उपदेशः(प्रयोगानुसारिणो धात्वर्थाः)
"-उपदेशः"-दिश अतिसर्जने'
(तुदादिस्थोऽनिट् उभयपदी सकर्मको धातुः)।तत्र अतिशयेन सर्जनम् अर्थात् त्यागः इति अतिसर्जनम्।तदुक्तम्- "अतिसर्जनं त्यागः"(क्षीरतरङ्गिणी)।त्यागो नाम दानम्।कविकल्पद्रुमे तु "दिश ओचे"इति धातुत्वेन पठितः।तत्र ओच इति उचिर्य्य समवायने इत्यस्य अचि रूपम्।धातूनामनेकार्थत्वादोच इह दानमाज्ञापनं वा।
"दिदेश कौत्साय समस्तमेवेति रघुः"
(रघुवंशमहाकाव्यम् )
कथनेऽप्ययं धातुः। तद्धि-"धर्म्मं दिशति देशिकः"इति दुर्गादासः।
एतेन ज्ञायते यद्दिशधातुरनेकार्थको दृश्यते।पुनश्च लघुशब्देन्दुशेखरादौ तु "दिशि उच्चारणक्रियायाम्" इति धातुस्वरूपं प्रपञ्चितम्।ततः घञा प्रत्ययेन सिध्यते उपदेशशब्दः।प्रयोगो यस्यानेकार्थेषु दीक्षामन्त्रकथने हितकथने प्रवर्तकवाक्येऽनुशासने आद्युच्चारणे च।
तत्रादौ दीक्षामन्त्रकथनेऽयमुपदेशशब्दो यथा-
“चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये। मन्त्रमात्रप्रकथनमुपदेशः स उच्यते॥"
तद्धि-"उपनयनसंस्कारे गुरुर्माणवकाय सप्रणवं गायत्र्युपदेशं करोति।"
उपदेशो नाम हितकथनम्।तदुक्तं पञ्चतन्त्रे-
"उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्।।"
(पञ्चतन्त्रम्-४२०)
पुनश्च -
"उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः।श्यामायते न विद्वत्सु यः काञ्चनमिवाग्निषु॥"
एतस्मादेव हितोपदेशग्रन्थोऽन्वर्थतां भजते।
प्रवर्तकवाक्येऽनुशासने चोपदेशशब्दो यथा-
"उपदिश्यतेऽनेनेत्युपदेशः शास्त्रवाक्यानि,सूत्रपाठः खिलपाठश्च।
(काशिका-१.३.२)
"आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना"
(मनुस्मृति:-१२.१०६)
अन्यत्रापि-
"परोपदेशे पाण्डित्यम्"इति।तस्मादेव आदिशङ्कररचितस्य "उपदेशसाहस्री" इति ग्रन्थस्य नामकरणं सार्थकं भवति।
"उपदेशनमुपदेशः"इति विग्रहे
उपदेशशब्दश्चाद्युच्चारणेऽपि वर्तते।तत्र मानम्-
उपदेशेऽजनुनासिक इत्"(अष्टाध्यायी-१.३.२)
तथाहि -
"अथ किमर्थो वर्णानामुपदेशः?
वृत्तिसमवायार्थ उपदेशः कर्त्तव्यः।
वृत्तिसमवायार्थो वर्णानामुपदेशः।
किमिदं वृत्तिसमवायार्थ इति?
वृत्तये समवायो वृत्तिसमवायः। वृत्त्यर्थो वा समवायो वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायो वृत्तिसमवायः।
का पुनर्वृत्तिः?
शास्त्रप्रवृत्तिः।
अथ कः समवायः?
वर्णानामानुपूर्व्येण सन्निवेशः।
अथ क उपदेशः?
उच्चारणम्।
कुत एतत्?
दिशिरुच्चारणक्रियः। उच्चार्य हि वर्णानाह- उपदिष्टा इमे वर्णा इति।"
(महाभाष्यम्-पस्पशाह्निकम्)
अन्यत्रापि-"उपदेश आद्योच्चारणम्"(सिद्धान्तकौमुदी)
अन्यद्धि-
धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्।
आगमप्रत्ययादेशा उपदेशा: प्रकीर्तिताः।।"
उपर्युक्तप्रमाणैरिदं स्पष्टं भवति यद् उपदेशशब्दस्तन्मूलभूतो दिशधातुश्चानेकार्थो वर्तते नात्र संशयः।
Comments
Post a Comment