उपसर्गानुसारिणो धात्वर्थाः-६(ग्रहधातुः)
"ग्रह उपादाने" इति क्र्यादिगणीयः सेट् उभयपदी सकर्मको धातुः।तत्र "उपादानं स्वीकारः"-(क्षीरतरङ्गिणी) स्वयमनेकार्थको विद्यते नानार्थेषु हस्तव्यापारस्वीकारज्ञानार्थेषु प्रयोगात्।तद्यथा ज्ञाने-
"हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम्।
ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे॥"
(नैषधीयचरितम्-३.४)
हस्तव्यापारे-
"तौ जगृहतुः पादान् राजा राज्ञी च मागधी”
(रघुवंशमहाकाव्यम्-१.५७)
पुनस्तत्रैव-
“गृहाण शस्त्रं यदि सर्ग एष ते”
(रघुवंशम्-३.५१)
स्वीकारे -
"वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।।"
(श्रीमद्भगवद्गीता-२.२२)
एदतिरिक्तेषु अर्थेषु ग्रहशब्दो लभ्यते।
गृह्णाति गतिविशेषानिति ग्रहः,अथ च गृह्णाति फलदातृत्वेन जीवानिति ग्रहः इति व्युत्पत्त्या ग्रहधातुर्वशोपरागनिर्बन्धसूर्यादिग्रहभेदे च वर्तते।तदुक्तं-
"ग्रहे ग्राहो वशः"(अमरकोशः-३.२.८)
पुनश्च-
"उपरागो ग्रहः"(अमरकोशः-१.४.१०)
पुनस्तत्रैव-
"दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः"
(अमरकोशः-३.३.२५१)
अतः ग्रहधातुरनेकार्थकोऽस्ति।पुनश्च विविधोपसर्गसंयोगेन अन्यान् अपि अनेकार्थान् बोधयन्ति तथोपसर्गाश्च द्योतका भवन्ति।
"सङ्ग्रहः"-समुपसर्गपूर्वको ग्रहधातुः समाहारे सङ्कलनग्रन्थे च वर्तते।संक्षेपेण गृह्यन्ते नानास्थाने विप्रकीर्णा अर्था बुध्यन्तेऽनेन सङ्ग्रहः।समाहारार्थे-
"समाहृतिस्तु सङ्ग्रहः"(अमरकोशः-१.६.६)
पुनश्च-
"सङ्ग्रहः खलु कर्तव्यः सङ्ग्रही नावसीदति"
अन्यद्धि-
"कोशेनाश्रयणीयत्वमिति तस्यार्थसङ्ग्रहः।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥"
(रघुवंशम्-१७.६०)
सङ्कलनग्रन्थे-
"विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः।
निबन्धा यः समासेन संग्रहं तं विदुर्बुधाः॥"
अतः 'अर्थसङ्ग्रहः','तर्कसङ्ग्रहः' इत्यादयो ग्रन्थाः अन्वर्थतां भजन्ते।
"आग्रहः"-आङुपसर्गपूर्वको
ग्रहधातुरासक्तिम् अनुग्रहम् आक्रमं ग्रहणञ्च बोधयति।अत्र कोशवचनं प्रमाणम्।तदुक्तम्-
"आग्रहोऽनुग्रहासक्त्योराक्रमे ग्रहणेऽपि च"
(मेदिनीकोशः)
आसक्तौ आग्रहशब्दस्तद्यथा-
“इत्याग्रहात् वदन्तं तं स पिता तत्र नीतवान्”
(कथासरित्सागरे-२५.९९)
ग्रहणार्थे 'आगृहीतो बद्धः'।तद्यथा-
"अयमागृहीतकमनीयकङ्कणः"
(उत्तररामचरितम्-१.१८)
"अनुग्रहः"-'अनु'उपसर्गपूर्वको ग्रहधातुः अनिष्टवारणपूर्व्वकेष्टसाधनार्थं कृपाप्रसादार्थञ्च वेदयति।तदुक्तं-
"विजपोन्मत्तनिःस्वानामकुत्सापूर्व्वकं हि यत्।
पूरणं दानमानाभ्यामनुग्रह उदाहृतः।।"
अन्यद्धि-
"प्रभुः भक्तानुग्रहं करोति"
"निग्रहः"-नियमेन ग्रहणमिति विग्रहे 'नि'इत्युपसर्गपूर्वो ग्रहधातुर्निश्चयेन ग्रहणं बन्धनम् अनुग्रहाभावञ्च ज्ञापयति।तदुक्तं-
"निग्रहं प्रकृतीनाञ्च कुर्य्याद् योऽरिबलस्य च"
(मनुस्मृतिः-७.१७५)
पुनश्च-
“यदाश्रौषं कर्णदुर्य्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य"
(महाभारतम्-१.१.१७४)
"अभिग्रहः"-'अभि'इति उपसर्गसंयुक्तो ग्रहधातुरभियोगम् अर्थात् आभिमुख्येन युद्धादिप्रवृत्यर्थं वेदयति। तदुक्तं-
"विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥"
(अमरकोशः-३.२.१३)
"प्रतिग्रहः"-'प्रति' इत्युपसर्गसम्बद्धो ग्रहधातुः स्वीकारदानोपहारग्रहणाद्यर्थान् बोधयन्ति।
दानार्थे प्रतिग्रहशब्दो यथा-
“भूमेः प्रतिग्रहं कुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्”
(विष्णुधर्मोत्तरपुराणम्)
अन्यत्र च-
"नास्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा"(रा० २।८७।१७)
तत्र न प्रतिग्राह्यं दानमिति न ग्राह्यम् इयं भरतोक्तिः।
पुनश्च-
"शूद्राः प्रतिग्रहीष्यन्ति"
(श्रीमद्भागवतपुराणम्-१२.३.६८)
प्रतिग्रहीष्यन्ति अर्थात् दानं ग्रहीष्यन्तीत्यर्थः।
परितो ग्रहः(ग्रहणम्) इति विग्रहे प्रतिग्रहो पत्नीग्रहणार्थे प्रयुज्यते।
तदुक्तं-
"पत्नीपरिजनादानमूलशापाः परिग्रहाः"
(अमरकोशः-३.३.२५२)
अन्यद्धि-
“समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम्"
(रघुवंशम्-९.१४)
पुनस्तत्रैव-
"निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः।"
( रघुवंशमहाकाव्यम्-१.९५)
अन्यत्रापि-
"कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या"
(नैषधीयचरितम्-४.४५)
अन्यच्च-
"असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः"
(अभिज्ञानशाकुन्तलम्-१.१९)
उपहारार्थेऽपि परिग्रहशब्दो लभ्यते। तद्यथा-
"राज्ञः प्रतिग्रहोऽयम्" (शा० १)
अत्र प्रतिग्रहो नाम उपहारः।
स्वीकारार्थे प्रतिग्रहो दृश्यते।तद्धि-
प्रतिग्राहितं स्वीकारितम्।
"जाया-प्रतिग्राहितगन्ध-माल्याम्'
(रघुवंशम्-२.१)
कोशवचनमप्यत्र प्रमाणम्-
"'पत्नीस्वीकारशपथमूल्येष्वपि परिग्रहः"
(वैजयन्तीकोशः)
"उपग्रह:"-उपगृह्यते समीपे गृह्यते इति उपग्रहः।
"प्रग्रहः"-'प्रकृष्टेन गृह्यते इति प्रग्रहः' इत्यतयोर्विग्रहयोः उपपूर्वः प्रपूर्वश्च ग्रहधातुर्बन्द्यर्थं बोधयति।
तदुक्तं-
उपगृह्यते समीपे पठ्यते इति उपग्रहः।
"प्रग्रहोपग्रहौ बन्द्याम्"
(अमरकोशः-२.८.११९)
अन्यत्रापि-
"उपग्रहः पुमान् बन्द्यामुपयोगेऽनुकूलने"
(मेदिनीकोशः) इति।
Comments
Post a Comment