
"धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः" इति (बालमनोरमा)।


३९."भुजोऽनवने"(अष्टाध्यायी-१.३.६६) 
इति सूत्रेण रुधादिगणस्थाद्भुजधातोरनवनेऽर्थे 
आत्मनेपदं भवति।अत्र अवनं पालनम्,न अवनम् अनवनम् अपालनमित्यर्थो बोध्यः।
"भुज पालनाभ्यवहारयोः" इति 
रुधादिगणः परस्मैपदी सकर्मकोऽनिट् धातुः।अत्राभ्यवहारो भोजनमुच्यते।
उच्यते हि- 
"भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते।तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवति" इति(काशिका)।यथा-ओदनं भुङ्क्ते ,अभ्यवहरति भोजनं करोतीत्यर्थः।अवने(पालने) अर्थे तु धातुरयं 
परस्मैपद एव प्रयुज्यते।तद्यथा-महीं भुनक्ति,पृथ्वीं रक्षति पालयतीत्यर्थः।
तदित्थं भुजधातोरात्मनेपदिनं परस्मैपदिनञ्च प्रयोगम् अभिलक्ष्य तदर्थनिर्धारणं कर्तुं शक्यते।

४०."व्यक्तवाचां समुच्चारणे"
(अष्टाध्यायी-१.३.४८) इति सूत्रेण 
वदधातोः परस्मैपदित्वेऽपि व्यक्तवाचां समुच्चारणेऽर्थे आत्मनेपदं भवति।तत्र व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दा येषामिति विग्रहेण 
"व्यक्तवाचो नाम स्पष्टवक्तारो मनुष्यास्तथा समुच्चारणं नाम सहोच्चारणं सम्भूयोच्चारणं वेति।तदुच्यते-
"वद इति वर्तते।व्यक्तवाचां समुच्चारणं सहोच्चारणम्,तत्र वर्तमानाद् वदतेरात्मनेपदं भवति।ननु वद व्यक्तायां वाचि इत्येव पठ्यते तत्र किं व्यक्तवाचामिति विशेषणेन? प्रसिद्ध्युपसङ्ग्रहार्थमेतत्।व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः,तेषां समुच्चारणे यथा स्यात् इति (काशिका)।
तथाहि-
"यद्यपि कुक्कुटादिरुतमपिस्वरूपे व्यक्तम्-अस्येदं रुतमस्येदमिति।मनुष्यवाक्तु व्यक्ततरा भवति,वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च,अतस्त एव गृह्यन्ते।शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्,न स्वभाविकमिति न तेषां ग्रहणम्" इति पदमञ्जरी।
अन्यद्धि-
"मनुष्याणां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात्" इति (सिद्धान्तकौमुदी)।
तद्यथा-संप्रवदन्ते ब्राह्मणाः,संप्रवदन्ते क्षत्रियाः सम्भूय उच्चारयन्ति अर्थात् सहोच्चारणं कुर्वन्तीत्यर्थः।


४१."समः प्रतिज्ञाने" (अष्टाध्यायी-१.३.५२) इति सूत्रेण समुपसर्गपूर्वात् "गॄ निगरणे" इति धातोः परस्मैपदित्वे सत्यपि प्रतिज्ञानेऽर्थे आत्मनेपदं विधीयते।अत्र प्रतिज्ञानं नामाभ्युपमः प्रतिज्ञेत्यर्थः।
तदुच्यते-
"गॄ इति वर्तते।सम्पूर्वाद् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति" इति (काशिका)।यथा-
शब्दं नित्यं सङ्गिरते,प्रतिजानीत इत्यर्थः।
धातुपाठे तु "गॄ निगरणे" इति तुदादिगणः परस्मैपदी सकर्मकः सेट् धातुः पठ्यते। अत्र 
निगरणं नाम गिलनं भक्षणमित्यर्थः।
तदेवं गॄधातोरात्मनेपदं परस्मैपदञ्च प्रयोगमालक्ष्य तदर्थनिर्धारणं कुर्वन्ति बुधा वैयाकरणाः।

४२."अवाद्ग्रः"(अष्टाध्यायी-१.३.५१) इति सूत्रेण 'अव'इत्युपसर्गपूर्वात् "गॄ" इति धातोः परस्मैपदित्वेऽपि आत्मनेपदी भवति।अत्र जिज्ञासा समुदेति यदत्र- 
(क)."गॄ निगरणे" इति तुदादिगणीयः परस्मैपदी सकर्मकः सेट् धातुः।
(ख)."गॄ शब्दे" इति क्र्यादिगणः परस्मैपदी अकर्मकः सेट् धातुः।
इत्येतयोः द्वयोः कस्यात्र ग्रहणं स्यात्।तदेदमुच्यते-
"न चावपूर्वस्य गृणातेः प्रयोगोऽस्ति"इति (महाभाष्यम्)
तदुक्तम्-
"गॄ निगरणे इति तुदादौ पठ्यते,तस्येदं ग्रहणम्,न तु गॄ शब्दे इति क्र्यादिपठितस्य।तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति।शेषात्कर्तरि परस्मैपदम् (१.३.७८) इति परस्मैपदे प्राप्ते,अवपूर्वाद् गिरतेरात्मनेपदं भवति" इति (काशिका)।यथा-अवगिरते।

४३."उपाद्यमः स्वकरणे"(अष्टाध्यायी-१.३.५६) इति सूत्रेण 
यमधातोः परस्मैपदित्वेऽपि उपपूर्वस्य यमधातोः स्वकरणार्थे आत्मनेपदित्वं साध्यते।तन्निगदितम्-
"शेषात् कर्तरि परस्मैपदे प्राप्ते, उपपूर्वाद् यमः स्वकरणे वर्तमानादात्मनेपदं भवति" इति (काशिका)।अत्र पाणिग्रहणसंस्कारविधिना स्वीकरणमेव स्वकरणं गृह्यते न तु अन्येन विधिना स्वाधीनीकरणं स्वकरणं गृह्यते।अत्र मानं काशिकावचनम्-
"पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते,न स्वकरणमात्रम्" इति (काशिका)।
काशिकाव्याख्याने न्यासे पुनरिदं निगद्यते-
"यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह -'पाणिग्रहणम्' इत्यादि" इति (न्यासः)।
अन्यत्र चोक्तम्-"स्वकरणं स्वीकारः" इति (सिद्धान्तकौमुदी)।
यथा-भार्यामुपयच्छते।स्वकरण इति किम्? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति।
भाष्ये तु अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्।
अन्यद्धि- 
"अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः"
इति (बालमनोरमा)।
अतः स्वकरणशब्देन भार्यास्वीकारो गृह्यते इति वृत्तिकृत् इति तत्त्वबोधिन्यां प्रतिपादितम्।
तदित्थं सिध्यति यद्धातोः आत्मनेपदिपरस्मैपदिरूपमवलोक्य तदर्थं निर्णेतुं शक्यते।












Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)