उपसर्गानुसारिणो धात्वर्थाः-५(वहधातुः)

"वह प्रापणे" इति भ्वादिगणस्योभयपदी द्विकर्मकोऽनिट् धातुः। जनः ग्रामं भारं वहति वहते जनः ग्रामे भारं  प्रापयतीत्यर्थः।अर्थान्तरे तु अकर्मकोऽयं धातुः। तदुच्यते-
''धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसंग्रहात् ।प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।।"
तदुक्तं क्षीरतरङ्गिण्याम्-
"वह प्रापण इति सकर्मकोऽयम्। अर्थान्तरे वृत्ते स्यन्दनेऽर्थे वर्त्तमानोऽकर्मकः सरित्(नदी) वहति(प्रवहतीति भावः), मरुद्(वायुः) वहति(वातीति भावः)।
    एतेन स्पष्टं भवति यद्वहधातुरनेकार्थको विद्यते पुनश्च विविधोपसर्गसंयोगेन भूयोऽर्थान् ज्ञापयति।उपसर्गास्तदर्थज्ञापने सहकारभावमाश्रयन्ति।तद्यथा-
"प्रवाहः"-प्रोपसर्गपूर्वो वह धातुः प्रवृत्तिजलस्रोतःप्रकृष्टाश्वार्थान् बोधयति।प्रवृत्त्यर्थे प्रवाहशब्दो यथा-
 "सत्त्वैकतानगतयो वचसां प्रवाहैः"
      (श्रीमद्भागवतम्-७.९.८)
कोशवचनमपि तत्र प्रमाणम्।यथोक्तं-
"प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः"
     (अमरकोशः-३.२.१८)

जलस्रोतस्यर्थे प्रवाहो यथा
"पूर्ब्बं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प"
(रघुवंशमहाकाव्यम्- ५.४६)

प्रकृष्टाश्वार्थे प्रवाहशब्दो यथा- 
"उह्यते अनेन"इति विग्रहे करणेऽर्थे घञा प्रत्ययेन वाहः निष्पन्नो भवति। यस्यार्थो भवति घोटकः(अश्वः)।तदुच्यते-
“इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत्"
(अध्यात्मरामायणम्-२.५.५६)
प्रकृष्टो वाहः(अश्वः) इति प्रवाहः प्रकृष्टाश्वः अर्थात् उत्तमाश्व इति भावः।


"संवाहः"-समुपसर्गयोगेन वहधातुः संवाहयतीति विग्रहे णिचि ततोऽचि प्रत्यये सति निष्पन्नः सन् अङ्गविमर्दकार्थं बोधयति।तद्यथा-
“तं तथा व्याधितं भार्य्या पतिं देवमियार्च्चयत्। पादाभ्यङ्गाङ्गसंवाहस्नानाच्छादनभोजनैः।।"
   (मार्कण्डेयपुराणम्-१६.१५)
तथाहि-शिष्यः गुरुपादं संवाहयति।" अत्र प्रमाणम्-"संवाहनं मर्दनं स्याद्" 
(अमरकोशः -३.२.२२) 

"विवाहः"-विशिष्टं वहनं विवाहः"इति विग्रहे 'वि'इति उपसर्गसंयोगेन वहधातुः परिणयार्थं वेदयति।तस्माद् 
“भार्य्यात्वसम्पादकज्ञानं विवाहः”
अत्र मानमेतत् कोशवचनम्-
विवाहोपयमौ समौ"
(अमरकोशः-२.७.६०)
पुनस्तत्रैव-
 "तथा परिणयोद्वाहोपयामाः पाणिपीडनम्"
(अमरकोशः-२.७.६१)
अन्यत्रापि-
"चतुर्णामपि वर्णानां प्रेत्य चेह हिताय च।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत॥
ब्राह्म्यो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः॥"
(मनुस्मृतिः-३.२१)

"उद्वाह"-उदुपसर्गपूर्वोऽपि वहधातुः परिणयार्थं बोधयति।तद्यथा- 
"उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्"
(मनुस्मृतिः-३.४)
उद्वहेत् इत्युक्ते परिणयेत्, उपयच्छेत, परिगृह्णीत इति भावः।
पुनश्च-
"अविप्लुत ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेदिति” 
         याज्ञवल्क्यस्मृतिः)
अन्यद्धि-
"शिक्षितनाट्यवेदैरुद्वाहसङ्गीतमुदारक्लृप्तम्"
        (याद०-१३-८१)
अमरकोशकारस्यापि अयमेवाशयः-
"तथा परिणयोद्वाहोपयामाः पाणिपीडनम्"
       (अमरकोशः-२.७.६१)

"निर्वाहः"-'निर्' इत्युपसर्गपूर्वको वहधातुः कार्य्यसम्पादनं प्रतिपालनञ्च बोधयति।तद्यथा- 
"निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्" 
(मुद्राराक्षसम्-२.१८)
अन्यद्धि- 
माता निजकर्त्तव्यं सम्यक् निर्वहति।

आवाहनम्-
आङुपसर्गपूर्वको वहधातुरामन्त्रणनिमन्त्रणाह्वानार्थं वेदयति।
तद्यथा- 
"प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने"
पुनश्च-
“विनायकं तथा दुर्गां वायुमाकाशमेव च।  आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ॥"
पूजाप्रकरणेषु विष्णुं शिवं गणपतिम् आवाहयामि इत्यादिप्रयोगो मुहुर्मुहुः समुपलभ्यते।

Comments

Popular posts from this blog

"स्वभावो हि दुरतिक्रमः"-दीपककुमारचौधरी

सूत्रानुसारिणो धात्वर्थाः

धात्वर्थसमीक्षा(शोधबीजम्)